| YouTube Channel

चिती (citI)

 
Monier Williams Cologne
English
चिती
f.
for °ति, q.v.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
चित्
मूलधातुः:
चिती
धात्वर्थः:
संज्ञाने
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
चेतति
अनुबन्धादिविशेषः:
ईदित्
धातुप्रदीपः
Sanskrit
चितीँ चिती संज्ञाने
- चेतति, चेततः चिचेत चेतनः चित्तः चित्तवान् चेतिता चितित्वा चेतित्वा चिचितिषति चिचेतिषति चित् चिद्रूपः चेतः चितेः कणः कश्च (उण्, 4/177) चिक्कणः चैक्कण्यम् (15) ।। 38 ।।
क्षीरतरङ्गिणी
Sanskrit
चितीँ चिती संज्ञाने
(अर्थविवरणम्) संज्ञानं संवित्तिः
चेतति श्वीदितो निष्ठायाम् (7214) इति नेट् - चित्तम् चितिः रलो व्युपधाद्धलादेः संश्च (1236) इति वा कित्त्वम् - चितित्वा, चेतित्वा, चिचितिषति, चिचेतिषति क्विपि चित् असुनि - चेतः (द्र0उ04189) अनुपसर्गाल्लिम्पविन्द (31138) इति णौ शः - चेतयः चुरादौ चित संवेदने (10144) इत्यात्मनेपदी - चेतयते चेतनम्, चेतना 38
धातुवृत्तिः
Sanskrit
चितीँ चिती (अर्थः) संज्ञाने
(अर्थविवरणम्) संज्ञानं चैतन्यम्
( चेतति चिचेत चिचिततुः चिचेतिथ चिचिते चिचेत चिचितिव चिचितिम चेतिता चेतिष्यति चेततु अचेतत् चेतेत् आशिषि चित्यात् अचेतीत् अचेतिष्यित् ) भावे ( चित्यइत्यादि, चिचितिषति चिचेतिषति चितित्वा चेतित्वा ) "रलो व्युपधात्'' इति कित्त्विविकल्पः ( चेचित्यते चेचितीति ) "नाभ्यस्तस्य'' इति गुणनिषेञः ( चेचेत्ति चेतयति देवदत्तम् अचीचितत् )"अणावकर्मकात्'' इति परस्मैपक्ष्मेव "गतिबुद्धि'' इति प्रयोज्यं कर्म ( चित्तः चित्तवान् ) "श्वीदित''इति ( चितः )इगुपधलक्षणः कः (चेतनः) बाहुलकात्कर्त्तरि ल्युट्त्वम् ल्युः (चित् चैतन्मयम् )संपदादित्वाद्भावे क्किप् ( चेतः ) "असुन्'' इत्यसुन् ( सुचेतीकरोति ) "अरुर्मनश्चुश्चेतोराहोरजसां लोपश्च'' इति "कृभ्वस्तियोगे च्चिः सलोपश्च'' "अस्य च्चौ'' तीकारो ऽकारस्य अत्र मैत्रैयः "कणः कश्च'' इति चितेः कणप्रत्यये धातोरन्त्यस्य ककारे चिक्कण इति बहुलवचनाद्गुणाभावः प्रतृययकस्येत्संज्ञाऽभावश्चेति हरदत्तस्तु चिनोतेः क्किप् चित्, कणतेरच् कणः, तकारस्य ककारश्चिक्कणदिपाठात् के चित्तु चिक्णादिषु तकारमेव पठन्ति न्यासकारो ऽप्येवं निरुवाह स्मरणार्थे ऽप्ययम् चेतन्ती सुमतीनामिति दर्शनात् "अधीगर्थदयोशां कर्मणि'' इति कमणः शेषत्वे षष्ठी अधीगर्थः स्मरणार्थाः तथा संधानार्थो ऽपि यदाह श्रीरामस्वामी प्रायो विनाशः चित्तं सन्धानं विष्टस्य संधानं प्रायश्चित्तमिति "प्रायस्य चित्तिचित्तयोः'' इति पारस्करादिपाठात् सुट् चिति स्मृत्यामिति चुादौ चित संचेतन इति तत्रैवात्मनेपदी 39
कृदन्तरूपमाला
Sanskrit
1 {@“चिती संज्ञाने”@} 2 ‘… चिन्तयेत्।
स्मृत्याम्, चेतति संज्ञाने, तत्र चेतयते णिचि।।’ 3 इति देवः।
चेतकः-तिका, चेतकः-तिका, 4 चिचेतिषकः-चिचितिषकः-षिका, 5 चेचितकः-तिका
चेतिता-त्री, चेतयिता-त्री, चिचेतिषिता-चिचितिषिता-त्री, चेचितिता-त्री
