| YouTube Channel

चीवन्-न्ती (cIvan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“चीवृ आदानसंवरणयोः”@} 2 चीवकः-विका, चीवकः-विका, चिचीविषकः-षिका, चेचीवकः-विका
इत्यादीनि सर्वाण्यपि रूपाणि कत्थनार्थकभौवादिकचीभतिवत् 3 बोध्यानि।
अस्य धातोरुभयपदीत्वेन शतरि चीवन्-न्ती, चीवयन्-न्ती, चिचीविषन्-न्ती
चीविष्यन्-न्ती-ती, चीवयिष्यन्-न्ती-ती, चिचीविषिष्यन्- न्ती-ती
इति रूपाण्यधिकानि।
क्विपि, ‘च्छ्वोः शूडनुनासिके च’ 4 इत्यूठि, यणादेशे च्यूः-च्युवौ-च्युवः
इति रूपाणि।
‘छित्वर--’ 5 इत्यादिना वरचि प्रत्यये, ‘लोपो व्योर्वलि’ 6 इति धातुवकारस्य लोपे, ‘नेड् वशि कृति’ 7 इति इण्णिषेधे चीवरम् इति भवति।
8 चीवरम् = मुनीनां वसनम्।
प्रासङ्गिक्यः
01
=>
(५३२)
02
=>
(१-भ्वादिः-८७९। सक। सेट्। उभ।)
03
=>
(५३०)
04
=>
(६-४-१९)
05
=>
[द। उ। ८-४९]
06
=>
(६-१-६६)
07
=>
(७-२-८)
08
=>
[[आ। ‘प्रवुन्द्यवेणीजववेनमाना खातान्तिका चीवरिभिर्निषादैः।’ धा। का। २। २७।]]