| YouTube Channel

चित्रं (citraM)

 
Hindi
Hindi
आश्चर्य की बात
शब्दकल्पद्रुमः
Sanskrit
चित्रं,
क्ली,
(चित्रयतीति चित्र + कर्म्मणि अप् ।यद्वा, चीयते इति “अमिचिमिशमिभ्यः क्त्रः ।”उणां १६४ इति क्त्रः ।) तिलकम् ।आलेख्यम् (यथा, पञ्चदश्याम् ।“उत्तमाधमभावेन वर्त्तन्ते पटचित्रवत्
”)अद्भुतम् (यथा, रामायणे १० ।“चित्रं संक्रीडमानास्ताः क्रीडनैर्विविधैस्तथा
”)कर्व्वुरवर्णः (यथा, माधे ८“निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मणा
”)तद्युक्ते त्रि इति मेदिनी रे, २५
(अल-ङ्कारविशेषः यथा, --“तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ।”सन्निवेशविशेषेण यत्रन्यस्ता वर्णाः खड्गमुरज-पद्माकारमुल्लासयन्ति तच्चित्रं काव्यम्
*
अष्टिसंज्ञकषोडशाक्षरावृत्तिच्छन्दोभेदः तल्ल-क्षणं यथा, छन्दोमञ्जर्य्याम् ।“चित्रसंज्ञमीरितं समानिकापदद्बयन्तु ।”उदाहरणं यथा, --“विद्रुमारुणाधरोष्ठशोभि वेणुवाद्यहृष्ट-वल्लवीजनाङ्गसङ्गजातमुग्धकण्टकाङ्ग ! ।त्वां सदैव वासुदेव ! पुण्यलभ्यपाद ! देव !वन्यपुष्पचित्रकेश ! त्वां स्मरामि गोपवेश !
”)आकाशः कुष्ठविशेषः इति हेमचन्द्रः ३४
(आश्चर्य्यान्विते, त्रि यथा, महाभारते ।१ ।“चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः
”)