| YouTube Channel

चिञ् (ciJ)

 
Macdonell
English
चिञ् ci-ñ, the root 1. ci.
Shabdartha Kaustubha
Kannada
चिञ् - चयने (स्वा०उभ० द्विक० अनि०) चिनोति
पदविभागः - > धातुः
कन्नडार्थः - > ಸೇರಿಸು /ಶೇಖರಿಡು /ಸಂಗ್ರಹಿಸು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
चि
मूलधातुः:
चिञ्
धात्वर्थः:
चयने
गणः:
स्वादिः
कर्मकत्वं:
द्विकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
चिनोति-चिनुते
धातुः:
चि
मूलधातुः:
चिञ्
धात्वर्थः:
चयने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
चपयति-ते
चपति-ते
अनुबन्धादिविशेषः:
ज्ञपादित्वात् मित्
धातुप्रदीपः
Sanskrit
चिञ् चयने
- चिनोति चिनुते चिकाय चिचाय चिक्ये चिच्ये चिकीषति चिचीषति चेचीयते चाययति चापयति चिन्वन् चिन्वानः कायः निचयः सञ्चयः निकायः निकाय्यम् अग्निचित् चित्रम् चित्रा चित्रगुः 6
क्षीरतरङ्गिणी
Sanskrit
चिञ् चयने
- चिनोति, चिनुते नेर्गद (8417) इति प्रणिचिनोति विभाषा चेः (7358) इति सल्लिटोर्वा कुत्वम्-चिकीषति चिचीषति, चिकाय चिचाय चिस्फुरोर्णौ (6154) आत्त्वम्-उच्चापयति चुरादौ (1079) मित्त्वात् चपयति क्रतौ कुण्डपाय्यसंचाय्यौ, अग्नौ परिचाय्योपचाय्यसमूह्याः, चित्याग्निचित्ये (31130-132) क्तिन् (द्र0 3394) चितिः अग्नौ चेः (3291) क्विप्-अग्निचित् कर्मण्यग्न्याख्यायाम् (3292)-श्येन इव चीयते-श्येनचित् हस्तादाने चेरस्तेये (3340) घञ्-पुष्पप्रचायः निवासचितिशरीरोपसमाधानेष्वादेश्च कः (3341)-निकायः, आकायमग्निं चिन्वीत, कायः, गोमयनिकायः संघे चानौत्तराधर्ये (3342)-चैक्खिलिनिकायः चयोऽन्यत्र ग्रहिवृदृ (3358) इत्यप्-निश्चयः सुसिचिभ्यां दीर्घश्च (तु0 उ0 225)-चीरम् अमिचिमिदि (उ0 4164) इति क्त्रः-चित्रम् 5
चिञ् चये
- चययति इति प्रमाणवत्वाद् अध्यायानाम्, चिस्फुरोर्णौ (6154) आत्वं मित्त्वे किंकृतं स्यात् ? एतदन्तं मित्त्वानुवृत्तेः चपयति ञित्त्बमनित्यण्यन्तत्त्वे लिङ्गम्-चयते, चयति स्वादौ (55) चिनोति, चिनुते हेतौ चापयति 89
धातुवृत्तिः
Sanskrit
चिञ् (अर्थः) चयने
