| YouTube Channel

चित्तं (cittaM)

 
Hindi
Hindi
मन
शब्दकल्पद्रुमः
Sanskrit
चित्तं,
क्ली,
(चेतत्यनेनेति चित् + करणे क्तः ।) अनु-सन्धानात्मिकान्तःकरणवृत्तिः इति वेदान्तः
“यत्तत् सत्वगुणं स्वच्छं स्वान्तं भगवतः पदम् ।यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम्
स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः ।प्रवृत्तिलक्षणं प्रोक्तं यथापां प्रकृतिः परा
”इति श्रीभागवतम्
अस्यार्थः “अधिभूतस्वरूपेण तस्यैव महा-नितिसंज्ञा अध्यात्मरूपेण चित्तं उपास्यरूपेणवासुदेवः अधिष्ठाता तु तस्य क्षेत्रज्ञः ।” इतिश्रीधरस्वामी
(अनेनैव चिच्छक्तेः प्रथमसम्बन्धः ।अतएव भगवत्पतञ्जलिपादैरुपदिष्टं प्रथमसूत्रे“योगश्चित्तवृत्तिनिरोधः ।” तथा मुण्डकोप-निषदि ।“एषोऽणुरात्मा चेतसा वेदितव्योयस्मिन् प्राणः पञ्चधा संविवेश ।प्राणैश्चित्तं सर्व्वमोतं प्रजानांयस्मिन् विशुद्धे विभवत्येष आत्मा
”)मनः इत्यमरः ३१