| YouTube Channel

चार्व्वाकः (cArvvAkaH)

 
शब्दकल्पद्रुमः
Sanskrit
चार्व्वाकः,
पुं,
(चारुः आपातमनोरमः लोक-चित्ताकर्षकः इति यावत् वाकः वाक्यमस्य ।ततः पृषोदरादित्वात् साधुः ।) तार्किकविशेषः ।तत्पर्य्यायः बार्हस्पत्यः नास्तिकः लौकाय-तिकः इति हेमचन्द्रः
आकाश-भिन्नभूतचतुष्टयवादी प्रत्यक्षमेकं प्रमाणमितिचार्व्वाकाः इति न्यायसंग्रहः
(यथा चसर्व्वदर्शनसंग्रहे “अथ कथं परमेश्वरस्य निःश्रय-सपदत्वमभिधीयते बृहस्पतिमतानुसारिणानास्तिकशिरोमणिना चार्व्वाकेण दूरोत्सारित-त्वात् दुरुच्छेदं हि चार्व्वाकस्य चेष्टितम्
”)दुर्य्योधनसखराक्षसविशेषः (यथा, महा-भारते १२ ३८ २२ -- २३ ।“निःशब्दे स्थिते तत्र ततो विप्रजने पुनः ।राजानं ब्राह्मणच्छद्मा चार्व्वाको राक्षसोऽब्रवीत्
तत्र दुर्य्योधनसखा भिक्षुरूपेण सम्बृतः ।साक्षः शिखी त्रिदण्डी धृष्टो विगतसाध्वसः
”)