| YouTube Channel

चिख्यासम्- (cikhyAsam-)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ख्या प्रकथने”@} 2 “अयं सार्वधातुकमात्रविषयः।
‘सस्थानत्वम्
नमः ख्यात्रे’ 3 इति वार्तिकम्, तद्भाष्यञ्चेह लिङ्गम्।
सस्थानः = जिह्नामूलीयः, नेति ख्याञादेशस्य ख्शादित्वे प्रयोजनमित्यर्थः।
‘सम्पूर्वस्य ख्यातेः प्रयोगो न’ इति न्यासकारः।” इति सिद्धान्तकौमुदी।
‘असति बाधके प्रमाणानां सामान्ये पक्षपातः’ इति न्यायमाश्रित्य, आर्धधातुकमात्रेऽनभिधानमङ्गी- क्रियते।
4 वस्तुतस्तु, ‘न ध्याख्यापॄमूर्च्छिमदाम्’ 5 इति सूत्रे ख्या- ग्रहणेन, आर्धधातुकेऽपि प्रयोगोऽभ्युपगन्तव्यो भवति।
अत एव ‘ख्याञादेशे न’ 6 इत्येवोक्तम्।
तु, एतत्साधारण्येन, ‘ख्याशब्दे न’ इति।
अतः, आर्धधातुकेऽपि रूपाणि प्रदर्श्यन्ते।
धातुरूपप्रकाशिकायामपि, आर्धधातुकविषयेऽपि रूपाण्यस्य धातोः प्रदर्शितानि।
‘नमः ख्यात्रे’ 7 इति भाष्यवार्तिकपर्यालोचनया, तृजन्ते परमनभिधानं कल्प्यते।
8 ख्यायकः-यिका, 9 ख्यापकः-पिका, चिख्यासकः-सिका, चाख्यायकः-यिका
-- ख्यापयिता-त्री, चिख्यासिता-त्री, चाख्यायिता-त्री
10 ख्यान्-न्ती 11 -ती, ख्यापयन्-न्ती, चिख्यासन्-न्ती
-- ख्यास्यन्-न्ती-ती, ख्यापयिष्यन्-न्ती-ती, चिख्यासिष्यन्-न्ती-ती
-- -- ख्यापयमानः, ख्यापयिष्यमाणः, चाख्यायमानः, चाख्यायिष्यमाणः
आख्याः-आख्यौ-आख्याः
-- -- 12 ख्यातम्-तः-तवान्, ख्यापितः, चिख्यासितः, चाख्यायितः-तवान्
13 गोप्रख्यायः, 14 गोसंख्यः, 15 गोख्यः, 16 ख्यायः, 17 गोख्यायो 18, ख्यापः, 19 आचिख्यासुः, 20 चाख्याः
ख्यातव्यम्, ख्यापयितव्यम्, चिख्यासितव्यम्, चाख्यायितव्यम्
ख्यानीयम्, ख्यापनीयम्, चिख्यासनीयम्, चाख्यायनीयम्
21 ख्येयम्, ख्याप्यम्, चिख्यास्यम्, चाख्याय्यम्
22 ईषत्ख्यानः-दुष्ख्यानः-सुख्यानः
-- -- ख्यायमानः, ख्याप्यमानः, चिख्यास्यमानः, चाख्याय्यमानः
ख्यायः, ख्यापः, चिख्यासः, चाख्यायः
ख्यातुम्, ख्यापयितुम्, चिख्यासितुम्, चाख्यायितुम्
ख्यातिः, 23 आख्या, 24 प्रख्यातिः, ख्यापना, चिख्यासा, चाख्याया
25 प्रख्यानम्, ख्यापनम्, चिख्यासनम्, चाख्यायनम्
ख्यात्वा, ख्यापयित्वा
चिख्यासित्वा, चाख्यायित्वा
आख्याय, आख्याप्य, प्रचिख्यास्य, प्रचाख्याय्य
ख्यायम् २, ख्यात्वा २, ख्यापम् २, ख्यापयित्वा २, चिख्यासम् २, चिख्यासित्वा २, चाख्यायम्
चाख्यायित्वा
26 इत्यनेन इण्प्रत्यये, डिद्वद्भावे यलोपे रूपम्।
समानशब्दस्य सभावश्च।
समानं ख्यायते इति सखा = मित्रम्।]] सखा-सखायौ-सखायः।
प्रासङ्गिक्यः
01
=>
(३६५)
02
=>
(२-अदादिः-१०६०। सक। अनि। पर।)
03
=>
(वा। २-४-५४)
04
=>
[पृष्ठम्०३६१+ २७]
05
=>
(८-२-५७)
06
=>
(वा। ८-३-६)
07
=>
(वा। २-४-५४)
08
=>
[[१। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञि णमुलि युगागमो ज्ञेयः।]]
09
=>
