| YouTube Channel

चित्तविक्षेप (cittavikSepa)

 
Capeller Eng
English
चित्तविक्षेप
m.
distraction of the mind. *
Monier Williams Cologne
English
चित्त—विक्षेप
m.
absence of mind,
Vajr.
Hindi
Hindi
भ्रम व्याकुलता,
Apte Hindi
Hindi
चित्तविक्षेपः
पुं*
चित्त-विक्षेपः -
मन का उचाटपन
Shabdartha Kaustubha
Kannada
चित्तविक्षेप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮನಶ್ಚಾಂಚಲ್ಯ /ಮನಸ್ಸು ಚಂಚಲವಾಗಿರುವಿಕೆ
व्युत्पत्तिः - > चित्तस्य विक्षेपः
L R Vaidya
English
citta-vikzepa {% m. %} distraction of the mind.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
चित्तविक्षेप m. Zerstreutheit des Geistes, Geistesverwirrung, Vajracch. 35, 15.
वाचस्पत्यम्
Sanskrit
चित्तविक्षेप
पु०
त० पात० सूत्रभाष्याद्युक्तेषु योगा-न्तरायभूतेषु व्याध्यादिषु नयसु ते यथा“व्याघिस्त्यानसंशयप्रमादालस्याऽविरतिभ्रान्तिदर्शनाऽलव्य-भूमिकत्वाऽनवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः” सू० ।“अथ केऽन्तरायाः? ये चित्तस्य विक्षेपकाः के पुनस्ते?कियन्तोवेति? भवन्ति नवान्तरायाश्चित्तविक्षेपाःसहैते चित्तवृत्तिभिः, एतेषामभावे मवन्ति पूर्व्वोक्ताश्चित्त-वृत्तयः व्याधिर्धातुरसकरणवैषम्यम् स्त्यानम् अकर्म्म-ण्यता चित्तस्य संशयः उमयकोटिस्पृग्विज्ञानं स्या-दिदमेवं, नैवं स्यादिति प्रमादः समाधिसाधनानाम-भावनम् आलस्यै--कायस्य वित्तस्य गुरुत्वादप्रवृत्तिः ।अविरतिः--चित्तस्य विषयसंप्रयोगात्मा गर्द्धः भ्रान्तिद-र्शनं विपर्य्ययज्ञानम् अलब्धभूमिकत्वं समाधिभूमेर-लागः अनवस्थितत्वं--प्राग्लब्धायां भूमौ चित्तस्याप्रतिष्ठा समाधिप्रतिलम्भे हि सति तदवस्थितं खादितिएते चित्तविक्षेपाः नव योगमला योगप्रतिपक्षा योगा-न्तराया इत्यभिधीयन्ते” महर्षिवेदव्यास भाप्यम ।“पृच्छति--अथ के इति सामान्योत्तरं--ये इति विशे-षसंख्ये पृच्छति--के इति उत्तरं--व्याधीत्यादिसूत्रम् ।अन्तरायाः नव, एताश्चित्तवृत्तयोयोगान्तरायाः=योग-विरोधिनश्चित्तस्य विक्षेपकाः चित्त खल्वमी व्याध्याद-योयोगाद्विक्षिपन्ति अपनयन्तीति विक्षेपाः योगपति-पक्षत्वे हेतुमाह, --सहैत इति संशयभ्रान्तिदर्शनेतावद्वृत्तितया वृत्तिनिरोधप्रतिपक्षौ, येऽपि वृत्त-योव्याधिप्रभृतयस्तेऽपि वृत्तिसाहचर्य्यात्तत्पतिपक्षाइत्यर्थः पदार्थान् व्याचष्टे, --व्याधिरिवि धात-वोवातपित्तश्लेष्माणः शरीरधारणात् अशितपीता-हारपरिणामविशेषोरसः करणानीन्द्रियाणि तेषांवैषम्यं न्यूनाधिकभावः अकर्म्मण्यता कर्म्मान-र्हता संशय उभयकोटिस्पृग्विज्ञानं सत्यप्यत-द्रूपप्रतिष्ठत्वेन संशयविपर्य्यासयोरभेदे उभयकोटि-स्पर्शास्पर्शरूपाऽवान्तरविशेषविवक्षयाऽत्र भेदेनोपन्यासः ।अभावनमकरणं तत्राप्रयत्न इति यावत् कायस्य गुरुत्वंकफादिना, चित्तस्य गुरुत्वं तमसा गर्धः तृष्णा मधु-मत्यादयः समाधिभूमयः लब्धभूमेर्य्यदि तावतैव सुस्थित-म्मत्यस्य समाधिभ्रेषःस्याचतस्तस्या अपि भूमेरपायःस्यात् यस्मात् समाधिप्रतिलम्भे तदवस्थितं स्यात्त-स्मात्तत्र प्रयतितव्यमिति” विवरणम्