चित्तमूमि (cittamUmi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritचित्तमूमि स्त्री चित्तस्य भूमिरवस्था । पातञ्जलप्रसिद्धे१ चितस्यावस्थाभेदे तद्भूमयश्च नानाविधाः तत्र चित्तशब्देदर्शिता क्षिप्तमूढविक्षिप्तैकाग्रताः चतसः उक्ताः ।मधुमत ज्योतिष्मती विशोका ऋतम्मरा च समाधिभूमय-श्चान्यास्ताश्चचित्तपिक्षेपशब्दे तत्तच्छब्दे च दृश्याः ।साधनपादे च सूत्रभाष्यादौ सप्ताम्या अप्युक्ताः यथा“सप्तधा प्रान्तभूमिः प्रज्ञा” सू० ।“तस्येति । प्रत्युदितख्यातेः प्रत्थाम्नायः सप्तधेति अ-शुद्ध्यावरणमलापगमाच्चित्तस्य प्रत्थयारानुत्पादे सतिसप्तप्रकारैव प्रज्ञा विवेकिनो भवति । तद् यथा परिज्ञातंहेयं, नास्य पुनः परिज्ञेयमस्ति क्षीणा हेयहेतवो न पुन-रेतेषुक्षेतव्यमस्ति, साक्षात्कृतं निरोधसमाधिना हानम् ।भावितो विवेकख्यातिरूपोहानोपायैव्येधा चतुष्ठयीकार्य्याविमुक्तिः प्रज्ञायाः । चित्तविमुक्तिस्तु त्रयी चरिता-धिकारा बुद्धिगुणा गिरिशिखरकृटच्युताइव ग्रावाणो-निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तंगच्छन्ति । न चैषां विलीनानां पुनरस्त्युत्पादः प्रयो-जनाभावादिति एतस्यामवस्थायां गुणसम्बन्धातीतस्व-रूपमात्रज्यीतिरमलः केवली पुरुष इत्येतां सप्तविधाप्रान्तभूमिप्रज्ञामनुपश्यन् पुरुषः कुशलैत्याख्यायते पतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वा-दिति सिद्धा भवति विवेकख्यातिर्हानोपायः इति” भा० ।“पिवेकख्यातिनिष्ठायाः स्वरूपमाह सूत्रेण तस्येत्यादि ।व्याचष्टे तस्येति प्रत्युदितख्यातेर्वर्त्तमानख्यातेर्योभिनः प्रत्याम्नायः परामर्शः अशुद्धिरेवावरणं चित्तसुत्वस्यतदेव मलं तस्यापगमात् चित्तस्य प्रत्ययान्तरानुत्पादे ताम-सराजसव्युत्थानप्रत्ययानुत्पादे निर्विप्लवविवेकख्यातिनि-ष्ठामापन्नस्य सप्तप्रकारेव प्रज्ञा विवेकिनो भवति विपयभे-द्रात् प्रज्ञाभेदः । प्रकष्टोऽन्तो यासां मूमीनामवस्थानां तास्त-थोक्ता यतः परं नास्ति संप्रकर्षः प्रान्ता भूमयः यस्या-प्रज्ञाया विवेकख्यातेः सा तथोक्ता ता एव सप्त प्रकाराःप्रज्ञाभूमीरुदाहरति तद्यथेति । तत्र पुरुपप्रयत्ननिष्पाद्यासु चतसृषु भूमिषु प्रथमामुदाहरति परिज्ञातंहेयं यावत् किल प्राधानिकं तत्सर्व्वं परिणामतापसं-स्कारैर्गुणवृत्तिविरोधात् दुःखमेवेति, हेयं तत्परिज्ञा-तम् । प्रान्ततां दर्शयति नास्य पुनः किञ्चिदपरिज्ञेय-मस्ति । द्वितीयामाह क्षीणा इति । प्रान्ततामाहन पुनरिति । तृतीयामाह साक्षातकृतं प्रत्यक्षेणनिश्चितं यथा संप्रज्ञातावरवायामेव निरोधसमाधिसाध्यं हानं व पुनरस्मात् परं निश्चेतव्यमस्तीति शेषः ।चतुर्थीमाह भावितो निष्पादितः विवेकख्यातिरूपोहा-नोपायः, नास्याः परं भावनीयमस्ति इति शेषः । एषाचतुष्टयी कार्य्याविमुक्तिः समाप्तिकार्य्यतता प्रयत्रनिष्पा-द्या दर्शिता । क्वचित् पाठः कार्य्यविमुक्तिरिति कार्य्यान्त-रेण विमुक्तिः प्रज्ञाया इत्यर्थः । प्रयत्ननिष्पाद्यामुक्त्वातद्रनिष्पादनीयामप्रयत्नसाध्यां चित्तविमुक्तिमाह चित्त-विमुक्तिस्तु त्रयी इति । प्रथमामाह चरिताधिकाराबुद्धिकृतमोगापवर्गकार्येव्यर्थः । द्वितीयामाह गुणाइतिप्राव्यतामाह न चैषामिति । तृतीयामाह एतस्या-मतस्यायामिति एतस्यामवस्थायां जीवन्नेव पुरुषःकुशलोमुक्त इत्युच्यते चरमदेहत्वादित्याह एतमिति ।अनौपचारिकं मुक्तमाह प्रतिप्रसवे प्रधानलयेऽपिचित्तस्य मुक्तः कुशल इत्येष भवति गुणातीतत्वादिति’विवरणम् । चित्तमेव भूमिः क्षेत्रम् । २ चित्ररूपक्षेत्रेतस्मिंश्च मैत्रीकरुणामुदितोपेक्षारूपैः संस्कारैः संस्कृतेसमाधिलाभः इति योगाशास्त्रे प्रसिद्ध्वम्
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
