| YouTube Channel

चिकृक्षकः-क्षिका (cikRkSakaH-kSikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कृष विलेखने”@} 2 विलेखनम् = आकर्षणम्।
हलोत्किरणमिति क्षीरस्वामी।
‘कर्षत्याकर्षणे, शे तु कृषते कृषतीत्युभे।’ 3 इति देवः।
कर्षकः-र्षिका, कर्षकः-र्षिका, 4 चिकृक्षकः-क्षिका, चरीकृषकः-षिका
5 क्रष्टा-कर्ष्टा-ष्ट्री, कर्षयिता-त्री, चिकृक्षिता-त्री, चरीकृषिता-त्री
कर्षन्-न्ती, कर्षयन्-न्ती, चिकृक्षन्-न्ती
-- क्रक्ष्यन्-कर्क्ष्यन्-न्ती-ती, कर्षयिष्यन्-न्ती-ती, चिकृक्षिष्यन्-न्ती-ती
6 व्यतिकर्षमाणः, कर्षयमाणः, -- चरीकृष्यमाणः
व्यतिक्रक्ष्यमाणः व्यतिकर्क्ष्यमाणः, कर्षयिष्यमाणः, -- चरीकृषिष्यमाणः
कृट्-कृड्-कृषौ-कृषः
-- -- कृष्टः-ष्टम्-ष्टवान्, कर्षितः, चिकृक्षितः, चरीकृषितः-तवान्
7 8 कृषः-कर्षः, 9 अमन्दकर्षी, 10 कर्षः, 11 सङ्कर्षणः, चिकृक्षुः, चरीकृषः
क्रष्टव्यम्-कर्ष्टव्यम्, कर्षयितव्यम्, चिकृक्षितव्यम्, चरीकृषितव्यम्
कर्षणियम्, कर्षणीयम्, चिकृक्षणीयम्, चरीकृषणीयम्
12 कृष्यम्, कर्ष्यम्, चिकृक्ष्यम्, चरीकृष्यम्
ईषत्कर्षः-दुष्कर्षः-सुकर्षः
-- -- कृष्यमाणः, कर्ष्यमाणः, चिकृक्ष्यमाणः, चरीकृष्यमाणः
कर्षः, निष्कर्षः, कर्षः, चिकृक्षः, चरीकृषः
क्रष्टुम्-कर्ष्टुम्, कर्षयितुम्, चिकृक्षितुम्, चरीकृषितुम्
कृष्टिः, 13 कृषिः, कर्षणा, चिकृक्षा, चरीकृषा
कर्षणम्, कर्षणम्, चिकृक्षणम्, चरीकृषणम्
कृष्ट्वा, कर्षयित्वा, चिकृक्षित्वा, चरीकृषित्वा
विकृष्य-आकृष्य, सङ्कर्ष्य, सञ्चिकृक्ष्य, सञ्चरीकृष्य
14 पाण्युपकर्षं-पाणावुपकर्षं-पाणिनोपकर्षं 15
16 द्व्यङ्गुलोत्कर्षं 17, द्व्यङ्गुलेनोत्कर्षं18द्व्यङ्गुले उत्कर्षं, कर्षम् २, कृष्ट्वा २, कर्षम् २, कर्षयित्वा २, चिकृक्षम् २, चिकृक्षित्वा २, चरीकृषम्
चरीकृषित्वा २। 19 नक् प्रत्ययः।
‘रषाभ्यां नो णः समानपदे’ 20 इति णत्वम्।
भक्तानामार्तिं कर्षतीति कृष्णः इति व्युत्पत्तिः।]] कृष्णः, 21 22
प्रासङ्गिक्यः
01
=>
(२५५)
02
=>
(१-भ्वादिः-९९०। सक। अनि। पर।)
03
=>
(श्लो। १७८)
04
=>
[[२। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वम्। ‘षढोः कः सि’ (८-२-४१) इति कः। सनः कित्त्वात्, अमागमविधायके ‘अकिति’ इत्युक्तेः अमागमो न। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[३। ‘अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्’ (६-१-५९) इत्यङ्गस्यामागमः। यण्।]]