( चिनोत चिनुते चिकाय चिक्यतुः चिकेथ वचिकयिथ चिक्यिव) "विभाषा चेः'' इति सन्लिटोः परयोरभ्यासात्परस्य वा कुत्वम् अन्यदा ( चिचाय ) इत्यादि ( चिक्ये चिच्ये ) इत्यादि ( चेष्यति चेष्यते चिनोतु चिनुताम् अचिनोत् अचिनुत चिनुयात् चिन्वीत ) आशिषि ( चीयात् चेषीष्ट अचैषीत् अंचेष्ट चिचीषति चिकीषति ) लिटि कुत्वविकल्पः ( चेचेति चाययति चापयति ) "चिस्फुरोर्णौ" इत्यात्व पक्षे (प्रणिचिर्नोति) "नेर्गद" इति णत्वम् (निकाय्यः)"पाय्यसान्नाय्य'' इत्यादिना निवासे ण्यदायादेशावादिकत्वं निपात्यते (संचाय्यः)क्रतुः (परिचाय्यो) अग्निः, (उपचाय्यश्च" "क्रतौ कुण्डपाय्यसञ्चाय्यौ'' "अग्नौ परिचाय्योपचाय्यसमूह्याः'' इति ण्यदायादेशयोर्निपात्यते निवासादिभ्योऽन्यत्र यति ( चेयम् ) इत्यादि (चित्यो) अग्निः ( अग्निचित्वा ) (अग्निचित्या)वर्त्तते "चित्याग्निचित्ये च'' इति कर्मणि भावे यथाक्रमं निपात्येते तत्राद्यस्य यति तुक्, अन्यस्य ये तुक्, तेनात्रोदात्तत्वं भवति अयं स्वभावात्सत्रीलिङ्गः ( अग्निचित् ) "अग्नौ चेः'' इति कर्मण्युपपदे भूते क्विप् श्येनश्चीयते ( श्येनचित् ) श्येनशब्दस्यत्सदृशेष्टकाचये उपचारेण वर्त्तते "कर्मण्यग्नाख्यायाम्'' इति कर्मण्युपपदे तस्मिन्नेवार्थे ऽग्न्याख्यायां त्रैकालिकः क्विप् आख्याग्रहणं रूढ्यर्थं, श्येनाग्न्यर्थ इष्टकाचयः श्येनचिच्छब्देनोच्यते ( निश्चयः ) "ग्रहवृदृनिश्चिगमश्च'' इति निश्चेरप् अचोऽपवादः ( एकस्तन्दुलनिचायः ) इत्यत्र "परिमाणाख्यायां सर्वेर्भ्ये इति घञ् कथमेकोऽपि तव निश्चय इति, पदसंस्कारेणेति भागवृतिः ( पुष्पप्रचायः ) "हस्तादाने चेरस्तेयः'' इति घञ् इस्तादानग्रहणेन प्रत्यासत्तिर्लक्ष्यते अन्यत्र वृक्षशिखरे (फलप्रचयं) करोतीति अजेव "अस्तेय' इति वचनाच्चौर्ये प्रत्यासत्तावप्येरजेव चौर्येण ( पुष्पप्रचयः ) इति निचीयन्तेऽस्मिन्निति ( निकायः ) ग्रामगृहादिः आचीयन्तेऽस्मिन्निष्टका इति ( आकायोऽग्निः )चीयन्तेऽस्मिन्नस्थादीनीति ( कायः ) शरीरम् गोमयानांमेकत्र राशीकरणं ( गोमयनिकायः ) "निवासचितिशरीरोपसमाधानेष्वादेश्च कः'' इति घञादिकत्वं निवसन्त्यस्मिन्निति (निवासः) चीयतेऽसौ (चितिः) शरीरं, पाण्यादिसमुदायः उपसमाधानं राशीकरणम्, असौ धात्वर्थः, अन्यानि प्रत्ययार्थस्य कारकस्योपाधिभूतानि इष्टकनिचय इत्यत्र ग्रहण ( 1 ) ( 1 ) बहुलमात्रमिति पुस्तकान्तरे पाठः मात्रं विवक्षितं नोपसमाधानमित्यजेव भवति ( भिक्षुनिकायः, )"संघे चानौत्तराधर्ये'' इति घञ्, आदिकत्वं च, प्राणिनां समूहः संघः, द्वेधा भवति एकधर्मसमावेशेन औत्तराधर्येण च, तत्रानौत्तराधर्यइति पर्युदासादितरो गृह्यत इत्यौत्तराधर्येऽजेव, ( सूकरनिचय ) इति संघस्य प्राणिसमुदायलक्षणत्वात् प्रमाणाप्रमाणसमुच्चय