चित्रगुप्त (citragupta)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishBenfey
EnglishApte Hindi
Hindiचित्रगुप्तः
चित्र-गुप्तः -
यमराज के कार्यालय में मनुष्यों के गुण तथा अवगुणों को लिखने वाला
Shabdartha Kaustubha
Kannadaचित्रगुप्त
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಯಮಧರ್ಮರಾಯನ ಒಬ್ಬ ಕಿಂಕರ
प्रयोगाः - > "नामान्येषां लिखामि ध्रुवमहमधुना चित्रगुप्तः प्रमार्ष्टु"
उल्लेखाः - > मुद्रा० १-२०
चित्रगुप्त
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಯಮಧರ್ಮರಾಯ
विस्तारः - > "चित्रगुप्तस्तु पुंसि स्यात् यमे तस्य च लेखके" - मेदि० ।
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
Englishअभिधानचिन्तामणिः
Sanskritभाविन्यां तु पद्मनाभः शूरदेवः सुपार्श्वकः ॥ ५३ ॥
स्वयंप्रभश्च सर्वानुभूतिर्देवश्रुतोदयौ ।
पेढालः पोट्टिलश्चापि शतकीर्तिश्च सुव्रतः ॥ ५४ ॥
अममो निष्कषायश्च निष्पुलाकोऽथ निर्ममः ।
चित्रगुप्तः समाधिश्च संवरश्च यशोधरः ॥ ५५ ॥
विजयो मल्लदेवौ चानन्तवीर्यश्च भद्रकृत् ।
एवं सर्वावसर्पिण्युत्सर्पिणीषु जिनोत्तमाः ॥ ५६ ॥
भाविन्यवसर्पिण्यर्हत् (पुं), पद्मनाभ (पुं), शूरदेव (पुं), सुपार्श्वक (पुं), स्वयम्प्रभ (पुं), सर्वानुभूति (पुं), देवश्रुत (पुं), उदय (पुं), पेढाल (पुं), पोट्टिल (पुं), शतकीर्ति (पुं), सुव्रत (पुं), अमम (पुं), निष्कषाय (पुं), निष्पुलाक (पुं), निर्मम (पुं), चित्रगुप्त (पुं), समाधि (पुं), संवर (पुं), यशोधर (पुं), विजय (पुं), मल्ल (पुं), देव (पुं), अनन्तवीर्य (पुं), भद्रकृत् (पुं)
दासौ चण्डमहाचण्डौ चित्रगुप्तश्च लेखकः ॥ १८६ ॥
यमदास (पुं), चण्ड (पुं), महाचण्ड (पुं), यमलेखक (पुं), चित्रगुप्त (पुं)
वैजयन्तीकोषः
SanskritWord: चित्रगुप्तः
Root: चित्रगुप्त
Gender: पुं
Number: all
अर्थः ⇒ यमस्य लेखकः
Meaning(s):
⇒ Yama's writer
Shloka(s):
1|2|36|1 ► पत्नी यमस्य धूमोर्णा चित्रगुप्तस्तु लेखकः। (स्वर्गकाण्डः/लोकपालाध्यायः)
Synonym(s):
➠ 1|2|36|1 ⇢ चित्रगुप्तः (चित्रगुप्त) (पुं) ⇒ Yama's writer ⇒ यमस्य लेखकः
Related word(s):
स्व_स्वामीसंबन्धः ➡ यमः
जातिः ➡ अलौकिकचेतनः
Mahabharata
EnglishCitragupta. § 766 (Ānuśāsanik.): XIII, 125, 5924 (“the recording assistant of Yama, ” PCR.)
130, 6114, 6118, 6120, 6134, 6135.
पुराणम्
Englishचित्रगुप्त / CITRAGUPTA. A minister of kāla. (God of death). His duty is to examine, after the death of men, a list of the good and evil actions they had done while living. (M.B. anuśāsana parva, Chapter 130).
