| YouTube Channel

चिर्भिटा (cirbhiTA)

 
शब्दकल्पद्रुमः
Sanskrit
चिर्भिटा,
स्त्री,
कर्कटीभेदः चिभिडा इतिवेलसेद इति देशान्तरीयभाषा
तत्-पर्य्यायः सुचित्रा चित्रफला क्षेत्रचिर्भिटा पाण्डुफला पथ्या रोचन-फला चिर्भिटिका कर्कचिर्भिटा इतिराजनिर्घण्टः
चिर्भिटम् १० धेनुदुग्धम् ११गोरक्षकर्कटी १२ अस्या गुणाः मधुरत्वम् ।रूक्षत्वम् गुरुत्वम् पित्तकफापहत्वम् अनु-ष्णत्वम् ग्राहित्वम् विष्टम्भित्वञ्च
पक्वायाअस्या गुणाः उष्णत्वम् पित्तलत्वञ्च इतिभावप्रकाशः
गौल्यत्वम् दीपनत्वञ्च
बालाया अस्या गुणाः तिक्तत्वम् किञ्चिदम्ल-त्वञ्च शुष्कायास्तस्या गुणाः श्लेष्मवातारुचि-जाड्यनाशित्वम् रोचनत्वम् दीपनत्वञ्च इतिराजनिर्घण्टः
(क्वचित् पुंलिङ्गेपि दृश्यते
)