| YouTube Channel

चुकुन्थिषः (cukunthiSaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कुथि हिंसासंक्लेशनयोः”@} 2 ‘कुथ्नाति कुन्थेत् संक्लेशे, पूतीभावे तु कुथ्यति।’ 3 इति देवः।
4 कुन्थकः 5 -न्थिका, कुन्थकः-न्थिका, चुकुन्थिषकः-षिका, चोकुन्थकः-न्थिका
कुन्थिता-त्री, कुन्थयिता-त्री, चुकुन्थिषिता-त्री, चोकुन्थिता-त्री
6 व्यतिकुन्थन्-न्ती, कुन्थयन्-न्ती, चुकुन्थिषन्-न्ती
-- कुन्थिष्यन्-न्ती-ती, कुन्थयिष्यन्-न्ती-ती, चुकुन्थिषिष्यन्-न्ती-ती
-- -- कुन्थयमानः, कुन्थयिष्यमाणः, 7 चोकुन्थ्यमानः, चोकुन्थिष्यमाणः
8 कुन्-कुन्थौ-कुन्थः
-- -- -- कुन्थितम्-तः, कुन्थितः, चुकुन्थिषितः, चोकुन्थितः-तवान्
कुन्थः, कुन्थः, चुकुन्थिषुः, चोकुन्थः
कुन्थितव्यम्, कुन्थयितव्यम्, चुकुन्थिषितव्यम्, चोकुन्थितव्यम्
कुन्थनीयम्, कुन्थनीयम्, चुकुन्थिषणीयम्, चोकुन्थनीयम्
कुन्थ्यम्, कुन्थ्यम्, चुकुन्थिष्यम्, चोकुन्थ्यम्
ईषत्कुन्थः-दुष्कुन्थः-सुकुन्थः
-- -- कुन्थ्यमानः, कुन्थ्यमानः, चुकुन्थिष्यमाणः, चोकुन्थ्यमानः
कुन्थः, कुन्थः, चुकुन्थिषः, चोकुन्थः
9 कुन्थितुम्, कुन्थयितुम्, चुकुन्थिषितुम्, चोकुन्थितुम्
10 कुन्था, कुन्थना, चुकुन्थिषा, चोकुन्था
कुन्थनम्, कुन्थनम्, चुकुन्थिषणम्, चोकुन्थनम्
कुन्थित्वा, कुन्थयित्वा, चुकुन्थिषित्वा, चोकुन्थित्वा
प्रकुन्थ्य, प्रकुन्थ्य, विचुकुन्थिष्य, सञ्चोकुन्थ्य
11 खङ्गोपकुन्थं, खङ्गेनोपकुन्थं, खङ्गेनोपकुन्थ्य 12
कुन्थम् २, कुन्थित्वा २, कुन्थम् २, कुन्थयित्वा २, चुकुन्थिषम् २, चुकुन्थिषित्वा २, चोकुन्थम्
चोकुन्थित्वा २।
प्रासङ्गिक्यः
01
=>
(२२०)
02
=>
(१-भ्वादिः-४३। सक। सेट्। पर।)
03
=>
(श्लो-९८)
04
=>
[[२। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुम्।]]
05
=>
[[B। ‘ममन्थ विश्वं सुजनानकुन्थकान् प्रपुन्थ्य बन्धूनपि लुन्थति स्म यः।’ धा। का। १-७।]]
06
=>
[[३। ‘न गतिहिंसार्थेभ्यः’ (१-३-१५) इति कर्मव्यतीहारे तङ्निषेधः।]]
07
=>
[[४। इदित्त्वात् ‘अनिदिताम्--’ (६-४-२४) इति नलोपो न।]]
08
=>
[[५। ‘संयोगान्तस्य लोपः’ (८-२-२३) इति थकारलोपः।]]
09
=>
[पृष्ठम्०२१०+ २३]
10
=>
[[१। ‘गुरोश्च हलः’ (३-३-१०३) इत्यप्रत्ययः।]]
11
=>
[[२। ‘हिंसार्थानां समानकर्मकाणाम्’ (३-४-४८) इति णमुल्। ‘तृतीयाप्रभृतीनि--’ (२-२-२१) इति समासविकल्पः।]]
