| YouTube Channel

चित्रजल्प (citrajalpa)

 
शब्दसागरः
English
चित्रजल्प
m.
(-ल्पः) Talking incoherently.
E.
चित्र, and जल्प prattle.
Yates
English
चित्र-जल्प (ल्पः) 1.
m.
Talking inco-
herently
prattle.
Wilson
English
चित्रजल्प
m.
(-ल्पः) Talking incoherently.
E.
चित्र, and जल्प prattle.
Monier Williams Cologne
English
चित्र—जल्प
m.
talking on various things.
Apte Hindi
Hindi
चित्रजल्पः
पुं*
चित्र-जल्पः -
"अटकलपच्चू और असम्बद्ध बात, विभिन्न विषयों पर बातचीत"
Shabdartha Kaustubha
Kannada
चित्रजल्प
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಾನಾವಿಷಯಗಳಲ್ಲಿ ಆಡುವ ಮಾತು
L R Vaidya
English
citra-jalpa {% m. %} a random talk, a talk on various subjects.
शब्दकल्पद्रुमः
Sanskrit
चित्रजल्पः,
पुं,
(चित्रो मनोहरो जल्पः ।) वाक्य-विशेषः तल्लक्षणादिर्यथा, --“प्रेष्ठस्य सुहृदा लोके गूढरोषाभिजृम्भितः ।भूरिभावमयो जल्पो यस्तीव्रोत्कण्ठितान्तिमः
चित्रजल्पो दशाङ्गोऽयं प्रजल्पः परिजल्पितम् ।विजल्पो जल्पसंजल्पाववजल्पोऽभिजल्पितम्
आजल्पः प्रतिजल्पश्च सुजल्पश्चेति कीर्त्तितः ।एष भ्रमरगीताख्यो दशमे प्रकटीकृतः
असङ्ख्यभाववैचित्री चमत्कृतिसुदुस्तरः ।अपि चेच्चित्रजल्पोऽयं मनाक् तदपि कथ्यते
तत्र प्रजल्पः ।असूयेर्ष्यामदयुजा योऽवधीरणमुद्रया ।प्रेयस्याकौशलोद्गारः प्रजल्पः तु कीर्त्त्यते
यथा, --मधुप ! कितवबन्धो ! मा स्पृशाङ्घ्रिं सपन्त्याःकुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः ।वहतु मधुपतिस्तन्मानिनीनां प्रसादंयदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक्
अथ परिजल्पितम् ।प्रभोर्निर्दयताशाठ्यचापलाद्युपपादनात् ।स्वविचक्षणताव्यक्तिर्भङ्ग्यास्यात् परिजल्पितम्
यथा, --सकृदधरसुधां स्वां मोहिनीं पाययित्वासुमनस इव सद्यस्तत्यजेऽस्मान् भवादृक् ।परिचरति कथं तत्पादपद्मं नु पद्माअपि वत हृतचेता ह्युत्तमश्लोकजल्पैः
अथ विजल्पः ।व्यक्तयासूयया गूढमानमुद्रान्तरालया ।अघद्बिषि कटाक्षोक्तिर्विजल्पो विदुषां मतः
यथा, --किमिह बहु षडङ्घ्रे ! गायसि त्वं यदूना-मधिपतिमगृहाणामग्रतो नः पुराणम् ।विजयसखसखीनां गीयतां तत्प्रसङ्गःक्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः
अथोज्जल्पः ।हरेः कुहकताख्यानं गर्व्वगर्भितयेर्ष्यया ।सासूयश्च तदाक्षेपो धीरैरुज्जल्प ईर्य्यते
यथा, --दिवि भुवि रसायां काः स्त्रियस्तद्दुरापाःकपटरुचिरहासभ्रूविजृम्भस्य याः स्युः ।चरणरज उपास्ते यस्य भूतिर्व्वयं काअपि कृपणपक्षे ह्युत्तमश्लोकशब्दः
अथ संजल्पः ।सोल्लुण्ठया गहनया कयाप्याक्षेपमुद्रया ।तस्याकृतज्ञताद्युक्तिः संजल्पः कथितो बुधैः
