चार्वाक (cArvAka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishचार्व्वाक (-कः)
1. A sophist, a philosopher
one acquainted with the
doctrines of the schools, a sceptic n many matters of Hindu faith,
and considered by the orthodox as an atheist or materialist.
2.
Name of an old philosopher a pupil of Brihaspati who taught the
rankest form of Atheism
चारु good, beautiful, and वाक discourse.
चारुः लोकसम्मतो वाको वाक्यं यस्य पृषो० । वृहस्पतिशिष्ये ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishचार्वाकः [cārvākḥ], [चारुः लोकसंमतो वाकोवाक्यं यस्य, पृषो˚ Tv.]
of a sophistical philosopher (said to have been a pupil of Brihaspati), who propounded the grossest form of atheism or materialism (for a summary of the doctrines of Chārvāka
see Sarva. 1.).
A follower of the philosophy of Chārvākā चार्वाकाणामिवैषां हि भयं न परलोकतः Rāj. T.4.345.
of a Rākṣasa described in the Mahābhārata, as a friend of Duryodhana and an enemy of the Pāndavas. [When Yudhiṣṭhira entered Hastināpura in triumph, he assumed the form of a Brāhmaṇa and reviled him and the assembled Brāhmaṇas, but he was soon detected, and the real Brāhmaṇas, filled with fury, are said to have killed him on the spot. He also tried to deceive Yudhiṣṭhira at the end of the great war by telling him that Bhīma was slain by Duryodhana
see 6]. -मतम्.
Apte 1890
Englishचार्वाकः [चारुः लोकसंमतो वाको वाक्यं यस्य, पृषो° Tv.] 1 N. of a sophistical philosopher (said to have been a pupil of Bṛhaspati), who propounded the grossest form of atheism or materialism (for a summary of the doctrines of Cārvāka, see Sarva. S. 1.).
2 N. of a Rākṣasa described in the Mahābhārata, as a friend of Duryodhana and an enemy of the Pāṇḍavas. [When Yudhiṣṭhira entered Hastināpura in triumph, he assumed the form of a Brāhmaṇa and reviled him and the assembled Brāhmaṇas, but he was soon detected, and the real Brāhmaṇas, filled with fury, are said to have killed him on the spot. He also tried to deceive Yudhiṣṭhira at the end of the great war by telling him that Bhīma was slain by Duryodhana
see Ve. 6].
Monier Williams Cologne
EnglishMonier Williams 1872
Englishचार्वाक चार्वाक, अस्, m. (fr. चारु + वाक),
N. of a Rākṣasa described in the Mahā-bh. Śānti-
parva 1414, &c., as a friend of Duryodhana and an
enemy of the Pāṇḍavas
(having taken the shape of
a mendicant Brāhman, when Yudhiṣṭhira entered
Hāstina-pura in triumph, he reviled him and the
assembled Brāhmans, but was soon detected
and
the real Brāhmans, filled with fury, killed him on the
spot)
N. of a sophistical philosopher who probably
lived before the composition of the Rāmāyaṇa
see
जावालि। He was a sceptic in matters of Hindū
faith, and considered by the orthodox as an atheist
or materialist
according to some, the sceptical
doctrines of the Indian materialists were handed
down to Cārvāka and his followers by Vācas-pati
or Bṛhaspati, and the aphorisms of Bṛhaspati
(Bārhaspatya sūtras) are said to embody their
opinions
(अस्, ई, अम्), derived from or composed by
Cārvāka.
—चार्वाक-दर्शन, अम्, n. the doctrine
of Cārvāka.
Benfey
EnglishApte Hindi
Hindiचार्वाकः
- -
दार्शनिक जो बृहस्पति का शिष्य बताया जाता है और जिसने भौतिकवाद एवं नास्तिकता के स्थूल रूप का प्रवर्तन किया
चार्वाकः
- -
महाभारत में वर्णित एक राक्षस जो दुर्योधन का मित्र और पाण्डवों का शत्रु था
चार्वाकः
- चारः लोकसंमतं वाको वाक्यं यस्य+पृषो*
दर्शनशास्त्र की चार्वाक शाखा का अनुयायी
Shabdartha Kaustubha
Kannadaचार्वाक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಬೃಹಸ್ಪತಿಯ ಶಿಷ್ಯ /ನಾಸ್ತಿಕಮತ ಪ್ರವರ್ತಕ /ದೇಹಾತ್ಮವಾದ ಮತ ಸ್ಥಾಪಕ
निष्पत्तिः - > पृषो०
व्युत्पत्तिः - > चारुः लोकसम्मतो वाको वाक्यं यस्य
चार्वाक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದುರ್ಯೋಧನನ ಒಬ್ಬ ಸ್ನೇಹಿತ /ಒಬ್ಬ ದಾನವ
L R Vaidya
EnglishSanskrit Tibetan
Tibetanrgyang 'phen pa
चार्वाक
jig rten rgyang 'phen pa
चार्वाक
अभिधानचिन्तामणिः
Sanskritवैशेषिकः स्यादौलूक्यो बार्हस्पत्यस्तु नास्तिकः ॥ ८६२ ॥
चार्वाको लौकायतिकश्चैते षडपि तार्किकाः ।
वैशेषिक (पुं), औलूक्य (पुं), बार्हस्पत्य (पुं), नास्तिक (पुं), चार्वाक (पुं), लौकायतिक (पुं), तार्किक (पुं)
Tamil
Tamilசார்வாக : நாஸ்திக வாதத்தை விவரித்த ஒரு தத்துவவாதி.
