| YouTube Channel

चिकथयिषा (cikathayiSA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कथ वाक्यप्रबन्धे”@} 2 अदन्तः।
कथकः 3 -थिका, चिकथयिषकः-षिका
कथयिता-त्री, चिकथयिषिता-त्री
कथयन्-न्ती, चिकथयिषन्-न्ती
कथयिष्यन्-न्ती-ती, चिकथयिषिष्यन्-न्ती-ती
कथयमानः, चिकथयिषमाणः
कथयिष्यमाणः, चिकथयिषिष्यमाणः
कत्-कद्-कथौ-कथः
-- कथितम्-तः, चिकथयिषितः-तवान्
कथः, चिकथयिषुः
कथयितव्यम्, चिकथयिषितव्यम्
4 कथनीयम्, चिकथयिषणीयम्
कथ्यम्, चिकथयिष्यम्
ईषत्कथः-दुष्कथः-सुकथः
-- कथ्यमानः, चिकथयिष्यमाणः
कथः, चिकथयिषः
कथत्यितुम्, चिकथयिषितुम्
5 कथा 6, चिकथयिषा
7 कथनम्, चिकथयिषणम्
कथयित्वा, चिकथयिषित्वा
8 प्रकथय्य 9, प्रचिकथयिष्य
कथम् २, कथयित्वा २, चिकथयिषम्
चिकथयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१६२)
02
=>
(१०-चुरादिः-१८५२। सक। सेट्। उभ।)
03
=>
[[१। धातोरदन्तत्वात्, अल्लोपस्य स्थानिवद्भावादुपधावृद्धिर्न।]]
04
=>
[[आ। ‘प्रष्टव्यं पृच्छतस्तस्य कथनीयमवीवचत्। आत्मानं वनवासं जेयं चारिं रघूत्तमः।।’ भ। का। ६-४६।]]
05
=>
[[२। ‘चिन्तिपूजिकथिकुम्बिचर्चश्च’ (३-३-१०५) इत्यङ् युजपवादः।]]
06
=>
[[B। ‘चिन्तावन्तः कथां चक्रुरुपधामेदभीरवः। भकृत्वा नृपतेः कार्यंपूजां लप्स्यामहेः कथम्।।’ भ। का। ७-७२।]]
07
=>
[पृष्ठम्०१५७+ २६]
08
=>
[[१। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
09
=>
[[आ। ‘ग्रामेयकैर्नागरकैश्च लोकैर्निरीक्ष्यमाणा सह राजकीयैः। कर्मन्दिवन्द्या प्रकथय्य सैवं तिरोदधेऽनु स्तनयित्नुपद्याम्।।’ वा। वि। ३। ५५।]]