यथा, --विसृज शिरसि पादं वेद्म्यहं चाटुकारै-रनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् ।स्वकृत इह विसृष्टापत्यपत्यन्यलोकाव्यसृजदकृतचेताः किन्नु सन्धेयमस्मिन्
अथ अवजल्पः ।हरौ काठिन्यकामित्वधौर्त्त्यादासक्त्ययोग्यता ।यत्र सेर्ष्यं भियेवोक्ता सोऽवजल्पः सतां मतः
यथा, --मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्म्मास्त्रियमकृतविरूपां स्त्रीजितः कामयानाम् ।बलिमपि बलिमत्त्वाऽवेष्टयद्ध्वाङ्क्षवद्य-स्तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः
अथाभिजल्पितम् ।भङ्ग्या त्यागौचितं तस्य खगानामपि खेदनात् ।यत्र सानुशयं प्रोक्तं तद्भवेदभिजल्पितम्
यथा, --यदनुचरितलीलाकर्णपीयूषविप्रुट्-सकृददनविधूतद्बन्द्वधर्म्मा विनष्टाः ।सपदि गृहकुटुम्बं दीनमुत्सृज्य धीराबहव इव विहङ्गा भिक्षुचर्य्यां चरन्ति
अथ आजल्पः ।ज्यैह्म्यं तस्यार्त्तिदत्वञ्च निर्व्वेदाद्यत्र कीर्त्तितम् ।भङ्ग्यान्यसुखदत्वञ्च आजल्प उदीरितः
यथा, --वयमृतमिव जिह्मव्याहृतं श्रद्दधानाःकुलिकरुतमिवाज्ञाः कृष्णबध्वो हरिण्यः ।ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र-स्मररुजमुपमन्त्रिन् ! भण्यतामन्यवार्त्ता
अथ प्रतिजल्पः ।दुस्त्यजद्वन्द्बभावेऽस्मिन् प्राप्तिर्नार्हेत्यनुद्धतम् ।दूतसंमाननेनोक्तं यत्र प्रतिजल्पकः
यथा, --“प्रियसख ! पुनरागाः प्रेयसा प्रेषितः किंवरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग ! ।नयसि कथमिहास्मान् दुस्त्यजद्बन्द्बपार्श्वंसततमुरसि सौम्य ! श्रीबधूः साकमास्ते
अथ सुजल्पः ।यत्रार्जवात् सगाम्भीर्य्यं सदैन्यं सहचापलम् ।सोत्कण्ठञ्च हरिः पृष्टः सुजल्पो निगद्यते
यथा, --अपि घत ! मधुपुर्य्यामार्य्यपुत्त्रोऽधुनास्तेस्मरति पितृगेहान् ! सौम्यबन्धूश्च गोपान् ।क्वचिदपि कथां नः किङ्करीणां गृणीतेभुजमगुरुसुगन्धं मूर्द्ध्न्यधास्यत् कदा नु
१०
इत्युज्ज्वलनीलमणौ स्थायिभावः
वाचस्पत्यम्
Sanskrit
चित्रजल्प
पु०
उज्वलमण्युक्ते वाक्यभेदे तल्लक्षणभेदादिकंतत्रोक्तं यथा“प्रेष्ठस्य सुहृदा लोके गूढरोषाभिजृम्भितः भूरि-भावमयोजल्पो यस्तीव्रोत्कण्ठतान्वितः चित्र-जल्पो दशाङ्गोऽयं प्रजल्पः परिजल्पितम् विजल्पोज्जल्पसंजल्पाववजल्पोऽभिजल्पितम् आजल्पः प्रति-जल्पश्च सुजल्पश्चेति कीर्त्तिताः एष भ्रमरगीता-ख्योदशमे प्रकटीकृतः असंङ्ख्यभाववैचित्रीचमत्-कृतिसुदुस्तरः अपि चेच्चित्रजल्पोऽयं मनाक् तद-पि कथ्यते तत्र प्रजल्पः असूयेर्ष्यामदयुजा योऽवधीरणमुद्रया प्रेयस्या कौशलोद्गारः प्रजल्पः तुकीर्त्त्यते यथा मघुप! कितवबन्धो! मा स्पृशा-ङ्घ्रिं सपत्न्याः कुचविलुलितमालाकुङ्कुम श्मश्रुभिर्नः ।वहतु मघुपतिस्तन्मानिनीनां प्रसादं यदुसदसि विडम्ब्यंयस्य दूतस्त्वमीदृक् अथ परिजलपितम् ।