| YouTube Channel

चिका (cikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रुच दीप्तौ अभिप्रीतौ च”@} 2 न्यासपदमञ्जर्यादिषु ‘अभिप्रीतौ’ इति पठ्यते।
‘अभिप्रीतिः = प्रीतिविषयीभवनम्।’ इति बालमनोरमा।
रोचकः-चिका, रोचकः-चिका, रुरोचिषकः-रुरुचिषकः-षिका, 3 रोरुचकः- चिका
रोचिता-त्री, रोचयिता-त्री, रुरोचिषिता-रुरुचिषिता-त्री, रोरुचिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककोचतिवत् 4 ज्ञेयानि।
देवदत्ताय 5 रोचमानो मोदकः, 6 रोचयन्-न्ती, रोचयमानः, 7 रोचनः 8 रोचना, विरोचनः, 9 10 रोचनी, 11 रुच्यः 12, 13 रोच्यम्, 14 रोचिष्णुः 15, 16 रुचिः-रुचिरम्, 17 नीरुक्--अभीरुक्, 18 रोकः 19, 20 अरोचकः, 21 रुचकः, 22 रुक्मम्, 23 रुचिष्यम्, 24 वसुरोचिः-रोचिः, 25 इतीमानि रूपाण्यस्माद् भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४१४)
02
=>
(१-भ्वादिः-७४५। अक। सेट्। आत्म।)
03
=>
[[२। “तच्च अवश्यम् अनभिधानमाश्रयितव्यम्। क्रियमाणेऽपि हि एकाज्झलादिग्रहणे यत्रैकाचो हलादेश्चोत्पद्यमानेन यङाऽर्थस्याभिधानं भवति, भवति तत्रोत्पत्तिः। तद् यथा भृशं शोभते, भृशं रोचते।” इति भाष्यात् (३-१-२२) अस्य धातोः भृशार्थे यङ् न। पौनःपुन्यार्थे तु यङ् भवति। एवञ्चात्र, ‘पौनःपुन्यं मृशार्थो वा क्रियासमभिहारः।’ इति शाब्दिकमर्यादया भृशार्थरूपक्रियासमभिहारार्थे यङ्, पौनःपुन्यरूपक्रियासमभिहारार्थे तु यङ् भवतीति बोध्यम्।]]
04
=>
(२००)
05
=>
[[३। ‘रुच्यर्थानां प्रीयमाणः’ (१-४-३३) इति प्रीयमाणस्य संप्रदानसंज्ञायाम्, ‘चतुर्थी सम्प्रदाने’ (२-३-१३) इति चतुर्थी।]]
06
=>
[[४। धातोरस्याकर्मकत्वात् अभिप्रीतिरूपार्थे चित्तवत्कर्तृकत्वादपि, ‘अणावकर्मकात्--’ (१-३-८८) इति कर्त्रभिप्राये प्राप्तस्य परस्मैपदस्य, ‘न पादम्याङ्यमाङ्यसपरिमुह- रुचिनृतिवदवसः’ (१-३-८९) इति निषेधात्, ‘णिचश्च’ (१-३-७४) इति यथा- संम्भवमुभयपदित्वमिति बोध्यम्। तेन शतृशानजन्तावुभावपि साधू इति बोध्यम्।]]
07
=>
[[५। नन्द्यादिषु (३-१-१३४) ‘नन्दिवासिदमिदूषिमाधिवर्द्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम्’ (ग। सू।) इति वचनात् कर्तरि ल्युः। गुणः। रोचनः = कूटशाल्मलिः। स्त्रियामजादिषु (४-१-४) पाठात् टाप्।]]
08
=>
[[B। ‘रोचनैर्भूषितां पम्पामस्माकं हृदयाविधम्।।’ भ। का। ६। ७४।]]
09
=>
[पृष्ठम्११२६+ ३४]
10
=>
[[१। रोचनी इत्यत्र ल्युटि, टित्त्वेन स्त्रियां ङीपि रूपम्।]]
11
=>
[[२। ‘राजसूयसूर्यमृषोद्यरुच्य--’ (३-१-११४) इत्यादिना निपातनात् क्यप्। ‘सूर्य- रुच्याव्यथ्याः कर्तरि’ (वा। ३-१-११४) इति वचनात् कर्तरि निष्पन्नोऽयम्। रोचतेऽसौ रुच्यः।]]
12
=>