[[२। ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ’ (७-३-३६) इति पुगागमः। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
10
=>
[[३। आदादिकत्वात्, ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति शपो लुक्। सवर्ण- दीर्घः। ‘उगिदचाम्--’ (७-१-७०) इति नुम्। स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुम्विकल्पः।]]
11
=>
[[आ। ‘ख्यान्त्यः कथाः प्राणमुदां पतीनां निर्मान्त्य इष्टानि चटून् वचत्यः। नार्यों विदित्वोपगमं मुरारेरासन् गता राजपथं सुमृष्टम्।।’ धा। का। २-५०।]]
12
=>
[[४। ‘न ध्याख्यापॄमूर्च्छिमदाम्’ (८-२-५७) इति निष्ठानत्वनिषेधः।]]
13
=>
[[५। ‘कर्मण्यण्’ (३-२-१) इत्यणि युगागमः।]]
14
=>
[[६। ‘समि ख्यः’ (३-२-७) इति कर्तरि कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः।]]
15
=>
[[७। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्तरि कः। आकारलोपः।]]
16
=>
[[८। ‘श्याद्व्यधाश्रु--’ (३-१-१४१) इत्यादिना कर्तरि णप्रत्ययः। युगागमः।]]
17
=>
[[९। ‘अण् कर्मणि च’ (३-३-१२) इति भविष्यत्यर्थे क्रियाफलकक्रियायामण्।]]
18
=>
[व्रजति]
19
=>
[पृष्ठम्०३६२+ २४]
20
=>
[[१। ‘यङोऽचि च’ (२-४-७४) इति यङ्O लुकि, सवर्णदीर्घे रुत्वविसर्गौ भवतः।]]
21
=>
[[२। ‘अचो यत्’ (३-१-९७) इति यति, ‘ईद्यति’ (६-४-६५) इति ईकारादेशे, गुणे रूपम्।]]
22
=>
[[३। ‘आतो युच्’ (३-३-१२८) इत्यनेन, ईषदाद्युपपदेषु खलपवादो युच्।]]
23
=>
[[४। ‘आतश्चोपसर्गे’ (३-३-१०६) इति स्त्रियामङ्।]]
24
=>
[[५। प्रकृष्टा सा ख्यातिश्च = प्रख्यातिः। तेन, ‘आतश्चोपसर्गे’ (३-३-१०६) इत्यङ् न।]]
25
=>
[[६। ‘लुब्योगाप्रख्यानात्’ (१-२-५४) इति निर्देशात्, ‘कृत्यचः’ (८-४-२९) इति णत्वं न। ‘ख्शाञः शस्य यो वा’ (वा। ८-४-४०) इति वार्तिकादपि णत्वं नेति वक्तुं शक्यम्।]]
26
=>
[[७। ‘समाने ख्यः चोदात्तः’ [द। उ। १-६५]
1 {@“चक्षिङ् व्यक्तायां वाचि”@} 2 “अयं दर्शनकर्मा
यथा-- ‘विश्वा रूपाऽभिचष्टे शचीभिः।’ इति।
प्रायेणायमाङ्पूर्वः।” इति माधवधातुवृत्तिः।
3 ख्यायकः- 4 यिका-क्शायकः-यिका, 5 ख्यापकः-पिका, क्शापकः-पिका, 6 चिख्यासकः-सिका, चिक्शासकः-सिका, चाख्यायकः-यिका, चाक्शायकः-यिका
ख्याता-क्शाता-त्री, ख्यापयिता-क्शापयिता-त्री, चिख्यासिता-चिक्शासिता-त्री चाख्यायिता-चाक्शायिता-त्री
-- ख्यापयन्-क्शापयन्-न्ती, 7 चिख्यासन्-चिक्शासन्-न्ती
--, ख्यास्यन्-क्शास्यन्-न्ती-ती, ख्यापयिष्यन्-क्शापयिष्यन्-न्ती-ती, चिख्यासिष्यन्-चिक्शासिष्यन्-न्ती-ती
8 आचक्षाणः, ख्यापयमानः-क्शापयमानः, चिख्यासमानः-चिक्शासमानः, चाख्यायमानः-चाक्शायमानः
ख्यास्यमानः-क्शास्यमानः, ख्यापयिष्यमाणः-क्शापयिष्यमाणः, चिख्यासिष्य- माणः-चिक्शासिष्यमाणः, चाख्यायिष्यमाणः-चाक्शासिष्यमाणः
आख्याः-आख्यौ-आख्याः
-- -- 9 10 ख्यातम्-क्शातम्-तः-तवान्, ख्यापितः-क्शापितः, चिख्यासितः-चिक्शा-सितः, चाख्यायितः-चाक्शायितः-तवान्