06
=>
[[४। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
07
=>
[पृष्ठम्०२५५+ २४]
08
=>
[[१। पचदिषु (३-१-१३४) पाठत् ‘कर्षः’ इति क्षीरतरङ्गिणी। इगुपधलक्षणे (३-१-१३५) कप्रत्यये ‘कृषः’ इति माधवधातुवृत्तौ।]]
09
=>
[[२। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति णिनिः।]]
10
=>
[[आ। ‘तान् लक्ष्मणः सन्नतवामजङ्घो जघान शुद्धेषुरमन्दकर्षी।।’ भ। का। २-३१।]]
11
=>
[[३। नन्द्यादिपाठात् (३-१-१३४) ण्यन्ताम् कर्तरि ल्युः।]]
12
=>
[[४। ‘ऋदुपधात्--’ (३-१-११०) इति क्यप्।]]
13
=>
[[५। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति भावे इक् प्रत्ययः।]]
14
=>
[[६। ‘सप्तम्यां चोपपीडरुधकर्षः’ (३-४-४९) इति णमुल्। ‘तृतीयाप्रभृतीन्यन्यतर- स्याम्’ (२-२-२१) इति समासविकल्पः।]]
15
=>
(धानाः संगृह्णाति)
16
=>
[[७। ‘प्रमाणे च’ (३-४-५१) इति णमुल्। पूर्ववत् समासविकल्पः।]]
17
=>
[इक्षुखण्डं च्छिनत्ति]
18
=>
[वा]
19
=>
[[८। औणादिकः [द। उ। ५-३७]
20
=>
(८-४-१)
21
=>
[[B। ‘कृत्वा कृत्यं दशनांशुगौरं कृष्णं ययौ दैत्यनिदाघमेघम्।।’ धा। का। २-४०।]]
22
=>
[पृष्ठम्०२५६+ २५]
1 {@“कृष विलेखने”@} 2 ‘कर्षत्याकर्षणे, शे तु कृषते कृषतीत्युभे।’ 3 इति देवः।
कर्षकः-र्षिका, कर्षकः-र्षिका, चिकृक्षकः-क्षिका, चरीकृषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककृषधातुवत् 4 ज्ञेयानि।
5 कृषन् 6 -न्ती-ती, 7 क्रक्ष्यन्-कर्क्ष्यन्-न्ती-ती, कृषमाणः, इति रूपाणीति विशेषः।
‘सप्तम्यां चोपपीडरुधकर्षः’ 8 इति णमुलस्य धातोर्न
तत्र सूत्रे शपा निर्देशात् इति न्यासकारधातुवृत्तिकारादयः।
क्षीरस्वामी तु उभयोरपि ग्रहणं मन्यते।
प्रासङ्गिक्यः
01
=>
(२५६)
02
=>
(६-तुदादिः-१२८६। सक। अनि। उभ।)
03
=>
(श्लो। १७८)
04
=>
(२५५)
05
=>
[[१। ‘तुदादिभ्यः शः’ (३-१-७७) इति शः विकरणप्रत्ययः। शस्य ङिद्वद्भावात् अङ्गस्य गुणो न। स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुम् विकल्पेन।]]
06
=>
[[आ। ‘तुदन् कुचरितान् शुभे प्रणुदमान इष्टं दिशन् प्रमृष्टपललान् क्षिपन् अरिमतिं कृषन् माधवः।’ धा। का। २-७२।]]
07
=>
[[२। ‘अनुदात्तस्य ऋदुपधस्यान्यतरस्याम्’ (६-१-५९) इति अकिति झलादौ प्रत्यये अमागमः सर्वत्र विकल्पेन।]]
08
=>
(३-४-४९)