| YouTube Channel

चिटी (ciTI)

 
Apte
English
चिटी [ciṭī],
f.
A Yoginī disguised as a Chāṇḍālī.
वाचस्पत्यम्
Sanskrit
चिटी स्त्री चिट--क गौरा० ङीष् चण्डालवेशघारिण्यांयोगिन्याम् तन्मन्त्रप्रयोगः तन्त्रसारे उक्तो यथा “तारंचिटिद्वयं ब्रूयाच्चाण्डालि ततः परम् महदाद्यं ततोब्रूयादमुकं मे ततः परम् वशमानय ठ--द्वन्द्वं चिटि-मन्त्र उदाहृतः (ॐ चिटि! चिटि! महाचाण्डालिअमुकं मे वशमानाय स्वाहा) सप्तभिर्दिवसैर्भूपान्वशयेद्विधिना जनः” विधि माह “विलिख्य ताल-पत्रे तं साध्यनाम्नाधिगर्भितम् निःक्षिप्य क्षीरसं-मिश्रे जले तत्क्वाथयेन्निशि वश्यो भवति साध्यो-ऽस्य नात्र कार्य्या विचारणा तालपत्रे लिखित्वैनंभद्रकालीगृहे खनेत् वश्याय सर्वजन्तूनां प्रयोगोऽयमुदाहृतः”