11 गोप्रख्यायः-गोप्रक्शायः, 12 गोसङ्ख्यः, 13 गोख्यः, 14 ख्यायः, 15 गोख्यायः, 16 आख्यायको 17 18, 19 सुप्रख्यः 20 प्रख्यः, 21 स्त्र्याख्यः, 22 विचक्षणः, ख्यापः-क्शापः, चिख्यासुः-चिक्शासुः, चाख्याः-चाक्शाः
ख्यातव्यम्-क्शातव्यम्, ख्यापयितव्यम्-क्शापयितव्यम्, चिख्यासितव्यम्- चिक्शासितव्यम्, चाख्यायितव्यम्-चाक्शायितव्यम्
23 ख्यानीयम्-क्शानीयम्, ख्यापनीयम्-क्शापनीयम्, चिख्यासनीयम्-चिक्शासनीयम्, चाख्यायनीयम्-चाक्शायनीयम्
24 ख्येयम्-क्शेयम्, 25 सञ्चक्ष्यः 26, ख्याप्यम्-क्शाप्यम्, चिख्यास्यम्-चिक्शास्यम्, चाख्याय्यम्-चाक्शाय्यम्
27 ईषत्ख्यानः- 28 दुष्ख्यानः-सुख्यानः
ईषत्क्शानः-दुष्क्शानः-सुक्शानः
ख्यायमानः-क्शायमानः, ख्याप्यमानः-क्शाप्यमानः, चिख्यास्यमानः-चिक्शास्यमानः, चाख्याय्यमानः-चाक्शाय्यमानः
ख्यायः-क्शायः, ख्यापः-क्शापः, चिख्यासः-चिक्शासः, चाख्यायः-चाक्शायः
ख्यातुम्-क्शातुम्, ख्यापयितुम्-क्शापयितुम्, चिख्यासितुम्-चिक्शासितुम्, चाख्यायितुम्-चाक्शायितुम्
ख्यातिः-क्शातिः, 29 आख्या-सङ्ख्या, आक्शा-सङूक्शा, ख्यापना-क्शापना, चिख्यासा-चिक्शासा, चाख्याया-चाक्शाया
पुंख्यानम्-प्रख्यानम्, क्शानम्, ख्यापनम्-क्शापनम्, चिख्यासनम्-चिक्शासनम्, चाख्यायनम्-चाक्शायनम्
ख्यात्वा-क्शात्वा, ख्यापयित्वा-क्शापयित्वा, चिख्यासित्वा-चिक्शासित्वा, चाख्यायित्वा-चाक्शायित्वा
आख्याय-आक्शाय, आख्याप्य-आक्शाप्य, आचिख्यास्य-आचिक्शास्य, आचाख्याय्य-आचाक्शाय्य
ख्यायम् २-क्शायम् २, ख्यात्वा२-क्शात्वा २, ख्यापम् २-क्शापम् २, ख्यापयित्वा २-क्शापयित्वा २, चिख्यासम् २- चिख्यासित्वा २- चिक्शासम् २, चिक्शासित्वा २, चाख्यायम् २-चाक्शयम्
चाख्यायित्वा २-चाक्शायित्वा
30 चक्षुः।
31
प्रासङ्गिक्यः
01
=>
(४८७)
02
=>
(२-अदादिः-१०१७। सक। सेट्। आत्म।)
03
=>
[[१। ‘आर्धधातुके’ (२-४-३५) इत्यधिकृत्य, ‘चक्षिङः ख्याञ् (२-४-५४) इति ख्या- ञादेशो विधीयते। भाष्यकृता ‘ख्शादिरयमादेशः’, असिद्धकाण्डे णत्व- प्रक्ररणानन्तरं, ‘शस्य यो वा’ (वा ८-४-३९) इति वचनमभ्युपगतम्। ततश्च यत्वं वैकल्पिकम्। यत्वपक्षे, ‘आतो युक्--’ (७-३-३३) इति युगागमे इदं रूपम्। यत्वाभावपक्षे, खकारस्य ‘खरि च’ (८-४-५५) इति ककारे क्शायकः इति रूपम्। एवमार्धधातुकप्रत्ययेषु सर्वत्र रूपद्वयं बोध्यम्।]]
04
=>
[[आ। ‘क्षिप्रं ततोऽध्वन्यतुरङ्गयायी यविष्ठवद् वृद्धतमोऽपि राजा। आख्यायकेभ्यः श्रुतसूनुवृत्तिरग्लानयानो मिथिलामगच्छत्।।’ भ। का। २।४४।]]
05
=>
[[२। आदन्तलक्षणः पुक्। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[३। आदेशभूतस्य ख्याञोऽजन्तत्वेन, ‘एकाच उपदेशेऽनुदात्तात्’ (७-२-१०) इतीण्णि- षेधः। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[४। सनः प्रकृतिभूतस्य ख्याञः ञित्करणात् सन्नन्तात् शतृशानजौ भवतः।]]
08
=>
