| YouTube Channel

चिल (cila)

 
शब्दसागरः
English
चिल r. 6th cl. (चिलति) To put on clothes. तु-प-अक सेट्
Wilson
English
चिल r. 6th cl. (चिलति) To put on clothes.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
चिल्
मूलधातुः:
चिल
धात्वर्थः:
निवसने
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
चिलति
Abhyankara Grammar
English
चिल the sign of the aorist ( लुड् ) for which generally सिच् and अङ्, क्स, चङ् and चिण् are substituted in specified cases
cf. P. III. 1. 43-66.
धातुप्रदीपः
Sanskrit
चिलँ चिल वसने
- चिलति चिलम् चेलम् ब्राह्मणिचेली 74
शब्दकल्पद्रुमः
Sanskrit
चिल, वासे इति कविकल्पद्रुमः
(तुदां-परं-सकं-सेट् ।) वासः परिधानम् श, चिलतिवस्त्रं लोकः परिदधातीत्यर्थः चेलिता इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
चिल वासे आच्छादने तु०
पर०
अक० सेट् चिलति अचेलीत् चिचेल
क्षीरतरङ्गिणी
Sanskrit
चिलँ चिल वसने
- चिलति पचादौ (गण0 31124) चेलः चेलम्, चेलट् (गण0 31134), गर्हिता ब्राह्मणी=ब्राह्मणिचेली, घरूपकल्प (6343) इति ह्रस्वः, चेलखेटकटुककाण्डं गर्हायाम् (62126) इत्युत्तरपदाद्युदात्तत्वम् 76
धातुवृत्तिः
Sanskrit
चिलँ चिल (अर्थः) वसने
( चिलति ) इत्यादि चेलतीति शपि 74
कृदन्तरूपमाला
Sanskrit
1 {@“चिल वसने”@} 2 चेलकः-लिका, चेलकः-लिका, चिचेलिषकः-चिचिलिषकः-षिका
चेचिलकः-लिका
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककिलतिवत् 3 ज्ञेयानि।
4 चेलः--वस्त्रम्।
गर्हिता ब्राह्मणी = 5 ब्राह्मणिचेली।
6 चिलितः।
प्रासङ्गिक्यः
01
=>
(५२७)
02
=>
(६-तुदादिः-१३५५। सक। सेट् पर।)
03
=>
(१९३)
04
=>
[[१। पचादिषु (३-१-१३४) ‘चेलट्’ इति पाठेन, इगुपधलक्षणं कं बाधित्वा, अच्। टित्त्वात् स्त्रियां ङीप्।]]
05
=>
[[२। ‘घरूपकल्पप्चेलड्ब्रुव--’ (६-३-४३) इति पूर्वपदस्य ह्रस्वः। चेलडादयः वृत्तिविषये निन्दाद्योतकाः।]]
06
=>
[[आ। ‘चिलितपीतपटेन चलन् इलन् अविलितोरुकृपां परितो दृशम्।।’ धा। का। २। ७८।]]