| YouTube Channel

चित्रशिखण्डी (citrazikhaNDI)

 
पुराणम्
English
चित्रशिखण्डी / CITRAŚIKHAṆḌĪ. saptarṣis (The seven saints) marīci, aṅgiras, atri, pulastya, pulaha, Kṛtu and vasiṣṭha. These saints are called by the name Citraśikhaṇḍīs also. (Śloka 29, Chapter 336, śānti Parva).
शब्दकल्पद्रुमः
Sanskrit
चित्रशिखण्डी, [न्]
पुं,
(चित्रः शिखण्डः शिखाअस्त्यस्य “अत इनिठनौ ।” ११५ ।इति इनिः ।) सप्तर्षयः इत्यमरः २७
यथाह भरतः ।“मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ।वशिष्ठश्चेति सप्तैते ज्ञेयाश्चित्रशिखण्डिनः
”(यथाच, महाभारते १२ ३३५ २६ -- २८ ।“ये हि ते ऋषयः ख्याताः सप्त चित्रशिखण्डिनः ।तैरेकमतिभिर्भूत्वा यत् प्रोक्तं शास्त्रमुत्तमम्
वेदैश्चतुर्भिः समितं कृतं मेरौ महागिरौ ।आस्यैः सप्तभिरुद्गीर्णं लोकधर्म्ममनुत्तमम्
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।वशिष्ठश्च महातेजास्ते हि चित्रशिखण्डिनः
”)