| YouTube Channel

चिकित्सितं (cikitsitaM)

 
शब्दकल्पद्रुमः
Sanskrit
चिकित्सितं,
क्ली,
(कित् + स्वार्थे सन् ततो भावेक्तः ।) चिकित्सा इति रत्नमाला
(यथा, सुश्रुते सूत्रस्थाने अः ।“बीजं चिकित्सितस्यैतत् समासेन प्रकीर्त्तितम्
”पर्य्याया अस्य यथा, वैद्यकरत्नमालायाम् ।“चिकित्सितं प्रतीकारश्चिकित्सा भिषग्-जितम्
”चिकित्स्यतेऽनेनेति करणे क्तः भेषजम् ।अस्य पर्य्याया यथा, चरके चिकित्सास्थाने अः ।“चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम् ।प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम्
विद्याद्भेषजनामानि भेषजं द्बिविधञ्च तत् ।यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सितम्
चिकित्सितार्थ एतावान् विकाराणां यदौ-षधम् ।”यथा, भागवते ३२ ।“एतत् संसूचितं ब्रह्मंस्तापत्रयचिंकित्सितम् ।यदीश्वरे भगवति कर्म्म ब्रह्मणि भावितम्
”)कृतप्रतीकारे त्रि