इत्यत्राप्यजेव ) चितिः ) क्तिन् ( द्विचितीकः ) "शेषाद्विभाषा'' इति कप् "चितेः कपि'' इति पूर्वपदस्य दीर्घः, आचितं सम्भवत्यवहरति पचति वा ( अचितीनः आचितिकः ) "आढकाचितपात्रात् खोऽन्यतरस्याम्'' इति खठञौ ( द्व्याचितिकः, द्व्यचितः, द्व्याचितीनः, ) "द्विगोष्ठंश्च'' इति सम्भवत्यादिषु ष्ठनु, चकारात् खः षकारो ङीषर्थः अन्यतरस्यां ग्रहणानुवृत्त्या "अध्यर्द्धपूर्वाद्विगोः'' इत्यस्य लुक् "द्विगोः''इति ङीषो "परिमाणबिस्त'' इति निषेधः ष्ठन्खयोर्विधानसामर्थ्यान्न लुक् शाकटो भार ( आचिकः चित्रम् ) औणादिकः क्रः ( चित्रीयते ) "नमोवरिवश्चित्रङःक्यच्'' इति क्यच् चित्रङ् आश्चर्य इति वृत्तिः ङित्त्वात्तङ् 5
चिञ् (अर्थः) चयने
ञित्करणात्कर्त्रभिप्राये तङ्विध्यर्थाण्णिजस्य विकल्पेन भवति, णिचि "चिस्फुरोर्णौ'' इत्यात्वं पक्षे भवति तत्र पुकि मित्त्वात्तस्यह्रस्व इति ( चपयति चययति ) अणिचि चयति, चयते इति भवति अत्र काश्यप इकारोच्चारणसामर्थ्यादात्वं नेति तच्चिन्त्यम्, आत्वस्य वैकल्पिकत्वात्तदभावे वृद्ध्यान्ह्रस्वेषु चयतीति रूपसिध्यर्थत्वात्तस्य, तथा णिजभावे गुणायोश्चयतीति रूपार्थत्वाच्च रहत्यादयो यद्यप्यत्र मैत्रेयादिभिर्न पठितास्तथापि काश्यपादिप्रामाण्यादस्माभिः पठिताः चिनोतीति स्वादेः "नान्ये मितोऽहेतौ'' ज्ञपादिव्यतिरिक्ता अहेतुमण्णौ मितो भवन्ति तेन ज्ञपादिव्यतिरिक्तानां चौरादिकानां शमादीनां "जनीजॄष्क्नसुरञ्जोऽमन्ताश्च'' इत्यादिना सामान्यलक्षणेन प्राप्तं मित्त्वं भवति 95
कृदन्तरूपमाला
Sanskrit
1 {@“चिञ् चयने”@} 2 चायकः-यिका, 3 चापकः-पिका-चायका-यिका, चिकीषक 4 ः-चिचीषकः-षिका, चेचीयक 5 ः-यिका
6 चेता-त्री, 7 प्रणिचेता-त्री, चापयिता-चाययिता-त्री, चिकीषिता-चिचीषिता-त्री, चेचीयिता-त्री
8 चिन्वन्-ती, चापयन्-चाययन्-निश्चापयन्- 9 न्ती, चिकीषन्-चिचीषन्-न्ती
चेष्यन्-न्ती-ती, चापयिष्यन्-चाययिष्यन्-न्ती-ती, चिकीषिष्यन्-चिचीषिष्यन्-न्ती-ती
-- 10 चिन्वानः, चापयमानः-चाययमानः, चिकीषमाणः-चिचीषमाणः, चेचीयमानः
चेष्यमाणः, चापयिष्यमाणः-चाययिष्यमाणः, चिकीषिष्यमाणः-चिचीषिष्यमाणः, चेचीयिष्यमाणः
चित्-चिद्-चितौ-चितः, 11 अग्निचित् 12, श्येनचित् 13, कङ्कचित्, रथचक्रचित्
चितम्-तः, 14 इष्टकचितम्-पक्वेष्टचितम्, चापितः-चायितः, चिकीषितः-चिचीषितः, चेचीयितः-तवान्
