| YouTube Channel

चुचुच्यिषः (cucucyiSaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“चुच्य अभिषवे”@} 2 अभिषवः = अवयवानां शिथिलीकरणम्, सुरायाः सन्धानं वा।
स्नानं च।
‘शुच्य’ इति घातोः पाठभेदोऽयम्
इति सिद्धान्तकौमुदी।
चुच्यकः-च्यिका, चुच्यकः-च्यिका, चुचुच्यिषकः-षिका, 3 चोचुच्यकः-च्यिका
चुच्यिता-त्री, चुच्ययिता-त्री, चुचुच्यिषिता-त्री, 4 चोचुच्यिता-त्री
5 चुच्यन्-न्ती, चुच्ययन्-न्ती, चुचुच्यिषन्-न्ती
-- चुच्यिष्यन्-न्ती-ती, चुच्ययिष्यन्-न्ती-ती, चुचुच्यिषिष्यन्-न्ती-ती
-- -- चुच्यमानः, चुच्ययिष्यमाणः, 6 चोचुच्य्यमानः, चोचुच्यिष्यमाणः
7 सुचुक्-सुचुच्यौ-सुचुच्यः
-- -- -- 8 चुच्यितम्-तः, चुच्यितः, चुचुच्यिषितः, चोचुच्यितः-तवान्
चुच्यः, चुच्यः, चुचुच्यिषुः, चोचुच्यः
चुच्यितव्यम्, चुच्ययितव्यम्, चुचुच्यिषितव्यम्, चोचुच्यितव्यम्
चुच्यनीयम्, चुच्यनीयम्, चुचुच्यिषणीयम्, चोचुच्यनीयम्
9 चुच्य्यम्-चुच्यम्, चुच्यम्, चुचुच्यिष्यम्, चोचुच्य्यम्
ईषच्चुच्यः-दुश्चुच्यः-सुचुच्यः
-- -- -- चुच्य्यमानः-चुच्यमानः, चुच्यमानः, चुचुच्यिष्यमाणः, चोचुच्य्यमानः
चुच्यः, चुच्यः, चुचुच्यिषः, चोचुच्यः
चुच्यितुम्, चुच्ययितुम्, चुचुच्यिषितुम्, चोचुच्यितुम्
10 11 चुच्या, चुच्यना, चुचुच्यिषा, चोचुच्या
चुच्यनम्, चुच्यनम्, चुचुच्यिषणम्, चोचुच्यनम्
चुच्यित्वा, चुच्ययित्वा, चुचुच्यिषित्वा, चोचुच्यित्वा
प्रचुच्य्य-प्रचुच्य, प्रचुच्य, प्रचुचुच्यिष्य, प्रचोचुच्य
चिच्यम् चुच्यित्वा चुच्यम् चुच्ययित्वा चुच्यिषम् चोचुच्यम्
चोचुच्यित्वा २।
प्रासङ्गिक्यः
01
=>
(५३४)
02
=>
(१-भ्वादिः-५१३। सक। सेट्। पर।)
03
=>
[[१। अस्माद्धातोर्यङि, ‘सन्यङोः’ (६-१-९) इति प्रथमैकाचो द्वित्वे, अभ्यासगुणे सति, यङवयवस्य यकारस्य ‘यस्य हलः’ (६-४-४९) इति लोपे, अकारस्य ‘अतो लोपः’ (६-४-४८) इति लोपे च, चोचुच्यकः-च्यिका इति रूपम्।]]
04
=>
[[२। ‘यस्य हलः’ (६-४-४९) इति यकारस्य, ‘अतो लोपः’ (६-४-४८) इत्यका- रस्य लोपे, ‘चोचुच्यिता’ इति रूपं भवति। माधवधातुवृत्तौ तु ‘हलो यमां यमि’ (८-४-६४) इति लोपपक्षे, यङो यलोपे, अकारलोपे च, सति, लघूपधगुणमाशङ्क्य, ‘न धातुलोप--’ (१-१-४) इति निषेधात्, स्थानिवद्भावाद्वा, लघूपधगुणाभावे, ‘चोचुचिता’ इति यकाररहितमेकं रूपम्, ‘हलो यमां-’ (८-४-६४) इति लोपस्य वैकल्पिकत्वात्, लोपाभावपक्षे यकारघटितं ‘चोचुच्यिता’ इति रूपान्तरमुक्तम्। अत्र, ‘हलो यमाम्--’ (८-४-६४) इत्यस्य त्रैपादिकत्वेन, पूर्वमप्रवृत्तौ, ‘यस्य हलः’ (६-४-४९) इति यकारलोपे यम्परत्वाभावेन, ‘हलो यमाम्-’ (८-४-६४) इत्यस्यानन्तरमप्रवृत्तौ यकारघटितमेव रूपं शास्त्रानुगतमिति प्रतिभाति। सुधियोऽस्य तत्त्वं विभावयन्तु।]]
05
=>
[पृष्ठम्०५१८+ २०]
06
=>
[[१। यङन्ताच्छानचि, धातुयकारयङ्यकारयोरुभयोरपि श्रवणम्।]]
07
=>
[[२। ‘वेरपृक्तलोपाद् वलि लोपो विप्रतिषेधेन’ (वा। १-४-२) इति, धातुयकारस्य, ‘लोपो व्योर्वलि’ (६-१-६६) इति लोपेनापहारे, ‘चोः कुः’ (८-२-३०) इति पदान्ते चकारस्य ककारः।]]
08
=>
[[३। घातोरस्योदात्तत्वादिडागमे चुच्यितम् इति रूपम्। क्षीरस्वामिना ‘चुच्यी’ इति ईदित्पाठमवलम्ब्य, ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति निष्ठायामिडभावमवलम्ब्य यकारस्य वलि लोपे, कुत्वे चुक्तः इत्यङ्गीकृतम्।]]
09
=>
[[४। हलन्तत्वेन, ‘ऋहलोर्ण्यत्’ (३-१-१२४) इति ण्यत्प्रत्यये, ‘हलो यमाम्--’ (८-४-६४) इति लोपस्य वैकल्पिकत्वात्, कदाचिद् द्वियकारघटितं रूपम्, कदाचिच्च एकयकारघटितमिति रूपद्वयम्। एवं यगन्तेऽपि ज्ञेयम्।]]
10
=>
[पृष्ठम्०५१९+ २३]
11
=>
[[१। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियां भावादौ, अप्रत्ययः।]]