| YouTube Channel

चिस्कन्त्सकः-त्सिका (ciskantsakaH-tsikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“स्कन्दिर् गतिशोषणयोः”@} 2 ‘-- शोषणे’ इति स्वामी।
अन्ये सर्वे ‘-- गतिशोषणयोः’ इत्येव पठन्ति।
स्कन्दकः-न्दिका, स्कन्दकः-न्दिका, 3 चिस्कन्त्सकः-त्सिका, 4 चनीस्कन्दकः-न्दिका
इत्यादीनि रूपाणि सर्वाण्यपि ‘णिजिर्’ 5 धातुवत् बोध्यानि।
निष्ठायाम् 6 विस्कन्नः, 7 स्कन्दः, 8 9 उत्कन्दः, 10 विष्कन्ता-विस्कन्ता, 11 परिष्कन्ता-परिस्कन्ता, 12 परिष्कण्णः, परिस्कन्नः, 13 परिस्कन्दः, 14 स्कन्त्वा, प्रस्कन्द्य, 15 गेहावस्कन्दमास्ते।
गेहं गेहमवस्कन्दम्, गेहमवस्कन्दमवस्कन्दम्, गेहंगेहमवस्कन्द्य, 16 17 स्कन्धः, 18 कन्दुः, इमानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१९२२)
02
=>
(१-भ्वादिः-९७९। सक। अनि। पर।)
03
=>
[[२। सन्नन्ते ‘शर्पूर्वाः खयः’ (७-४-६१) इति खयः शेषः। ककारस्य ‘अभ्यासे चर्च’ (८-४-५४) इति चर्त्वेन चकारः। धातुरयमनिट्। धातुदकारस्य सनि परे ‘खरि च’ (८-४-५५) इति चर्त्वेन तकारः। एवं सर्वत्र सन्नन्तेषु प्रक्रिया ज्ञेया।]]
04
=>
[[३। यङन्ते, ‘नीग् वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्’ (७-४-८४) इति अभ्यासे नीगागमः सर्वत्र बोध्यः।]]
05
=>
(६७३)
06
=>
[[४। निष्ठायाम्, ‘रदाभ्यां निष्ठातो नः पूर्वस्य दः’ (८-२-४२) इति निष्ठातकार- धातुदकारयोर्नत्वम्। ‘वेः स्कन्देरनिष्ठायाम्’ (८-३-७३) इति पर्युदासात् षत्वम्।]]
07
=>
[[५। स्कन्दयति = शोषयति भक्तानां पापमिति, पचाद्यचि स्कन्दः = कार्तिकेयः।]]
08
=>
[पृष्ठम्१३८२+ ३५]
09
=>
[[१। उत्कन्दति = शोषयति इति उत्कन्दः रोगविशेषः। उत्पूर्वकात् स्कन्देः पचाद्यच्। ‘रोगाख्यायां ण्वुल् बहुलम्’ (३-३-१०८) इति ण्वुलोऽपवादः। ‘रोगे चेति वक्तव्यम्’ (वा। ८-४-६१) इति वचनात् स्कन्देः सकारस्य पूर्वसवर्ण- स्तकारः। ‘सवर्णग्रहणसामर्थ्यात् इह (८-४-६५) संख्यातानुदेशो भवति
\n\n (तेन) सवर्णमात्रे लोपो विज्ञायते।’ इति काशिकादिषूक्तत्वात् एकस्य तकारस्य प्रयोगे श्रवणम् इत्याहुः। वस्तुतस्तकारद्वयस्यैव ‘उत्त्कन्दः’ इति श्रवणं न्याय्यं इति भाष्यादिषु स्पष्टमित्यलमत्र।]]
10
=>
[[२। विपूर्वकात् तृचि, धातुदकारस्य चर्त्वेन तकारे, ‘झरो झरि सवर्णे’ (८-४-६५) इति तस्य लोपे, ‘वेः स्कन्देरनिष्ठायाम्’ (८-३-७३) इति षत्वविकल्पे रूपद्वयम्। ‘झरो झरि--’ (८-४-६५) इत्यत्र ‘अन्यतरस्याम्’ इत्यनुवृत्तेर्लोपस्य पाक्षिकत्वं विस्कन्त्ता--विष्कन्त्ता इति रूपद्वयमिष्टमिति ज्ञेयम्। एवं तव्यदादिष्वपि विष्कन्तव्यम्--विस्कन्तव्यम् इत्यादीनि रूपाण्यूह्यानि यथा- सम्भवम्।]]
11
=>
[[३। ‘परेश्च’ (८-३-७४) इति षत्वविकल्पः। एवं तव्यदादिष्वपि बोध्यम्।]]
12
=>
[[४। ‘निपरिभ्यां स्कन्देरनिष्ठायाम्’ इत्यनुक्त्वा पृथग् ‘परेश्च’ (८-३-७४) इति योगकरणात् परिस्कन्नः--परिष्कण्णः इत्यत्र परिपूर्वकात् स्कन्दतेर्निष्ठायां षत्वविकल्पो भवत्येवेति काशिकादिषु स्पष्टम्। तेनैवं रूपमिति बोध्यम्। निष्ठानत्वमुभयत्र समानम्। षत्वपक्षे णत्वमपि भवतीति विशेषः।]]
13
=>
[[५। परिपूर्वकात् स्कन्दतेः पचाद्यचि, प्राच्यभरतविषयत्वे वाच्ये ‘परिस्कन्दः प्राच्यभरतेषु’ (८-३-७५) इति निपातनात् षत्वाभावः। अन्यत्र परिष्कन्दः। केचित् परिपूर्वकात् स्कन्दतेः निष्ठायां निष्ठातकारलोपनिपातनमनेन सूत्रेण क्रियत इति व्याचख्युः।]]
14
=>
[[६। क्त्वायाम्, धातुदकारस्य चर्त्वे, ‘झरो झरि--’ (८-४-६५) इति तकारस्य पाक्षिके लोपे रूपमेवम्।]]
15
=>
[[७। ‘विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः’ (३-४-५६) इति णमुल्। क्रियया पदार्थानां अनवयवेन सम्बन्धः = व्याप्यमानत्वम्। तात्पर्यम् = आसेवा। द्रव्ये व्याप्तिः, क्रियायाम् आसेवा। ‘तृतीयाप्रभृतीनि च’ (२-२-२१) इति समासविकल्पः। ‘गेहावस्कन्दमास्ते’ इति समासेन व्याप्त्यासेवयो- रुक्तत्वात् ‘नित्यवीप्सयोः’ (८-१-४) इति द्विर्वचनं न। असमासपक्षे व्याप्य- मानतायां द्रव्यवचनस्य ‘गेहंगेहमवस्कन्दमास्ते’ इति द्विर्वचनम्। आसेव्यमान- तायां तु ‘गेहमवस्कन्दमवस्कन्दमास्ते’ इति क्रियाया द्विर्वचनम्। “क्रिया- भेदे क्त्वाऽपीष्यते इत्युक्तत्वात् ‘गेहंगेहमवस्कन्द्य’ इत्याद्यपि भवति” इति माधवः।]]
16
=>
[पृष्ठम्१३८३+ २९]
17
=>
[[१। ‘स्कन्देश्च स्वाङ्गे’ (द। उ। ९-६७) इत्यसुन्प्रत्यये धातुदकारस्य धकारादेशे रूपम्।]]
18
=>
[[२। ‘स्कन्देर्लोपश्च’ (द। उ। १-९९) इत्युप्रत्यये, धात्वादिसकारस्य लोपे रूपमेवम्।]]