| YouTube Channel

चिट (ciTa)

 
शब्दसागरः
English
चिट r. 1st and 10th cls. (चेटति चेटयति-ते)
1. To be another's messenger
or servant.
2. To order as a servant भ्वा-पर-सक-चुरा-उभ वा सेट्
Wilson
English
चिट r. 1st and 10th cls. (चेटति चेटयति)
1 To be another's messenger or servant.
2 To order as a servant.
Shabdartha Kaustubha
Kannada
चिट -परप्रेष्ये (भ्वा० पर० अक० से०) चेटति
पदविभागः - > धातुः
कन्नडार्थः - > ಇತರರಿಗೆ ದೂತನಾಗು /ದಾಸನಾಗು /ಸೇವಕನಾಗು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
चिट्
मूलधातुः:
चिट
धात्वर्थः:
परप्रेष्ये
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
चेटति
अनुबन्धादिविशेषः:
टिप्पनी: परप्रेष्य¦ स्त्री त० दासे दास्यां स्त्री काशीख० ३७ अ०
धातुप्रदीपः
Sanskrit
चिटँ चिट परप्रेष्ये
- चेटति चेटः गौरादित्वाच् चेटी चेटकः ।। 313 ।।
शब्दकल्पद्रुमः
Sanskrit
चिट, प्रेषे इति कविकल्पद्रुमः
(भ्वां-परं-सकं-सेट् ।) चेटति भृत्यं स्वामी इति दुर्गादासः
चिट, प्रेषे इति कविकल्पद्रुमः
(चुरां-परं-सकं-सेट्
)
वाचस्पत्यम्
Sanskrit
चिट प्रेषणे
भ्वा०
पर०
सक०
सेट् चेटति अचेटीत् चिचेट--चेटः चेटी
चिट प्रेषणे
चु०
उभ०
सक०
सेट् चेटयति ते अचीचिटत्
क्षीरतरङ्गिणी
Sanskrit
चिटँ चिट परप्रैष्ये
- (अर्थविवरणम्) परप्रैष्यं दासत्वम्
चेटति चेटकः चेटः चेटिः, चेटी 307
धातुवृत्तिः
Sanskrit
चिटँ चिट (अर्थः) परप्रैष्ये
( चेटतीत्यादि ) पूर्ववत् काण्यादित्वाभावो विशेषः ( चेटी ) इनन्तात् "सर्वतोक्तिन्नर्थादित्येके'' इति ङीष् 312
कृदन्तरूपमाला
Sanskrit
1 {@“चिट परप्रैष्ये”@} 2 परप्रैष्यम् = दासभावः।
चेटकः-टिका, चेटकः-टिका, चिचिटिषकः-चिचेटिषकः-षिका, चेचिटकः-टिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककिट 3 धातुवत् बोद्ध्यानि।
पचाद्यचि 4 चेटः- 5 इत्यौणादिके इन्प्रत्यये, ‘सर्वतोऽक्तिन्नर्थादित्येके, 6 इति ङीषि चेटी, चेटिः इति रूपद्वयं भवति।]] चेटी- 7 चेटिः।
प्रासङ्गिक्यः
01
=>
(५२१)
02
=>
(१-भ्वादिः-३१५। सक। सेट्। पर।)
03
=>
(१९०)
04
=>
(३-१-१३४)
05
=>
[[३। ‘इन्’ [द। उ। १। ४६]
06
=>
(वा। ४-१-४५)
07
=>
[[आ। ‘लोको हरेर्बलमचेतयमान एतद्युद्धं मृगेन्द्रशशदंशनवत् प्रदंसन्।’ धा। का। ३-३३।]]