[[आ। ‘अमृषोद्यं वदन् रुव्यो जगाहे द्यां निशाचरः।।’ भ। का। ६। ५८।]]
13
=>
[[३। भावे ण्यति, ‘यजयाचरुच--’ (७-३-६६) इति निषेधात् कुत्वं न। ‘क्वाद्यजिव्रजि- याचिरुचीनामप्रतिषेधो निष्ठायामनिटः कुत्ववचनात्’ (वा। ७-३-५९) इति वार्तिकपक्षे तु रोक्यम् इति कुत्वेनैव भाव्यम्, ‘यथोत्तरं मुनीनां प्रामाण्यम्’ इति शाब्दिकसंकेतात्। यदि तु रोच्यम् इति प्रयोगो दृश्यते, तदानीं पृषोदरादित्वात् (६-३-१०९) कुत्वाभाव इति बोध्यम्।]]
14
=>
[[४। ‘अलङ्कृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुचि--’ (३-२-१३६) इत्यादिना तच्छी- लादिषु कर्तृषु इष्णुच्प्रत्ययः।]]
15
=>
[[B। ‘रोचिष्णुकाञ्चनचयाशुपिशङ्गिताशा…।’ शि। व। ५। २०।]]
16
=>
[[५। स्त्रियाम्, ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति भावे इक्प्रत्ययः। रुचिशब्दात् मत्वर्थीयो रप्रत्ययो बाहुलकात् प्रयोगदर्शनाद् द्रष्टव्यः। रुचिरः = रुचिमान् इति यावत्।]]
17
=>
[[६। क्विपि, ‘चोः कुः’ (८-२-३०) इति कुत्वे, ‘नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ’ (६-३-११६) इति पूर्वपदस्य दीर्घः। ‘निरोचनम् = नीरुक्’ इति न्यासे विवरणात् बाहुलकात् करणे भावार्थे वा क्विबत्रेति ज्ञायते।]]
18
=>
[[७। घञि, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्, इति न्यासः (५-४-१४४)। परंतु निष्ठायामनिटो धातोरेव ‘चजोः--’ (७-३-५२) इति कुत्वमित्याश्रयितॄणां वार्तिककारभाष्यकारादीनां मते तु ‘विभाषा श्यावारोकाभ्याम्’ (५-४-१४४) इत्यत्र अरोक इति निपातनादेवात्र कुत्वमिति ज्ञेयम्।]]
19
=>
[[C। ‘नासाविरोकपवनोल्लसितं तनीमो रोमाञ्चतामिव जगाम रजः पृथिव्याः।।’ शि। व। ५। ५४।]]
20
=>
[[८। ‘अरोचकः’ इत्यत्र, ‘रोगाख्यायां ण्वुल् बहुलम्’ (३-३-१०८) इति ण्वुल्। अरोचकः = अरुचिव्याधिः। अत्र बहुलग्रहणात् स्त्र्यधिकारविहितत्वेऽपि स्त्रीत्वं नेति प्रक्रियासर्वस्वम्। अयं भावः-- ‘प्रत्ययस्थात्--’ (७-३-४४) इति इत्वं, टाबादिकं चास्य नेत्यर्थः।]]
21
=>
[[९। ‘क्वुन् शिल्पिसंज्ञयोः--’ (द। उ। ३-५) इति क्वुन्। कित्त्वान्न गुणः। रुचकः। स्वर्णमयो भूषणविशेषः।]]
22
=>
[[१०। ‘युजिरुचितिजां कुश्च’ (द। उ। ७-३३) इति मक्प्रत्ययः, कवर्गश्चान्तादेशः। प्रत्ययस्य कित्त्वान्न गुणः। रोचतेऽतिशयेन तदिति रुक्मम् = सुवर्णम्।]]
23
=>
[[११। ‘रुचिभुजिभ्यां किष्यन्’ (द। उ। ८। १५) इति किष्यन्प्रत्ययः। रुचिष्यम् = भोज्यम्।]]
24
=>
[[१२। ‘वसौ रुचेः संज्ञायाम्’ (द। उ। ९। ३३) इति इसिन्प्रत्ययः। वसुभ्यो रोचते, वसव अस्मिन् रोचन्ते इति वा वसुरोचिः = क्रतुः। बाहुलकात् ‘वसु’ इत्युपप- दाभावेऽपि केवलाद्धातोः इसिन्प्रत्यये रोचिः = ज्वाला।]]
25
=>
[पृष्ठम्११२७+ ३२]