| YouTube Channel

चिरविल्वः (ciravilvaH)

 
शब्दकल्पद्रुमः
Sanskrit
चिरविल्वः,
पुं,
(चिरं विलति आच्छादयति पत्र-कण्टकादिभिरिति विल आच्छादने + वः ।)करञ्जवृक्षः इत्यमरः ४७
(यथा, --“चिरविल्वोऽग्निको दन्ती चित्रको हयमारकः ।कपोतगृध्रकङ्कानां पुरीषाणि दारुणम्
”इति सुश्रुते सूत्रस्थाने षट्त्रिंशेऽध्याये
)