चिका (cikA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“रुच दीप्तौ अभिप्रीतौ च”@} 2 न्यासपदमञ्जर्यादिषु ‘अभिप्रीतौ’ इति न पठ्यते।
‘अभिप्रीतिः = प्रीतिविषयीभवनम्।’ इति बालमनोरमा।
रोचकः-चिका, रोचकः-चिका, रुरोचिषकः-रुरुचिषकः-षिका, 3 रोरुचकः- चिका
रोचिता-त्री, रोचयिता-त्री, रुरोचिषिता-रुरुचिषिता-त्री, रोरुचिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककोचतिवत् 4 ज्ञेयानि।
देवदत्ताय 5 रोचमानो मोदकः, 6 रोचयन्-न्ती, रोचयमानः, 7 रोचनः 8 रोचना, विरोचनः, 9 10 रोचनी, 11 रुच्यः 12, 13 रोच्यम्, 14 रोचिष्णुः 15, 16 रुचिः-रुचिरम्, 17 नीरुक्--अभीरुक्, 18 रोकः 19, 20 अरोचकः, 21 रुचकः, 22 रुक्मम्, 23 रुचिष्यम्, 24 वसुरोचिः-रोचिः, 25 इतीमानि रूपाण्यस्माद् भवन्तीति विशेषः।
01 (१४१४)
02 (१-भ्वादिः-७४५। अक। सेट्। आत्म।)
03 [[२। “तच्च अवश्यम् अनभिधानमाश्रयितव्यम्। क्रियमाणेऽपि हि एकाज्झलादिग्रहणे यत्रैकाचो हलादेश्चोत्पद्यमानेन यङाऽर्थस्याभिधानं न भवति, न भवति तत्रोत्पत्तिः। तद् यथा भृशं शोभते, भृशं रोचते।” इति भाष्यात् (३-१-२२) अस्य धातोः भृशार्थे यङ् न। पौनःपुन्यार्थे तु यङ् भवति। एवञ्चात्र, ‘पौनःपुन्यं मृशार्थो वा क्रियासमभिहारः।’ इति शाब्दिकमर्यादया भृशार्थरूपक्रियासमभिहारार्थे न यङ्, पौनःपुन्यरूपक्रियासमभिहारार्थे तु यङ् भवतीति बोध्यम्।]]
04 (२००)
05 [[३। ‘रुच्यर्थानां प्रीयमाणः’ (१-४-३३) इति प्रीयमाणस्य संप्रदानसंज्ञायाम्, ‘चतुर्थी सम्प्रदाने’ (२-३-१३) इति चतुर्थी।]]
06 [[४। धातोरस्याकर्मकत्वात् अभिप्रीतिरूपार्थे चित्तवत्कर्तृकत्वादपि, ‘अणावकर्मकात्--’ (१-३-८८) इति कर्त्रभिप्राये प्राप्तस्य परस्मैपदस्य, ‘न पादम्याङ्यमाङ्यसपरिमुह- रुचिनृतिवदवसः’ (१-३-८९) इति निषेधात्, ‘णिचश्च’ (१-३-७४) इति यथा- संम्भवमुभयपदित्वमिति बोध्यम्। तेन शतृशानजन्तावुभावपि साधू इति बोध्यम्।]]
07 [[५। नन्द्यादिषु (३-१-१३४) ‘नन्दिवासिदमिदूषिमाधिवर्द्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम्’ (ग। सू।) इति वचनात् कर्तरि ल्युः। गुणः। रोचनः = कूटशाल्मलिः। स्त्रियामजादिषु (४-१-४) पाठात् टाप्।]]
08 [[B। ‘रोचनैर्भूषितां पम्पामस्माकं हृदयाविधम्।।’ भ। का। ६। ७४।]]
09 [पृष्ठम्११२६+ ३४]
10 [[१। रोचनी इत्यत्र ल्युटि, टित्त्वेन स्त्रियां ङीपि रूपम्।]]
11 [[२। ‘राजसूयसूर्यमृषोद्यरुच्य--’ (३-१-११४) इत्यादिना निपातनात् क्यप्। ‘सूर्य- रुच्याव्यथ्याः कर्तरि’ (वा। ३-१-११४) इति वचनात् कर्तरि निष्पन्नोऽयम्। रोचतेऽसौ रुच्यः।]]
12 [[आ। ‘अमृषोद्यं वदन् रुव्यो जगाहे द्यां निशाचरः।।’ भ। का। ६। ५८।]]