चयः, 15 सुचायी, चापः-चायः, चिकीषुः-चिचीषुः, 16 चेच्यः
17 चेतव्यम्, चापयितव्यम्-चाययितव्यम्, चिकीषितव्यम्-चिचीषितव्यम्, चेचीयितव्यम्
चयनीयम्, चापनीयम्-चायनीयम्, चिकीषणीयम्-चिचीषणीयम्, चेचीयनीयम्
चेयम्, 18 निकाय्यः, 19 20 संचाय्यः, 21 परिचाय्यः, 22 उपचाय्यः, चित्या, 23 24 अग्निचित्या, चाप्यम्-चाय्यम्, चिकीष्यम्-चिचीष्यम्, चेचीय्यम्
ईषच्चयः-दुश्चयः-सुचयः
-- -- चीयमानः, चाप्यमानः-चाय्यमानः, चिकीष्यमाणः-चिचीष्यमाणः, चेचीय्यमानः
25 पुष्पप्रचायः, 26 फलोच्चायः, पुष्पप्रचयः, 27 तण्डुलनिचायः, 28 एकनिश्चायः, 29 प्रचयः, निश्चयः 30 31 शिलोच्चयः, 32 रक्षोनिकायः, 33 काशीनिकायः, आकायः, कायः, गोमयनिकायः, भिक्षुनिकायः, सूकरनिचयः 34, 35 अपचायः, 36 चायः, चापः-चायः, चिकीषः-चिचीषः, चेचीयः
चेतुम्, चापयितुम्-चाययितुम्, चिकीषितुम्-चिचीषितुम्, चेचीयितुम्
चितिः, 37 पुष्पप्रचायिका, चापना-चायना, चिकीषा-चिचीषा, चेचीया
चयनम्, चापनम्-चायनम्, चिकीषणम्-चिचीषणम्, चेचीयनम्
चित्वा, चापयित्वा-चाययित्वा, चिकीषित्वा-चिचीषित्वा, चेचीयित्वा
सञ्चित्य, प्रचाप्य-प्रचाय्य, प्रचिकीष्य-प्रचिचीष्य, प्रचेचीय्य
चायम् चित्वा चापम् २-चायम् २, चापयित्वा २-चाययित्वा २, चिकीषम्२-चिचीषम् २, चिकीषित्वा चिचीषित्वा २, चेचीयम्
चेचीयित्वा
38 इति क्त्रप्रत्ययः।
चिनोति, चीयते वा तदिति चित्रम् = नानाकारलेख्यम्, अद्भुतं च।]] चित्रम्।
39
प्रासङ्गिक्यः
01
=>
(५१९)
02
=>
(५-स्वादिः-१२५१। सक। अनि। उभ।)
03
=>
[[२। ‘चिस्फुरोर्णौ’ (६-१-५४) इत्यात्वं णौ वा भवति। आत्वपक्षे, ‘अर्तिह्री--’ (७-३-३६) इत्यादिना पुगागमे ‘णेरनिटि’ (६-४-५१) इति णिलोपे रूपम्। पुगभावपक्षे, वृद्धौ, आयादेशे चायकः इति रूपम्। एवं ण्यन्ते सर्वत्र रूपद्वयं ज्ञेयम्।]]
04
=>
[[३। ‘विभाषा चेः’ (७-३-५८) इति सनि अभ्यासात् परस्य कुत्वम्। कुत्वस्य वैकल्पिकत्वात् पक्षे चिचीषकः इति रूपम्। एवं सन्नन्ते सर्वत्र रूपद्वयं बोध्यम्।]]
05
=>
[[४। यङि परतः, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[पृष्ठम्०५०२+ २५]
07
=>
[[१। ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोति देग्धिषु च’ (८-४-१७) इति नित्यं नेर्णत्वम् भवति।]]
08
=>
[[२। ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुः विकरणप्रत्ययः। ‘इको यणचि’ (६-१-७७) इति यण्। एवं ‘चिन्वानः’ इत्यत्रापि ज्ञेयम्।]]
