| YouTube Channel

चिच्छायापत्ति (cicchAyApatti)

 
वाचस्पत्यम्
Sanskrit
चिच्छायापत्ति स्त्री चिति वृद्ध्यादेः, बुद्ध्यादौ वा चितेःछाया प्रतिविम्बः तस्या आपत्तिः सांख्यमते चितौबुद्ध्यादेः प्रतिविम्बप्राप्तौ वेदान्तिमते बुद्ध्यादौ चितःप्रतिविम्बनप्राप्तौ चित्प्रतिविम्बस्वीकारश्च सोप-पत्तिकः “अन्तःकरणस्य तदुज्ज्वलितत्वाल्लोहवदधि-ष्ठातुत्वम्” सां० सू० भाष्ये समर्थितस्तच्च वाक्यं १९५ ।९६ पृ० उक्तम् ततः शेषन्तु “ननु प्रतिबिम्बहेतुतयासंयोगविशेषावश्यकत्वे प्रतिविम्बकल्पना व्यर्था प्रतिविम्ब-कार्य्यस्यार्थज्ञानादेः संयोगविशेषादेव सम्भवादिति मैव-म् बुद्धौ चैतन्यप्रतिबिम्बश्चैतन्यदर्शनार्थं कल्प्यते दर्पणेमुखप्रतिविम्बवत् अन्यथा कर्मकर्तृविरोधेन स्वस्य सा-क्षात् स्वदर्शनानुपपत्तेः अयमेव चित्प्रतिविम्बो बुद्धौचिच्छायापत्तिरिति चैतन्याध्यास इति चिदावेश इतिचोच्यते यश्च चैतन्ये बुद्धेः प्रतिविम्बः चारूढ-विषयैः सह बुद्धेर्भानार्थमिष्यते अर्थाकारतयैवार्थ-ग्रहणस्य बुद्धेरन्यत्र स्थले दृष्टत्वेन तां विना संरोगवि-शेषमात्रेणार्थभानस्य पुरुषेऽप्यनौचित्यात् अर्थाकार-स्यैवार्थग्रहणशब्दार्थत्वाच्चेति चार्थाकारः पुरुषेपरिणामो सम्भवतीत्यर्थात् प्रतिविम्बरूप एव पर्यव-स्यतीति दिक् चायमन्योऽन्यप्रतिबिम्बो योगभाष्येव्यासदेवैः सिद्धान्तितः “चितिशक्तिरपरिणामिन्यप्रति-संक्रमा परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनु-पतति तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनु-कारिमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्या-ख्यायत” इत्यादिना ।अन्तःकरणस्यैकत्वेऽपि वृत्तिभेदाद्भेदः सा० प्र० भाष्येसमर्थितस्तद्वाक्यञ्च अन्तःकरणशब्दे १९५ पृ० उक्तम्