| YouTube Channel

चिचेतयिषा (cicetayiSA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“चित सञ्चेतने”@} 2 आकुस्मीयः।
‘-- -- चिन्तयेत्।
स्मृत्यां, चेतति संज्ञाने, तत्र चेतयते णिचि।।’ 3 इति देवः।
सञ्चेतनम् = संज्ञानम्।
चेतकः-तिका, चिचेतयिषकः-षिका
चेतयिता-त्री, चिचेतयिषिता-त्री
4 5 चेतयमानः, 6 चिचेतयिषमाणः
चेतयिष्यमाणः, चिचेतयिषिष्यमाणः
चेत्-चेतौ-चेतः
-- -- -- चेतितम्-तः, चिचेतयिषितः-तवान्
चेतः, 7 चेतयः, 8 चेतनः, चिचेतयिषुः
चेतयितव्यम्, चिचेतयिषितव्यम्
चेतनीयम्, चिचेतयिषणीयम्
चेत्यम्, चिचेतयिष्यम्
ईषच्चेतः-दुश्चेतः-सुचेतः
चेत्यमानः, चिचेतयिष्यमाणः
चेतः, चिचेतयिषः
चेतयितुम्, चिचेतयिषितुम्
चेतना, चिचेतयिषा
चेतनम्, चिचेतयिषणम्
चेतयित्वा, चिचेतयिषित्वा
प्रचेत्य, प्रचिचेतयिष्य
चेतम् २, चेतयित्वा २, चिचेतयिषम्
चिचेतयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(५२२)
02
=>
(१०-चुरादिः-१६७४। सक। सेट्। आत्म।)
03
=>
(श्लो। ९४)
04
=>
[पृष्ठम्०५०७+ २४]
05
=>
[[१। ‘आ कुस्मादात्मनेपदिनः’ (ग। सू। चुरादौ) इति ण्यन्तादात्मनेपदमेव।]]
06
=>
[[आ। ‘केचित् सर्वचुरादीनामनित्यण्यन्ततां जगुः। येसां विकल्पचिह्नं स्यत् तेसामेवेति माधवः।।’ इति धातुकाव्यव्याख्याने ३-१३।]]
07
=>
[[२। ‘अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च’ (३-१-१३८) इति कर्तरि शप्रत्ययः। गुणायादेशौ।]]
08
=>
[[३। बाहुलकात् नन्द्यादित्वेन (३-१-१३४) कर्तरि ल्युः। चेतनः = जीवः।]]