09
=>
[[आ। ‘विस्मापयित्री जनमुग्रसेनजं द्राग् भापयित्री भृशमस्य पञ्चताम्। निश्चापयन्ती निकटे तदा वियत्युच्चैरुदस्थादशरी रिणीति गीः।।’ वा। वि। १-३८।]]
10
=>
[[B। ‘गता स्यादवचिन्वाना कुसुमान्याश्रमद्रुमान्।’ भ। का। ६-१०।]]
11
=>
[[३। ‘अग्नौ चेः’ (३-२-९१) इति भूते कर्मणि क्विप्। अग्निं चितवान् इत्यर्थः।]]
12
=>
[[C। ‘अग्निचित् सोमसुत् राजा रथचक्रचिदादिषु। अनलेष्विषृवान् कस्मान्न त्वयाऽपेक्षिअः पिता।।’ भ। का। ६-१२८।]]
13
=>
[[४। ‘कर्मण्यग्न्याख्यायाम्’ (३-२-९२) इति भूते कर्मणि क्विप्। धातूपपदप्रत्ययसमुदायेन अग्न्याधारस्थलविशेषश्चेद् गम्यते। यथा--श्येन इव चीयते श्येनचित्, कङ्क इव चीयते कङ्कचित्।]]
14
=>
[[५। ‘इष्टकेषीकामालानां चिततूलभारिषु’ (६-३-६५) इति पूर्वपदस्य ह्रस्वः। पदाङ्गाधिकारे तस्य तदन्तस्य च’ (परिभाषा-३०) इति न्यायात् पक्वेष्टक- चितम् इत्यपि भवति।]]
15
=>
[[६। ताच्छील्ये णिनिः। ‘उपसर्गादृति--’ (६-१-९१) इति सूत्रे भाष्ये प्रयोगात्।]]
16
=>
[[७। यङो लुकि, ‘न धातुलोप--’ (१-१-४) इति निषेधाद् गुणाभावे ‘एरनेकाचः--’ (६-४-८२) इति यणि रूपम्।]]
17
=>
[पृष्ठम्०५०३+ २५]
18
=>
[[आ। ‘न प्राणाय्यो जनः कश्चित् निकाय्यं तेऽधितिष्ठति, भ। का। ६-६७।]]
19
=>
[[१। निचीयतेऽस्मिन् धान्यादिकम् इति निकाय्यः = निवासः। अधिकरणे यत्। ‘पाय्यसान्नाय्यनिकाय्यधाय्यामानहविर्निवाससामिधेनीषु’ (३-१-१२९) इत्यनेन ण्यति, आयादेशे धात्वादेः ककारश्च निपात्यते।]]
20
=>
[[२। संचीयतेऽसौ संचाय्यः = क्रतुविशेषः। कर्मणि ण्यत्। ‘क्रतौ कुण्डपाय्य- सञ्चाय्यौ’ (३-१-१३०) इत्यनेन ण्यदायादेशौ निपात्येते।]]
21
=>
[[‘३। अग्नौ परिचाय्योपचाय्यसमूह्याः’ (३-१-१३१) इति ण्यदायादेशौ निपात्येते अग्न्याधारस्थलविशेषस्य एवं नाम।]]
22
=>
[[B। ‘कथाभी रमसे नित्यमुपचाय्यवतां शुमे।।’ भ। का। ६। ६८।]]
23
=>
[[४। चीयतेऽसौ चित्यः = अग्निः। कर्मणि यत्प्रत्यये निपातनात् तुक्। अग्नेः चयनमग्निचित्या। भावे यत्प्रत्ययः, निपातनात् तुक् च। ‘चित्याग्नि- चित्ये च’ (३-१-१३२) इति निपातितौ। अग्निचित्या इत्यत्र स्त्रीत्वं स्वभावात्।]]
24
=>
[[C। ‘कुण्डपाय्यवतां कच्चिदग्निचित्यावतां तथा।’ भ। का। ६-६८।]]
25
=>
[[५। ‘हस्तादाने चेरस्तेये’ (३-३-४०) इति घञ्, अजपवादः। ‘अस्तेये’ इत्युक्तत्वात् चौर्येण आदाने ‘एरच्’ (३-३-५६) इत्यजेव। पुष्पप्रचयः इति यथा।]]
