| YouTube Channel

चित्तप्रसादन (cittaprasAdana)

 
Monier Williams Cologne
English
चित्त—प्रसादन
n.
gladdening of mind,
MBh.
iii, 1786
Yogas.
i, 33.
वाचस्पत्यम्
Sanskrit
चित्तप्रसादन
न०
चित्तस्य प्रसादनं प्रसन्नताकरणम् पात-ञ्जलोक्ते चित्तप्रसन्नतासम्पादके मैत्र्यादिभाबनाजन्येचित्रसंस्कारभेदे मैत्र्यादिमावनानां तथात्वं पात०सूत्रभाष्यादावुक्तं यथा“यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म्म निर्द्दिश्यते, तत्कथं?--भा०“मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणांभावनातश्चित्तप्रसादनम्” सू० ।“तत्र सर्व्वप्राणिषु सुखसम्भोगापन्नेषु मैत्रीं भावयेत्, दुःखितेषु करुणाम्, पुण्यात्मकेषु मुदिताम् अपुण्य-शीलेषूपेक्षाम् ।--एवमस्य भावयतः शुक्लोधर्म्मौपजायते-ततश्चित्तं प्रसीदति प्रसन्नमेकाग्रं स्थितिपदं लभते” भा० ।“अपरिकर्मितमनसोऽसूयादिमतः समाधितदुपायसम्पत्त्य-नुत्पादात् चित्तप्रसादनोपायानसूयादिविरोधिनः प्रतिपादयितुमुपक्रमते यस्य चित्तस्यापस्थितस्येदमिति ।मैत्रीकरुणेत्यादि प्रसादनान्तम् सुखितेषु मेत्री सौ-हार्द्दं भावयत ईर्ष्याकालुष्यं निवर्त्तते चित्तस्य दुः-खितेषु करुणामात्मनीव परस्मिन् दुःस्यप्रहाणेच्छाभावयतः परापकारचिकीर्षाकालुष्यं चेतसोनिवर्त्तते ।पुण्यशीलेषु प्राणिषु मुदितां हर्षं मावयतः असूयाका-लुष्यं चेतसो निवर्त्तते अपुण्यशीलेषु चोपेक्षां मा-ध्यस्थ्यं भावयतोऽमर्षकालुष्यं चेतसोनिवर्त्तते ततश्चास्यराजसतामसधर्मनिवृत्तौ सात्विकः शुक्लोधर्म उपजायते ।सत्वोत्कर्षसम्पन्नः सम्मवति वृत्ति निरोधपक्षे तस्यप्रसादस्वामाव्याच्चित्तं प्रसीदति प्रसन्नञ्च वक्ष्यमाणभ्यउपायेभ्यः एकाग्रं स्थितिपदं लभते असत्यां पुनर्मैत्र्या-दिभावनायां ते उपायाः स्थित्यै कल्पन्ते” विव० ।करणे ल्युट् ङीप् चित्रप्रसादनी मैत्र्यदिभाव-नायाम् “तत् प्रचिणु चित्तप्रसादनीश्चतसो मैत्र्यादिभावनाः” वीरच०