13 [[३। भावे ण्यति, ‘यजयाचरुच--’ (७-३-६६) इति निषेधात् कुत्वं न। ‘क्वाद्यजिव्रजि- याचिरुचीनामप्रतिषेधो निष्ठायामनिटः कुत्ववचनात्’ (वा। ७-३-५९) इति वार्तिकपक्षे तु रोक्यम् इति कुत्वेनैव भाव्यम्, ‘यथोत्तरं मुनीनां प्रामाण्यम्’ इति शाब्दिकसंकेतात्। यदि तु रोच्यम् इति प्रयोगो दृश्यते, तदानीं पृषोदरादित्वात् (६-३-१०९) कुत्वाभाव इति बोध्यम्।]]
14 [[४। ‘अलङ्कृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुचि--’ (३-२-१३६) इत्यादिना तच्छी- लादिषु कर्तृषु इष्णुच्प्रत्ययः।]]
15 [[B। ‘रोचिष्णुकाञ्चनचयाशुपिशङ्गिताशा…।’ शि। व। ५। २०।]]
16 [[५। स्त्रियाम्, ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति भावे इक्प्रत्ययः। रुचिशब्दात् मत्वर्थीयो रप्रत्ययो बाहुलकात् प्रयोगदर्शनाद् द्रष्टव्यः। रुचिरः = रुचिमान् इति यावत्।]]
17 [[६। क्विपि, ‘चोः कुः’ (८-२-३०) इति कुत्वे, ‘नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ’ (६-३-११६) इति पूर्वपदस्य दीर्घः। ‘निरोचनम् = नीरुक्’ इति न्यासे विवरणात् बाहुलकात् करणे भावार्थे वा क्विबत्रेति ज्ञायते।]]
18 [[७। घञि, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्, इति न्यासः (५-४-१४४)। परंतु निष्ठायामनिटो धातोरेव ‘चजोः--’ (७-३-५२) इति कुत्वमित्याश्रयितॄणां वार्तिककारभाष्यकारादीनां मते तु ‘विभाषा श्यावारोकाभ्याम्’ (५-४-१४४) इत्यत्र अरोक इति निपातनादेवात्र कुत्वमिति ज्ञेयम्।]]
19 [[C। ‘नासाविरोकपवनोल्लसितं तनीमो रोमाञ्चतामिव जगाम रजः पृथिव्याः।।’ शि। व। ५। ५४।]]
20 [[८। ‘अरोचकः’ इत्यत्र, ‘रोगाख्यायां ण्वुल् बहुलम्’ (३-३-१०८) इति ण्वुल्। अरोचकः = अरुचिव्याधिः। अत्र बहुलग्रहणात् स्त्र्यधिकारविहितत्वेऽपि स्त्रीत्वं नेति प्रक्रियासर्वस्वम्। अयं भावः-- ‘प्रत्ययस्थात्--’ (७-३-४४) इति इत्वं, टाबादिकं चास्य नेत्यर्थः।]]
21 [[९। ‘क्वुन् शिल्पिसंज्ञयोः--’ (द। उ। ३-५) इति क्वुन्। कित्त्वान्न गुणः। रुचकः। स्वर्णमयो भूषणविशेषः।]]
22 [[१०। ‘युजिरुचितिजां कुश्च’ (द। उ। ७-३३) इति मक्प्रत्ययः, कवर्गश्चान्तादेशः। प्रत्ययस्य कित्त्वान्न गुणः। रोचतेऽतिशयेन तदिति रुक्मम् = सुवर्णम्।]]
23 [[११। ‘रुचिभुजिभ्यां किष्यन्’ (द। उ। ८। १५) इति किष्यन्प्रत्ययः। रुचिष्यम् = भोज्यम्।]]
24 [[१२। ‘वसौ रुचेः संज्ञायाम्’ (द। उ। ९। ३३) इति इसिन्प्रत्ययः। वसुभ्यो रोचते, वसव अस्मिन् रोचन्ते इति वा वसुरोचिः = क्रतुः। बाहुलकात् ‘वसु’ इत्युपप- दाभावेऽपि केवलाद्धातोः इसिन्प्रत्यये रोचिः = ज्वाला।]]
25 [पृष्ठम्११२७+ ३२]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
