| YouTube Channel

चिकेतयिषित्वा (ciketayiSitvA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“केत श्रावणे निमन्त्रणे च”@} 2 अदन्तः।
‘कूट’ इत्यस्य पाठान्तरमिदम्।
श्रावणम् = समयोद्घोषणम्।
निमन्त्रणम् = आज्ञा।
केतकः-तिका, चिकेतयिषकः-षिका
केतयिता-त्री, चिकेतयिषिता-त्री
3 केतयन्-न्ती, चिकेतयिषन्-न्ती
केतयिष्यन्-न्ती-ती, चिकेतयिषिष्यन्-न्ती-ती
केतयमानः, चिकेतयिषमाणः
4 केतयिष्यमाणः, चिकेतयिषिष्यमाणः
सुकेत्-सुकेतौ-सुकेतः
-- 5 केतितम्-तः, चिकेतयिषितः-तवान्
केतः, चिकेतयिषुः
केतयितव्यम्, चिकेतयिषितव्यम्
6 केतनीयम्, चिकेतयिषणीयम्
7 केत्यम्, चिकेतयिष्यम्
ईषत्केतः-दुष्केतः-सुकेतः
-- केत्यमानः, चिकेतयिष्यमाणः
केतः, चिकेतयिषः
केतयितुम्, चिकेतयिषितुम्
केतना, चिकेतयिषा
केतनम्, चिकेतयिषणम्
केतयित्वा, चिकेतयिषित्वा
विकेत्य, विचिकेतयिष्य
केतम् २, केतयित्वा २, चिकेतयिषम्
चिकेतयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(२६०)
02
=>
(१०-चुरादिः-१८९२। सक। सेट्। उभ।)
03
=>
[[B। ‘इत्यूचे हि केतयन् परिजनान् सेनापतीन् ग्रामयन् स्वामात्यान् कुणयन् भटांश्च गुणयन् नॄणां मुदं स्तेनयन्।।’ धा। का। ३-५७।]]
04
=>
[पृष्ठम्०२६४+ २४]
05
=>
[[१। ‘निष्ठायां सेटि’ (६-४-५२) इति णिलोपः।]]
06
=>
[[२। ‘णेरनिटि’ (६-४-५१) इति णिलोपः।]]
07
=>
[[३। ण्यन्तात् ‘अचो यत्’ (३-१-९७) इति यत्।]]