26
=>
[[ड्। ‘निशोपशायः कर्तव्यः फलोच्चायश्च संहतैः।।’ भ। का। ७-४१।]]
27
=>
[[६। ‘परिमाणाख्यायां सर्वेभ्यः’ (३-३-२०) इति घञ्। अजपवादः। एवं एक- निश्चायः इत्यत्रापि परिमाणार्थकत्वात् घञेव।]]
28
=>
[[E। ‘ततः कपिसमाहारमेकनिश्चायमागतम्।’ भ। का। ७-३४।]]
29
=>
[पृष्ठम्०५०४+ २९]
30
=>
[[१। ‘ग्रहवृदृनिश्चिगमश्च’ (३-३-५८) इति अप्। अचोऽपवादः। स्वरे भेदः।]]
31
=>
[[आ। ‘भ्रेमुः शिलोच्चयांस्तुङ्गाम् उत्तेरुरतरान् नदान्। आशंसवो लवं शत्रोः सीतायाश्च विनिश्चयम्।।’ भ। का। ७-५५।]]
32
=>
[[B। ‘सीता रक्षोनिकायेषु स्तोककायैश्छलेन च। मृग्या शत्रुनिकायानां व्यावहासीमनाश्रितैः।।’ भ। का। ७-४२।]]
33
=>
[[२। ‘निवासचितिशरीरोपसमाधानेष्वादेश्च कः’ (३-३-४१) इति घञ्। धात्वादेः ककारश्च। निवासे--काशीनिकायः। चितिः = चयनम्-आकायः। आची- यतेऽस्मिन् इष्टका इत्याकायः। ‘आकायमग्निं चिन्वीत’ इति विधिः। शरीरे-कायः। चीयतेऽस्मिन् अस्थ्यादिकम् इति कायः = शरीरम्। यद्वा, चीयते = आर्ज्यते सुखदुःखादिकं कर्मानेनेति कायः। करणे घञ्। उपसमा- धानम् = राशीकरणम्। तत्र यथा--गोमयनिकायः-गोमयसमूह इति यावत्।]]
34
=>
[[३। ‘सङ्घे चानौत्तराधर्ये’ (३-३-४२) इति घञ्। ‘अनौत्तराधर्ये’ इत्युक्तत्वात् सूकरनिचयः इत्यत्र अजेव।]]
35
=>
[[C। ‘करतलैरपचायमथेक्षणैरपचयं वनेषु जनेषु च।’ चम्पूरामायणे ४-३।]]
36
=>
[[ड्। ‘व्रीहेस्त्रयोऽत्र चायाः तिलस्य खारीमितः प्रचायोऽयम्। इति संख्यामानाभ्यां प्रमितत्वे ऽन्यत्र पश्य धान्यचयम्।।’ इति प्रक्रिया- सर्वस्वे।]]
37
=>
[[४। ‘संज्ञायाम्’ (३-३-१०९) इति स्त्रियां भावे ण्वुल्।]]
38
=>
[[५। ‘अमिचिमि--’ [द।-उ। ८-८६]
39
=>
[पृष्ठम्०५०५+ २४]
1 {@“चिञ् चयने”@} 2 ज्ञापादिः मित्संज्ञकश्च।
3 अस्य धातोः ञित्करणसामर्थ्याण्णिचो वैकल्पिकत्वं बोध्यते।
णिजभावपक्षेऽपि शतृ-शानचौ भवतः ञित्करणात्।
णिजभावपक्षे धातोः हलादित्वात् एकाच्त्वाच्च यङि--चेचीयकः इत्यादीनि सर्वाण्यपि रूपाणि स्वादिगणपठितचिनोतेरिव 4 बोध्यानि।
तथा सन्नन्तेऽपि चिचीषकः-षिका, चिकीषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि ज्ञेयानि।]] 5 चपकः-पिका, चयकः-यिका, चिचपयिषकः-चिचययिषकः-षिका, 6 चायकः-यिका
चपयिता-चययिता-त्री, चिचपयिषिता-चिचययिषिता-त्री, चेता-त्रीः
7 प्रणिचपयन्-प्रनिचययन्-न्ती, चिचपयिषन्-चिचययिषन्-न्ती, चयन्-न्ती
