| YouTube Channel

चुक्रं (cukraM)

 
शब्दकल्पद्रुमः
Sanskrit
चुक्रं,
क्ली,
(चकते तृप्यत्यनेन इति चक + “चकि-रम्योरुच्चोपधायाः ।” उणां १४ इतिरक् उपधाया उच्च ।) अम्बद्रव्यविशेषः महादाइति ख्यातम् तत्पर्य्यायः तिन्तिडीकम् २वृक्षाम्लम् इत्यमरः ३५
चुक्र-कम् इति शब्दरत्नावली
महाम्लम् ।इति जटाधरः
(अम्लवृक्षकम् इति भाव-प्रकाशः
) पत्रशाकविशेषः चुक इतिभाषा
तत्पर्य्यायः चुक्रवास्तूकम् लिकु-चम् अम्लवास्तुकम् दलाम्लम् अम्ल-शाकाख्यम् अम्लादि हिलमोचिका ।अस्य गुणाः अम्लपत्रत्वम् लघुत्वम् उष्ण-त्वम् वातगुल्मनाशित्वम् रुच्यग्नीषत्पित्त-कारित्वम् पथ्यत्वम् तत्पर्य्यायगुणाः ।“चुक्रिया स्यात्तु पत्राम्ला रोचनी शतवेधिनी ।चुक्रा त्वम्लतरा स्वाद्बी वातध्नी कफपित्तकृत्
रुच्या लघुतरा पाके वृन्ताके नातिरोचनी
”इति भावप्रकाशः
*
(“चुक्रमत्यम्लमुष्णञ्च दीपनं पाचनं परम् ।शूलगुल्मविबन्धामवातश्लेष्महरं परम्
वमितृष्णास्यवैरस्यहृत्पीडावह्निमान्द्यहृत्
”इति शब्दार्थचिन्तामणिधृतवैद्यकम्
)काञ्जिकप्रभेदः तत्पर्य्यायः सहस्रवेधम् २रसाम्लम् चुक्रवेधकम् शाकाम्लभेदनम् ५चन्द्रम् अम्लसारम् चुक्रिका अस्यगुणाः तिक्तत्वम् अम्लत्वम् स्वादुत्वम् ।कफपित्तनासिकारोगदुर्गन्धशिरोरोगनाशित्वञ्च ।इति राजनिर्घण्टः
*
सन्धानविशेषः यथा, “यन्मस्त्वादिशुचौ भाण्डे सगुडक्ष्रौद्रकाञ्जिकम् ।धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते
द्विगुणं गुडमध्वारनालमस्तु क्रमादिह
”इति परिभाषा
(अस्य लक्षणं यथा, --“विनष्टे संहितो यस्तु तच्चुक्रमभिधीयते
”इति शार्ङ्गधरे मध्यखण्डे दशमेऽध्याये
)