| YouTube Channel

चित्रगुप्तः (citraguptaH)

 
Apte Hindi
Hindi
चित्रगुप्तः
पुं*
चित्र-गुप्तः -
यमराज के कार्यालय में मनुष्यों के गुण तथा अवगुणों को लिखने वाला
Wordnet
Sanskrit
Synonyms:
चित्रगुप्तः
noun
चतुर्दशसु यमेषु एकः।
"चित्रगुप्तः प्राणीनां पापपुण्ययोः गणनं करोति।"
वैजयन्तीकोषः
Sanskrit
Word: चित्रगुप्तः
Root: चित्रगुप्त
Gender: पुं
Number: all
अर्थः यमस्य लेखकः
Meaning(s):
Yama's writer
Shloka(s):
1|2|36|1 पत्नी यमस्य धूमोर्णा चित्रगुप्तस्तु लेखकः। (स्वर्गकाण्डः/लोकपालाध्यायः)
Synonym(s):
1|2|36|1 चित्रगुप्तः (चित्रगुप्त) (पुं) Yama's writer यमस्य लेखकः
Related word(s):
स्व_स्वामीसंबन्धः यमः
जातिः अलौकिकचेतनः
शब्दकल्पद्रुमः
Sanskrit
चित्रगुप्तः,
पुं,
(गुप रक्षणे + भावे क्तः चित्राणांजीवकृतपापपुण्यादिविचित्राणां गुप्तं गोपनंरक्षणं यस्मात् यद्वा, चित्रंविचित्रं गुप्तं धर्म्मस्यरक्षणं यस्य ।) चतुर्द्दशयमान्तर्गतयमः तस्यलेखकः इति मेदिनी ते, १९८
तस्योत्-पत्तिर्यथा, --“ब्रह्मपादांशतः शूद्रमसीशौ द्वौ बभूवतुः ।एको मसीशः सर्व्वाख्यः सर्व्वाणीहृदयद्विजात्
कुलप्रदीपः स्वीयानां जातीनां पूततास्पृहः ।वगलेति महाविद्यां गृहीत्वा साधयन् मुदा
सर्व्वाणीहृदयाख्यस्य पण्डितस्य प्रसादतः ।वरं याचितवान् भक्त्या त्रिलोकाधिपतिं, गुरो !
कृपया कुरु मां नाथ ! त्वमेव वगला मम ।गुरुणापि वरो दत्तो राज्यं भुक्त्वा पुनर्भवान्
त्रिलोकाधिपतिर्भूत्वा मुदा तत्र सुखिष्यति ।गुर्व्वाज्ञया मसीशः राज्यभोगी द्विजार्च्चनात्
विहाय देहं भूयश्च त्रिधारूपो बभूव ।चित्रगुप्तश्चित्रसेनश्चित्राङ्गद इति त्रयः
स्वर्गे मर्त्ये पाताले राजते चिरमुत्तमः ।चित्रगुप्तो महाविद्यां प्राप्य कुल्लाख्यविप्रतः
पुत्त्रान् याचितवान्नैव गुरोर्देवत्वमावहन् ।यमान्तिस्थो बभूवापि स्वर्मर्त्याधोविवेचकः
चिरं शुभाशुभं कर्म्म विविच्य शमनान्तिके ।यद्वदेत् सकलानान्तु तदेवाभोजयेद्यमः
”इत्याचारनिर्णयतन्त्रम्
अस्योत्पत्त्यन्तरं कायस्थशब्दे द्रष्टव्यम्