प्रभोर्निर्दयताशाठ्यचापलाद्युपसादनात् स्वविच-क्षणताव्यक्तिर्भङ्ख्या स्यात् परिजल्पितम् यथा ।सकृदधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इकसद्यो दुस्त्यजेऽस्मान् भवादृक् परिचरति कथं तत् पादपद्मं नु पद्मा अपि वत हृतचेता ह्युत्तमश्लोकजल्पैः ।अथ विजल्पः “व्यक्तयाऽसूयया गूढमानमुद्रान्तरा-लया अथ द्विषि कटाक्षोक्तिर्विजल्पो विदुषां मतः ।यथा किमिह बहु षडङ्घ्रे! गायसि त्वं यदूनामधिपतिमगृहाणामग्रतो नः पुराणम् विजयसख-सखीनां गीयतां तत्प्रसङ्गः क्षपितकुचरुजस्ते कल्प-यन्तीष्टमिष्टाः अथोज्जल्पः हरेः कुह-कताख्यानं गर्व्वगर्भितयेर्ष्यया सासूयश्च तदा-क्षेपो धीरैरुज्जल्पईर्ष्यते यथा दिवि भुवि चरसायां काः स्त्रियस्तद्दुरापाः कपटरुचिरहासम्रूवि-जृम्भस्य याः स्युः चरणरजौपास्ते यस्य मूतिर्व्वयंका अपि कृपणपक्षे ह्युत्तमश्लोकशब्दः अथसंजल्पः सोल्लुण्ठया गहनया कयाप्याक्षेपमुद्रया ।तस्याकृतज्ञताद्युक्तिः संजल्पः कथितो वुधैः यथाविसृज शिरसि पादं वेद्म्यहं चाटुकारैरनुनयविदुष स्ते-ऽभ्येत्य दौत्यैर्मुकुन्दात् स्वकृत इह विसृष्टापत्य-पत्यन्यलोका व्यसृजदकृतचेताः किन्नु सन्धेयमस्मिन् ।अथ अवजल्पः हरौ काठिन्यकामित्वघौर्त्त्या-दासक्त्ययोग्यता यत्र सेर्ष्यं भियेवोक्ता सो-ऽवजल्पः सतां मतः यथा मृगयुरिव कपीन्द्रंविव्यधे लुब्धधर्मा स्त्रियमकृतविरूपां स्त्रीजितः काम-यानाम् वलिमपि बलिमत्त्वा वेष्टयद्ध्वाङ्क्षवद्यस्तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः अथाभिजल्पितम् ७भङ्ग्या त्यागौचितं तस्य खगानामपि खेदनात् यत्रसानुशयं प्रोक्तं तद्भवेदभिजल्पितम् यथा यद-नुचरितलीला कर्णपीयूषविप्लुट् सकृददनविधूतद्वन्द्वधर्मा विनष्टाः सपदि गृहकुटुम्बं दीनमुत्सृज्यघीरा बहव इव विहङ्गा भिक्षुचर्य्यां चरन्ति ।अथ आजल्पः जैह्म्यं तस्यार्त्तिदत्वञ्च निर्वेदा-द्यत्र कीर्त्तितम् भङ्ग्यान्यसुखदत्वञ्च आजल्-प उदीरितः यथा वयमृतमिव जिह्मं व्याहृतंश्रद्धधानाः कुलिकरुतसिवाज्ञाः कृष्णबध्वो हरि-ण्यः ददृशुरसकृदेतत्तन्नखस्पर्शतीव्रस्मररुजौपमन्त्रिन्!भण्यतामन्यवार्त्ता अथ प्रतिजल्पः ।दुस्त्यजद्वन्द्वभावेऽस्मिन् प्राप्तिर्नार्हेत्यनुद्धतम् दूतसंमा-गनेनोक्तं यत्र प्रतिजल्पकः प्रियसख! पुन-रागाः प्रेयसा प्रेषितः किं वरय किमनुरुन्धे माननी-सोऽसि मेऽङ्ग नयसि कथमिहास्विन् दुस्त्यज द्वन्द्व-पार्श्वं सततमुरसि सौम्य! श्रीबधूः साकमास्ते ।अथ सुजल्पः १० यत्रार्जवात् सगाम्भीर्य्यं सदैन्यं सहचापलम् सोत्कण्ठञ्च हरिः पृष्टः सुजल्पोनिगद्यते यथा--अपि वत मधुपुर्य्यामार्य्यपुत्रोऽधुनास्तेस्मरति पितृगेहान् सौम्य! बन्धूंश्च गोपान् क्वचि-दपि कथां नः किङ्करीणां गृणीते भुजमगुरुसुगन्धंमूर्द्ध्न्यधास्यत् कदा नु” १०