6 चेतन्-न्ती, 7 चेतयन्-न्ती, चिचेतिषन्-चिचितिषन्-न्ती
-- चेतिष्यन्-न्ती-ती, चेतयिष्यन्-न्ती-ती, चिचेतिषिष्यन्-चिचितिषिष्यन्-न्ती-ती
-- -- चेचित्यमानः, चेचितिष्यमाणः
8 चित्-चितौ-चितः
-- -- -- 9 चित्तम्-त्तः, 10 प्रायश्चित्तम्, चेतितम्-तः, चिचेतिषितः-चिचितिषितः, चेचितितः-तवान्
11 चितः, 12 चेतनः, 13 चेतयः, चिचेतिषुः-चिचितिषुः, चेचितः
14 चेतितव्यम्, चेतयितव्यम्, चिचेतिषितव्यम्-चिचितिषितव्यम्, चेचितितव्यम्
चेतनीयम्, चेतनीयम्, चिचेतिषणीयम्-चिचितिषणीयम्, चेचितनीयम्
चेत्यम्, चेत्यम्, चिचेतिष्यम्-चिचितिष्यम्, चेचित्यम्
ईषच्चेतः-दुश्चेतः-सुचेतः
-- -- -- चित्यमानः, चेत्यमानः, चिचेतिष्यमाणः-चिचितिष्यमाणः, चेचित्यमानः
चेतः, चेतः, चिचेतिषः-चिचितिषः, चेचितः
चेतितुम्, चेतयितुम्, चिचेतिषितुम्-चिचितिषितुम्, चेचितितुम्
चित्तिः-प्रायश्चित्तिः, 15 चित् 16, चेतना, चिचेतिषा-चिचितिषा, चेचिता
चेतनम्, चेतनम्, चिचेतिषणम्-चिचितिषणम्, चेचितनम्
चेतित्वा-चितित्वा, चेतयित्वा, चिचेतिषित्वा-चिचितिषित्वा, चेचितित्वा
प्रचित्य, प्रचेत्य, प्रचिचेतिष्य-प्रचिचितिष्य, प्रचेचित्य
चेतम् २, चेतित्वा २-चितित्वा चेतम् २, चेतयित्वा २, चिचेतिषम् चिचेतिषित्वा चिचितिषम् २, चिचितिषित्वा २, चेचितम्
चेचितित्वा २। 17 इत्यसुन् प्रत्ययः।
चेतः = मनः।]] चेतः।
प्रासङ्गिक्यः
01
=>
(५२४)
02
=>
(१-भ्वादिः-३९। अक। सेट्। पर।)
03
=>
(श्लो। ९४)
04
=>
[[१। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इति सेटः सनः कित्त्वविकल्पः। कित्त्व- पक्षे गुणोऽङ्गस्य। एवं क्त्वायामपि कित्त्वविकल्पो बोद्ध्यः।]]
05
=>
[[२। यङन्तस्य द्वित्वे, अभ्यासस्य गुणे, यङवयवाकारलोपस्य स्थानिवद्भावात् लघूपधगुणो न। एवं यङन्ते सर्वत्र बोद्ध्यम्।]]
06
=>
[[आ। ‘युष्मानचेतन् क्षयवायुकल्पान् सीतास्फुलिङ्गं परिगृह्य जाल्मः।’ भ। का। १०। ३६।]]
07
=>
[[३। ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति ण्यन्ताच्छतैव।]]
08
=>
[[४। कर्तरि क्विप्। चित् = चेतन इत्यर्थः।]]
09
=>
[[५। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्णिषेधः।]]
10
=>
[[६। ‘प्रायस्य चित्तिचित्तयोः’ (ग। सू। ६। १। १५६) इति सुट्। एवं क्तिन्यपि ज्ञेयम्।]]
11
=>
[[७। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
12
=>
[[८। बाहुलकात् नन्द्यादित्वेन (३-१-१३४) कर्तरि ल्युः।]]
13
=>
[[९। ‘अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च’ (३-१-१३८) इति ण्यन्तादस्मात् कर्तरि शप्रत्ययः
\n\n शप्रत्ययस्य सार्वधातुकत्वेन णेरयादेशः। चेतयः = जीवः। अकारान्तोऽयं शब्दः।]]
14
=>
[पृष्ठम्०५१०+ २०]
15
=>
[[१। ‘सम्पदादिभ्यः--’ (वा-३-३-९४) इति भावे बाहुलकात् क्विप्। चित् = चैतन्यम्- इत्यर्थः।]]
16
=>
[[आ। ‘अतेन्मुरारिर्मम चिन्मयोऽन्तिके च्योतन् दिशः प्रश्च्युतितैः स्मितामृतैः।।’ धा। का। १। ६।]]
17
=>
[[२। ‘असुन्’ [द। उ। ९। ४९]