| YouTube Channel

चिक्षीबिषकः-षिका (cikSIbiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्षीबृ मदे”@} 2 क्षीबकः-बिका, क्षीबकः-बिका, चिक्षीबिषकः-षिका, चेक्षीबकः-बिका
इत्यादीनि रूपाणि भौवादिकक्षीजतिवत् 3 ऊह्यानि।
4 क्षीबमाणः, क्षीबिष्यमाणः, 5 क्षीबः 6 - 7 क्षीबितवान्- 8 प्रक्षीबितः
इत्यादीनि रूपाण्यस्य धातोः भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(३१०)
02
=>
(१-भ्वादिः ३८२। अक। सेट्। आत्म।)
03
=>
(३०९)
04
=>
[[१। धातोरात्मनेपदित्वात् शानच्। ‘अट्कुपु--’ (८-४-२) इति णत्वम्।]]
05
=>
[[२। ‘अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः’ (८-२-५५) इति सूत्रेण निष्ठातकारस्य लोपः, इडभावश्च निपात्यते।]]
06
=>
[[आ। ‘सकम्पहेरम्बसमानलम्बनाः समाव्रजन् अम्बितघण्टिकास्तदा। प्रलम्बसास्नाः कबरत्विषो वृषा अक्लीबिताः क्षीबतयाऽतिशीभराः।।’ धा। का। १। ४९।]]
07
=>
[[३। ‘अनुपसर्गात्--’ इति सूत्रे, ‘फुल्लशब्देन क्तवत्वन्तस्यापि निपातनमिष्यते’ इति भाष्यात् अन्येषु शब्देषु क्तप्रत्ययान्तस्यैव ग्रहणमिति ज्ञायते। तेन क्तवत्वन्तेन निपातनम्।]]
08
=>
[[४। सूत्रे ‘अनुपसर्गात्--’ (८-२-५५) इत्युक्तत्वात्, सोपसर्गान्न।]]