शब्दकल्पद्रुमः
Sanskritचित्रगुप्तः, (गुप रक्षणे + भावे क्तः । चित्राणांजीवकृतपापपुण्यादिविचित्राणां गुप्तं गोपनंरक्षणं यस्मात् । यद्वा, चित्रंविचित्रं गुप्तं धर्म्मस्यरक्षणं यस्य ।) चतुर्द्दशयमान्तर्गतयमः । तस्यलेखकः । इति मेदिनी । ते, १९८ ॥
तस्योत्-पत्तिर्यथा, --“ब्रह्मपादांशतः शूद्रमसीशौ द्वौ बभूवतुः ।एको मसीशः सर्व्वाख्यः सर्व्वाणीहृदयद्विजात् ॥
कुलप्रदीपः स्वीयानां जातीनां पूततास्पृहः ।वगलेति महाविद्यां गृहीत्वा साधयन् मुदा ॥
सर्व्वाणीहृदयाख्यस्य पण्डितस्य प्रसादतः ।वरं याचितवान् भक्त्या त्रिलोकाधिपतिं, गुरो ! ॥
कृपया कुरु मां नाथ ! त्वमेव वगला मम ।गुरुणापि वरो दत्तो राज्यं भुक्त्वा पुनर्भवान् ॥
त्रिलोकाधिपतिर्भूत्वा मुदा तत्र सुखिष्यति ।गुर्व्वाज्ञया मसीशः स राज्यभोगी द्विजार्च्चनात् ॥
विहाय देहं भूयश्च त्रिधारूपो बभूव ह ।चित्रगुप्तश्चित्रसेनश्चित्राङ्गद इति त्रयः ॥
स्वर्गे मर्त्ये च पाताले राजते चिरमुत्तमः ।चित्रगुप्तो महाविद्यां प्राप्य कुल्लाख्यविप्रतः ॥
पुत्त्रान् याचितवान्नैव गुरोर्देवत्वमावहन् ।यमान्तिस्थो बभूवापि स्वर्मर्त्याधोविवेचकः ॥
चिरं शुभाशुभं कर्म्म विविच्य शमनान्तिके ।यद्वदेत् सकलानान्तु तदेवाभोजयेद्यमः ॥
”इत्याचारनिर्णयतन्त्रम् ॥
अस्योत्पत्त्यन्तरं कायस्थशब्दे द्रष्टव्यम् ॥
वाचस्पत्यम्
Sanskritचित्रगुप्त यमभेदे “चित्रगुप्ताय वै नमः” यमतर्पण-मन्त्रः । कायस्थशब्दे १९३३ पृ० तदुत्पत्त्यादिकं दृश्यम् ।यमनियुक्तस्यैव तस्य यातनाधिकारित्वं शा० सू० भा०व्यवस्थापितं यथा“ननु विरुद्धमिदं यमायत्ता यातनाः पापकर्म्माणोऽनुभवन्तीति, यावता तेषु रौरवादिषु अन्ये चित्रगुप्तादयोनानाधिष्ठातारः स्मर्य्यन्ते इति, नेत्याह” भा० । “तत्रापिच तद्व्यापारादविरोधः” शा० सू० “तेष्वपि सप्तसु नर-केषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमाद-विरोधः । यमप्रयुक्ता एव हि ते चित्रगुप्तादयोऽधि-ष्ठातारः स्मर्य्यन्ते” ।तस्य च संयमन्यां पापिनां प्रवोधनप्रकारः पुराणसमुच्चयेशिवधर्मोत्तरे उक्तो यथा“निर्भर्त्सयति चात्यर्थं यमस्तान् पापकर्म्मिणः । चित्र-गुप्तश्च भगवान् धर्मवाक्यैः प्रबोधयेत् । भो भो दुष्कृ-तकर्माणः! परद्रव्यापहारिणः! । गर्व्विता रूप-वीर्य्यौषैः परदारविमर्द्दकाः! । यत् स्वयं क्रियतेकर्म तत् स्वयं भुञ्जते पुनः । तत् किमात्मप्रता-पार्थं भवद्भिः दुष्कृतं कृतम् । इदानीं किं प्रत-प्यध्वं पीड्यमानाः स्वकर्मभिः । भुञ्जध्वं स्वानिकर्माणि नात्र दोषोऽस्ति कस्यचित् । एते ते पृथिवी-पालाः संप्राप्ता मत्समीपतः । स्वकीयैः कर्मभिर्घोरैर्दुष्प्रज्ञा बलदर्पिताः । भो भो नृपा! दुराचाराः!प्रजाविध्वंसकारिणः! । अल्पकालस्य राज्यस्य कृते किंदुष्कृतं कृतम्? । राज्यलोभेन मोहेन बलादन्यायतःप्रजाः । विध्वंसिताः फलं तस्य भुञ्जध्वमधुना नृपाः! ।क्व तद्राज्यं कलत्रञ्च यदर्थमशुभं कृतम् । तत्सर्वं संपरि-त्यज्य यूयमेकाकिनः स्थिताः । पश्यामस्तद्वलं णभ्यंयेन त्वद्दण्डिताः प्रजाः । यमदूतैस्ताड्यमाना अधुनाकीदृशं भवेत्” । अस्य यमलेखकत्वकथा स्क० प्रभा० यथा“एवन्तु स्तुवतस्तस्य चित्रस्य विमलात्मनः । तथा तुष्टःसहस्नांशुः कालेन महता विभुः । अब्रवीद्वत्स! मद्रंते वरं वरय सुव्रत!! सोऽब्रवीद्यदि मे तुष्टो भगवांस्तीक्ष्णदीधिते! ! प्रौढत्वं सर्वकार्य्येषु जायतां सन्मतिस्तथा । तत् तथेति प्रतिज्ञातं सूर्य्येण वरवर्णिनि! । ततःसर्वज्ञतां प्राप्तश्चित्रोमित्रकुलोद्भवः । तं ज्ञात्वा धर्म्म-राजस्तु बुद्ध्या परमया युतः । चिन्तयामास मेधावीलेखकोऽयं भवेद्यदि । जाता मे सर्वसिद्धिश्च निर्वृतिश्च पराभवेत् । एवं चिन्तयतस्तस्य धर्म्मराजस्य भामिनि! ।अग्नितीर्थं गतश्चित्रः स्नानार्थं लवणाम्भसि । स तत्रप्रविशन्नेव नीतस्तु यमकिङ्करैः । सशरीरो महादेवि!यमादेशपरायणैः । स चित्रगुप्तनामाभूत् विश्वचारित्रलेखकः । चित्रादित्येति नामास्य ततो लोके वरानने! ।सप्तम्यां नियताहारोयस्तं पूजयते नरः । सप्त जन्मानिदारिद्र्यं न दुःखं तस्य जायते” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
