| YouTube Channel

चित्रदीप (citradIpa)

 
Monier Williams Cologne
English
चित्र—दीप
m.
N.
of a chapter (प्रकरण) of the Pañcadaśī.
Aufrecht Catalogus Catalogorum
English
चित्रदीप from Pañcadaśī. Oxf. 222^b.
C. Oppert 2829.
C. Tātparyabodhinī by Rāmakṛṣṇa. W. p. 184.
Oppert II, 4589.
वाचस्पत्यम्
Sanskrit
चित्रदीप
पु०
पञ्चदशीप्रकरणान्तर्गते दीपभेदे“यथा चित्रपटे दृष्टमवस्थानां चतुष्टयम् परमात्मनिविज्ञेयं तथावस्थाचतुष्टयम् यथा धौतो घट्टितश्चलाञ्छितो रञ्जितः पटः चिदन्तर्यामिसुत्राणि विराडात्मा तथेष्यते स्वतः शुभ्रोऽत्र धौतः स्याद्घट्टितोऽन्न-विलेपनात् मस्याकारैर्लाञ्छितः स्यात् रञ्जितो वर्णपूरणात् स्वतश्चिदन्तर्यामी तु मायावी सूक्ष्मसृष्टितः ।सूत्रात्मा स्थूलसृष्ट्येष विराडित्युच्यते परः ब्रह्मा-द्यास्तम्बपर्य्यन्ताः प्राणिनोऽत्र जडा अपि उत्तमा-धमभावेन वर्त्तन्ते पटचित्रवत् चित्रार्पितमनु-ष्याणां वस्त्राभासाः पृथक् पृथक् चित्राधारेण वस्त्रेणसदृशा इव कल्पिताः पृथक् पृथक् चिदामासाश्चैतन्याध्यस्तदेहिनाम् कल्पान्तजीवनात्मानोबहुधासंसरन्त्यमी वस्त्राभाषा स्थितान् वर्णान् यद्वदाधारवस्त्रगान् विदन्त्यज्ञास्तथा जीवं संसारं चिद्गतंविदुः” इत्युपक्रमे “जगच्चित्रं खचैतन्ये पटे चित्रमि-वार्पितम् मायया तदुपक्ष्यैव चैतन्यम् परिशिष्यताम् ।चित्रदीपमिमं नित्यं ये तु संदधते बुधाः पश्यन्तोऽपिजगच्चित्रं ते मुह्यन्ति पूर्बवत्” पञ्चदशी