| YouTube Channel

चित्रकहरीतकी (citrakaharItakI)

 
वाचस्पत्यम्
Sanskrit
चित्रकहरीतकी स्त्री चित्रकपक्वा हरीतकी चक्रदत्तोक्तेऔषधभेदे “चित्रकस्यामलक्याश्च गुडूच्या दशमूलजम् ।शतं शतं रसं दत्त्वा पथ्याचूर्णाढकं गुडात् शतं पचेत्घनीभूते पलं द्वादशकं क्षिपेत् व्योषत्रिजातयोः क्षारात्पलार्द्धमपरेऽहनि प्रस्थार्द्धमधुनोदत्त्वा यथाग्न्यद्यादत-न्त्रितः वृद्धयेऽग्नेः क्षयं कासं पीनसं दुस्तरं क्रिमीन् ।गुल्मोदावर्त्तदुर्नामश्वासान् हन्ति रसायनम्”