| YouTube Channel

चित्रपथा (citrapathA)

 
Shabdartha Kaustubha
Kannada
चित्रपथा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪ್ರಭಾಸ ಕ್ಷೇತ್ರದಲ್ಲಿರುವ ಒಂದು ನದಿ
प्रयोगाः - > "ततो गच्छेन्महादेवि नदीं चित्रपथां शुभाम् ब्रह्मकुण्डसमीपस्थां चित्रादित्यस्य मध्यतः ॥"
उल्लेखाः - > स्कान्द०
वाचस्पत्यम्
Sanskrit
चित्रपथा स्त्री प्रभासतीर्थस्थचित्रानद्याम् तत्कथा स्क०
पु०
प्रभा० यथा“ततोगच्छेन्महादेवि! नदीं चित्रपथां शुभाम् ब्रह्मकुण्डसमीपस्थां चित्रादित्यस्य मध्यतः यदा चित्र-स्तु संनीतो यमदूतैः सुरप्रिये!! सशरोरः महाप्राज्ञोयमादेशपरायणैः एवं ज्ञात्वा तु तत्रस्था भगिनी तस्यदुःखिता चित्रा, नदी ततोभूत्वा तथा तस्य महात्मनः ।प्रविष्ठा सागरे देवि! अन्विष्यन्तीष बान्धवम् तत-श्चित्रपथानाम तस्याश्चक्रुर्द्विजातयः एवं तत्र समुत्-पन्ना सा नदी वरवर्णिनि! तस्यां स्नात्वा नरोयस्तुचित्रादित्यं प्रपश्यति याति परमं स्थानं यत्र देवोदिवाकरः अस्मिन् कलियुगे देवि! अन्तर्द्धानं गतानदी प्रावृट्कालेऽथ दृश्येत दुर्लभं तत्र दर्शनम् स्नार्नदानं विशेषेण सर्वपातकनाशनम् भक्तोवाप्यथ वाऽभक्तोरात्रौ वा यदि वा दिवा पर्वकालेऽथवाऽ काले पवि-त्रोह्यथ वाऽशुचिः यदैव दृश्यते तत्र नदी चित्रपथाप्रिये! प्रमाणं दर्शनं तस्या कालस्तत्र कारणम् ।दृष्ट्वा नदीं महादेवि! पितरः स्वर्गसंस्थिताः गायन्तितत्र वाञ्छन्ति नृत्यन्ति हसन्ति अस्माकं वंशजःकश्चित् श्राद्धमत्र करिष्यति यावत् कल्पं तथास्माकंप्रीतिमुत्पादयिष्यति एवं ज्ञात्वा नरस्तत्र स्नानं श्राद्धञ्चकारयेत् सर्वपापविनाशार्थं पितॄणां प्रीतये तथा ।इत्येतत् कथितं देवि! यथा चित्रपथा नदी प्रभास-क्षेत्रमासाद्य संस्थिता पापनाशिनी”