[[५। शानजः शित्त्वेन सार्वधातुकत्वात्, ख्याञादेशो न। शपः ‘अदिप्रभृतिभ्यः--’ (२-४-७२) इति लुक्।]]
09
=>
[पृष्ठम्०४७०+ २८]
10
=>
[[१। ‘ख्शाञः शस्य यो वा’ (वा। ८-४-४०) इति वचनस्यासिद्धकाण्डस्थत्वात् ‘संयोगादे- रातो धातोर्यण्वतः’ (८-२-४३) इति निष्ठानत्वे कर्तव्ये तस्यासिद्धतया--यण्वत्ता- विरहात् निष्ठानत्वं न। ‘न ध्याख्यापॄमूर्च्छिमदाम्’ (८-२-५७) इत्यत्र ख्या- ग्रहणेन नास्य ग्रहणम्
\n\n ‘लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्’ (परिभाषा-११५) इति न्यायेन ‘ख्या प्रकथने’ इत्यस्यैव तत्र ग्रहणात्। इदं तु लाक्षणिकम्।]]
11
=>
[[२। ‘कर्मण्यण्’ (३-२-१) इत्यणि रूपम्।]]
12
=>
[[३। ‘समि ख्यः (३-२-७) इति कर्तरि कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः। अत्रापि ‘गोसङ्क्शः’ इत्युदाहार्यम्। एवमुत्तरत्रापि ख्शादिरादेशो बोध्यः।]]
13
=>
[[४। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्तरि कः। आकारलोपः।]]
14
=>
[[५। ‘श्याऽऽद्व्यधाश्रु--’ (३-१-१४१) इत्यादिना कर्तरि णप्रत्ययः। युगागमः।]]
15
=>
[[६। ‘अण् कर्मणि च’ (३-३-१२) इति भविष्यत्यर्थे क्रियाफलकक्रियायामण्। सूत्रे चकारात् ण्वुलप्युक्तार्थे भवति।]]
16
=>
[[७। ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (३-३-१०) इति क्रियाफलकक्रियायां ण्वुल्।]]
17
=>
[[आ। ‘वैदेहीं दृष्टवान् कर्म कृत्वाऽन्यैरपि दुष्करम्। यशो यास्याम्युपादाता वार्तामाख्यायकः प्रभोः।।’ भ। का। ८। १२८।]]
18
=>
[वा व्रजति]
19
=>
[[८। शोभनं प्रचष्टे इति सुप्रख्यः। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कः। आकारलोपः।]]
20
=>
[[B। ‘प्रस्कन्दितामिव प्राप्तो ध्यात्वा ब्रते स्म जाम्बवान्। धिक् शालभञ्जिकाप्रख्यान् विषयान् कल्पनारुचीन्।।’ भ। का। ७। ७४।]]
21
=>
[[९। स्त्रियमाचष्टे स्त्र्याख्यः। ‘मूलविभुजादिभ्य उपसङ्ख्यानम्’ (वा। ३-१-१३५) इति कः। आकारलोपः। कर्मण्यणोऽवादः। ‘यू स्त्र्याख्यौ नदी’ (१-४-३) इति सूत्रमत्र ज्ञेयम्।]]
22
=>
[[१०। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्। ‘असनयोश्च’ (वा। २-४-५४) इति वचनेन ख्याञादेशाभावः।]]
23
=>
[पृष्ठम्०४७१+ १८]
24
=>
[[१। ‘ईद्यति’ (७-४-६५) इत्याकारस्य ईकारः। गुणः।]]
25
=>
[[२। चक्षिङो ण्यति रूपम्। सञ्चक्ष्यः = वर्जनीय इत्यर्थः। ‘वर्जने प्रतिषेधः’ (वा। २-४-५४) इति ख्याञादेशनिषेधः।]]
26
=>
[दुर्जनः]
27
=>
[[३। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्। ‘युवोरनाकौ’ (७-१-१) इत्यनादेशः।]]
28
=>
[[४। ‘इदुदुपधस्य चाप्रत्ययस्य’ (८-३-४१) इति षत्वमत्र।]]
29
=>
[[५। ‘आतश्चोपसर्गे’ (३-३-१०६) इति स्त्रियामङ्।]]
30
=>
[[६। ‘चक्षेः शिच्च’ (द। उ। ९।४१) इत्युसिप्रत्ययः। शिद्वद्भावस्याप्यतिदेशात् ख्याञा- देशो न। चष्टे रूपमिति-चक्षुः = लोचनम्।]]
31
=>
[पृष्ठम्०४७२+ २५]