| YouTube Channel

चित्रसेनः (citrasenaH)

 
Wordnet
Sanskrit
Synonyms:
चित्रसेनः
noun
धृतराष्ट्रस्य एकः पुत्रः।
"चित्रसेनस्य वर्णनं भागवते वर्तते।"
Synonyms:
चित्रसेनः
noun
एकः गन्धर्वः।
"चित्रसेनस्य वर्णनं पुराणेषु वर्तते।"
शब्दकल्पद्रुमः
Sanskrit
चित्रसेनः,
पुं,
ब्रह्मपादजमसीशाख्यकायस्थस्य चित्र-गुप्तादित्रितयान्तर्गतमूर्त्तविशेषः तु मर्त्य-लोकविवेचकः यथा, --“चित्रसेने महाविद्यां वगलेति गुरोर्नयन् ।जप्त्वा सन्तोष्य पुत्त्रादीन् याचित्वा प्राप्य मर्त्यतः
राज्यं चकार सूद्युक्तश्चित्राङ्गद अधो गतः
”इत्याचारनिर्णयतन्त्रम्
(चित्रा सेना यस्य गन्धर्व्वविशेषः यथा, महाभारते १० २५ ।“चित्रसेनश्च गीतज्ञस्तथा चित्ररथोऽपि ।एते चान्ये गन्धर्व्वा धनेश्वरमुपासते
”धृतराष्ट्रपुत्त्रविशेषः यथा, महाभारते ।९५ ५७ “तेषां धृतराष्ट्रस्य पुत्त्राणां चत्वारःप्रधाना बभूवुः दुर्य्योधनो दुःशासनो विकर्ण-श्चित्रसेनश्चेति
पूरुवंशीयस्य परिक्षितः पुत्त्रा-णामन्यतमः यथा, महाभारते ९४ ५२ ।“परिक्षितोऽभवन् पुत्त्राःसर्व्वे धर्म्मार्थकोविदाः ।कक्षसेनोग्रसेनौ चित्रसेनश्च बीर्य्यवान्
”शम्बरासुरस्य पुत्त्रविशेषः यथा, हरिवंशे ।१६१ ४३ ।“चित्रसेनोऽतिसेनश्च विश्वक्सेनजितस्तथा
”नरिष्यन्तपुत्त्रः यथा, भागवते १९ ।“चित्रसेनो नरिष्यन्तात्दक्षस्तस्यसुतोऽभवत्
”)