12
=>
[वा शत्रुं मारयति]
1 {@“कुन्थ संश्लेषणे”@} 2 ‘सङ्क्लेशने’ इत्येके।
‘कुथ्नाति कुन्थेत् संक्लेशे, पूतीभावे तु कुथ्यति।।’ 3 इति देवः।
4 कुन्थकः-न्थिका, कुन्थकः-न्थिका, चुकुन्थिषकः-षिका, चोकुन्थकः-न्थिका
कुन्थिता-त्री, कुन्थयिता-त्री, चुकुन्थिषिता-त्री, चोकुन्थिता-त्री
5 कुथ्नन्-ती, कुन्थयन्-न्ती, चुकुन्थिषन्-न्ती
-- कुन्थिष्यन्-न्ती-ती, कुन्थयिष्यन्-न्ती-ती, चुकुन्थिषिष्यन्-न्ती-ती
-- 6 व्यतिकुथ्नानः, व्यतिकुन्थिष्यमाणः, कुन्थयमानः, कुन्थयिष्यमाणः, चोकुथ्यमानः, चोकुन्थिष्यमाणः
कुत्-कुन्थौ-कुन्थः
-- -- -- 7 कुथितम्-तः, कुन्थितः, चुकुन्थिषितः, चोकुन्थितः-तवान्
कुन्थः, कुन्थः, चुकुन्थिषुः, चोकुन्थः
कुन्थितव्यम्, कुन्थयितव्यम्, चुकुन्थिषितव्यम्, चोकुन्थितव्यम्
कुन्थनीयम्, कुन्थनीयम्, चुकुन्थिषणीयम्, चोकुन्थनीयम्
कुन्थ्यम्, कुन्थ्यम्, चुकुन्थिष्यम्, चोकुन्थ्यम्
ईषत्कुन्थः-दुष्कुन्थः-सुकुन्थः
-- -- कुथ्यमानः, कुन्थ्यमानः, चुकुन्थिष्यमाणः, चोकुन्थ्यमानः
कुन्थः, कुन्थः, चुकुन्थिषः, चोकुन्थः
कुन्थितुम्, कुन्थयितुम्, चुकुन्थिषितुम्, चोकुन्थितुम्
कुन्था, कुन्थना, चुकुन्थिषा, चोकुन्था
कुन्थनम्, कुन्थनम्, चुकुन्थिषणम्, चोकुन्थनम्
8 कुथित्वा-कुन्थित्वा, कुन्थयित्वा, चुकुन्थिषित्वा, चोकुन्थित्वा
प्रकुथ्य- 9 विकुथ्य, प्रकुन्थ्य, प्रचुकुन्थिष्य, प्रचोकुन्थ्य
कुन्थम् २, कुथित्वा २, कुन्थित्वा २, कुन्थम् २, कुन्थयित्वा २, चुकुन्थिषम् २, चुकुन्थिषित्वा २, चोकुन्थम्
चोकुन्थित्वा २। 10
प्रासङ्गिक्यः
01
=>
(२२३)
02
=>
(९-क्र्यादिः-१५१४। सक। सेट्। पर।)
03
=>
(श्लो। ९८)
04
=>
[पृष्ठम्०२१२+ २२]
05
=>
[[१। ‘क्यादिभ्यः श्ना’ (३-१-८१) इति श्ना विकरणप्रत्ययः। श्नः शित्त्वात् अपित्त्वाच्च ङित्त्वात् नलोपः। ‘श्नाभ्यस्तयोः--’ (६-४-११२) इत्याकारलोपः।]]
06
=>
[[२। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति आत्मनेपदम्।]]
07
=>
[[३। ‘अनिदितां--’ (६-४-२४) इति नलोपः।]]
08
=>
[[४। ‘नोपधात् थफान्ताद्वा’ (१-२-२३) इति क्त्वाप्रत्ययस्य कित्त्वविकल्पः।]]
09
=>
[[आ। ‘तद्ग्रन्थनं परिहरन् गतिभिर्विकुथ्य पृष्ठेऽकरोन्मृदितपुच्छमकर्षदेनम्।’ धा। का। ३-१०।]]
10
=>
[पृष्ठम्०२१३+ २३]