चपयिष्यन्-चययिष्यन्-न्ती-ती, चिचपयिषिष्यन्-चिचययिषिष्यन्-न्ती-ती, चेष्यन्-न्ती-ती
चपयमानः-चययमानः, चिचपयिषमाणः-चिचययिषमाणः, चयमानः
चपयिष्यमाणः-चययिष्यमाणः, चिचपयिषिष्यमाणः-चिचययिषिष्यमाणः, चेष्यमाणः
8 विचत्-विचतौ-विचतः, चप्-चपौ-चपः
चपितः-चयितः, चिचपयिषितः-चिचययिषितः, चितम्-तः-तवान्
चपः-चयः, चिचपयिषुः-चिचययिषुः, चयः
चपयितव्यम्-चययितव्यम्, चिचपयिषितव्यम्-चिचययिषितव्यम्, चेतव्यम्
चपनीयम्-चयनीयम्, चिचपयिषणीयम्-चिचययिषणीयम्, चयनीयम्
9 चप्यम्-चय्यम्, चिचपयिष्यम्-चिचययिष्यम्, चेयम्
ईषच्चयः-दुश्चयः-सुचयः, ईषच्चपः-दुश्चपः-सुचपः
चप्यमानः-चय्यमानः, चिचपयिष्यमाणः-चिचययिष्यमाणः चीयमानः
चपः-चयः, चिचपयिषः-चिचययिषः, चयः
चपयितुम्-चययितुम्, चिचपयिषितुम्-चिचययिषितुम्, चेतुम्
चपना-चयना, चिचपयिषा-चिचययिषा, चितिः
चपनम्-चयनम्, चिचपयिषणम्-चिचययिषणम्, चयनम्
चपयित्वा-चययित्वा, चिचपयिषित्वा-चिचययिषित्वा, चित्वा
10 संचपय्य-संचयय्य, प्रचिचपयिष्य-प्रचिचययिष्य, प्रचित्य
11 चापम् -चपम् २, चपयित्वा २, चिचपयिषम् -चिचययिषम् २, चिचपयिषित्वा -चिचययिषित्वा २, चायम्
चित्वा २। चायम् -चयम् -चययित्वा २, चिचपयिषम् -चिचययिषम् २, चिचपयिषित्वा -चिचययिषित्वा २, चित्वा २।
प्रासङ्गिक्यः
01
=>
(५२०)
02
=>
(१०-चुरादिः-१६३०। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(५१९)
05
=>
[[१। ‘चिस्फुरोर्णौ’ (६-१-५४) इत्यात्वविकल्पः। आत्वपक्षे, आदन्तलक्षणे पुगागमे, ज्ञपादिपञ्चकपाठेन मित्त्वात्, णौ उपधायाः ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः। आत्वाभावपक्षे, वृद्धौ, आयादेशे ह्रस्वे रूपम्। एवं ण्यन्ते सर्वत्र रूपद्वयस्यो- पपत्तिर्ज्ञेया।]]
06
=>
[[२। ञित्करणसामर्थ्याण्णिचो वैकल्पिकत्वेन णिजभावपक्षे शुद्धाद्धातोः चायकः-यिका इत्यादीनि रूपाणि प्रदर्शितानि।]]
07
=>
[[३। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति नेः णत्वविकल्पः।]]
08
=>
[[४। अत्र यकारस्य वलि लोपे, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुगागमः। स्थानिवद्भावः शङ्क्यः
\n\n यलोपे तन्निषेधात्।]]
09
=>
[पृष्ठम्०५०६+ २३]
10
=>
[[१। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
11
=>
[[२। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
Capeller
German
चिञ् = 1. चि (g.)