| YouTube Channel

चिप्प (cippa)

 
Apte
English
चिप्पः [cippḥ], A disease of the finger nail
also चिप्य.
Apte 1890
English
चिप्पः A disease of the fingernail
also चिप्य.
Monier Williams Cologne
English
चिप्प See चिप्य.
Monier Williams 1872
English
चिप्प चिप्प, अम्, n. a kind of disease of
the finger-nail
[cf. चिप्य।]
Shabdartha Kaustubha
Kannada
चिप्प
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದು ವಿಧ ನಖರೋಗ
विस्तारः - > "नखमांसमधिष्ठाय वातं पित्तं देहिनाम् करोति दाहपाकौ तं व्याधिं चिप्पमादिशेत् ॥"
शब्दकल्पद्रुमः
Sanskrit
चिप्पः,
पुं,
(चिक्वति पीडयति अङ्गुलिमिति चिक्व+ अच् निपातनात् क्कस्थाने प्पागमे साधुः ।)नखरोगविशेषः आङ्गुलहाडा इति भाषा
तल्लक्षणं यथा, --“नखमांसमधिष्ठाय वातः पित्तञ्च देहिनाम् ।करोतिदाहपाकौ तं व्याधिं चिप्पमादिशेत्
”अथ कुनखस्य लक्षणमाह ।“अभिघातात् प्रदुष्टो यो नखो रूक्षोऽसितः खरः ।भवेत्तं कुनखं विद्यात् कुशीरं वा विधानतः
”अथ तयोश्चिकित्सा ।“चिप्पं रुधिरमोक्षेण शोधनेनाप्युपाचरेत् ।गतोष्माणमथैनन्तु सेचयेदुष्णवारिणा ।शस्त्रेणापि यथायोग्यमुच्छिद्य स्रावथेत्ततः
व्रणोक्तेन विधानेन रोपयेत्तं विचक्षणः ।स्वरसेन हरिद्रायाः पात्रे कृत्वायसेऽभयाम्
घृष्ट्वा तज्जेन कल्केन लिम्पेच्चिप्पं पुनः पुनः ।काश्मर्य्याः सप्तभिः पत्रैः कोमलैः परिवेष्टितः
अङ्गुलीवेष्टकः पुंसां ध्रुवमाशु प्रशाम्यति ।श्लेष्मविद्रधिकल्पेन कुनखं समुपाचरेत्
नखकोटिप्रविष्टेन टङ्कणेन प्रशाम्यति ।कुनखश्चेत्तदा शैलः सलिले प्लवतेऽपि
”इति भावप्रकाशे मध्यखण्डे र्थ भागः
(लक्षणान्तरमस्य यथा, --“कुर्य्यात् पित्तानिलं पाकं नखमांसे सरुग् ज्वरम्चिप्पमक्षतरोगञ्च विद्यादुपनखञ्च तम्
”इति वाभटेनोत्तरस्थाने ३१ अध्याये उक्तम्
चिकित्सास्य यथा, --“चिप्पं शुद्ध्या जितोष्माणं साधयेच्छस्त्रकर्म्मणा
”इत्युत्तरस्थाने द्वात्रिंशेऽध्याये वाभटेन चोक्तम्
)
वाचस्पत्यम्
Sanskrit
चिप्प
पु०
“नखमांसमधिष्ठाय वातं पित्तं देहिनाम ।करोति दाहपाकौ तं व्याधिं चिप्पमादिशेत्”भाव० उक्ते नखरोगभेदे (आङ्गुल हाडा)