Mahabharata
EnglishCārvāka, a Rākshasa, friend of Duryodhana. § 10 (Parvasaṅg.): I, 2, 349 (ºsya vadhaḥ parva Rakshaso brahmarūpiṇaḥ). --§ 615 (Gadāyuddhap.): IX, 64, 3619 (will avenge the death of Duryodhana).--§ 635 (Rājadh.): XII, 35, 1414 (brahmacchadmā Rākshasaḥ), 1418, 1425 (Duryodhanasakhā, slain).--§ 636 (do.): XII, 39, 1432, 1440.
पुराणम्
Englishचार्वाक १ / CĀRVĀKA I. A rākṣasa, who was a close friend of duryodhana. The following story is told about how he happened to become Duryodhana's friend.
In the kṛtayuga this rākṣasa did tapas to please brahmā at Badaryāśrama, and brahmā gave him the boon that he would be safe from all beings. Then he went round the world troubling brahmins, who, at last sought refuge in brahmā, and he pacified them with the assurance that cārvāka would become a friend of duryodhana when he would insult Brahmins and be reduced to ashes in the fire of their anger.
Accordingly cārvāka became a friend of duryodhana. When, after the great war, dharmaputra entered hastināpura with his followers thousands of brahmins gathered around and blessed him. cārvāka also disguised as a brahmin came there and condemning dharmaputra as an enemy of his own people cursed him. The brahmins recognised him and cursed him to ashes. (M.B. śānti Parva, Chapters 38, 39).
चार्वाक २ / CĀRVĀKA II. Certain Sanskrit texts refer to another cārvāka, a philosopher in ancient india. He was an atheist. He controverted in a powerful manner the belief in the existence of heaven and hell after death.
शब्दकल्पद्रुमः
Sanskritचार्व्वाकः, (चारुः आपातमनोरमः लोक-चित्ताकर्षकः इति यावत् वाकः वाक्यमस्य ।ततः पृषोदरादित्वात् साधुः ।) तार्किकविशेषः ।तत्पर्य्यायः । बार्हस्पत्यः २ नास्तिकः ३ लौकाय-तिकः ४ । इति हेमचन्द्रः ॥
स च आकाश-भिन्नभूतचतुष्टयवादी । प्रत्यक्षमेकं प्रमाणमितिचार्व्वाकाः । इति न्यायसंग्रहः ॥
(यथा चसर्व्वदर्शनसंग्रहे । “अथ कथं परमेश्वरस्य निःश्रय-सपदत्वमभिधीयते बृहस्पतिमतानुसारिणानास्तिकशिरोमणिना चार्व्वाकेण दूरोत्सारित-त्वात् दुरुच्छेदं हि चार्व्वाकस्य चेष्टितम् ॥
”)दुर्य्योधनसखराक्षसविशेषः । (यथा, महा-भारते । १२ । ३८ । २२ -- २३ ।“निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः ।राजानं ब्राह्मणच्छद्मा चार्व्वाको राक्षसोऽब्रवीत् ॥
तत्र दुर्य्योधनसखा भिक्षुरूपेण सम्बृतः ।साक्षः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः ॥
”)
वाचस्पत्यम्
Sanskritचार्व्वाक चारुः लोकसम्मतोवाकोवाक्यं यस्य पृषो० ।वृहस्पतिशिष्ये लोकायते नास्तिकभेदे तन्मतसिद्ध-पदार्थादि सर्व्वद० स० दर्शितं यथा ।“अथ कथं परमेश्वरस्य निःश्रेयसप्रदत्वमभिधीयते वृह-स्पतिमतानुसारिणा नास्तिकशिरोमणिना चार्वाकेणदूरोत्सारितत्वात् । दुरुच्छेदं हि चार्वाकस्य चेष्टितम् ।प्रायेण सर्व्वप्राणिनस्तावत् “यावज्जीवं सुखं जीवेन्नास्तिमृत्योरगोचरः । भस्मीभूतस्य देहस्य पुनरागमनं कुतः”इति लोकगाथामनुरुन्धाना नीतिकामशास्त्रानुसारेणा-र्थकामावेव पुरुषार्थौ मन्यमानाः पारलौकिकमर्थमपह्नु-वानाश्चार्वाकमतमनुवर्त्तमाना एवानुभूयन्ते । अत एकतस्य चार्व्वाकमतस्य लोकायतमित्यन्वर्थमपरं नामधेयम् ।तत्र पृथिव्यादीनि भूतानि चत्वारि तत्त्वानि तेभ्य एकदेहाकारपरिणतेभ्यः किण्वादिभ्यो मदशक्तिवत् चैतन्यमुपजायते, तेषु विनष्टेषु सत्सु स्वयं विनश्यति । “तदिहविज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविन-श्यति न प्रेत्य संज्ञास्तीति” । तत्र चैतन्यविशिष्टदेहएवात्मा देहातिरिक्त आत्मनि प्रमाणाभावात् प्रत्यक्षैक-प्रमाणबादितया अनुमानादेरनङ्गीकारेण प्रामाण्याभा-वात् । अङ्गनालिङ्गनादिजन्यं सुखमेव पुरुषार्थः । नचास्य दुःखसंभिन्नतया पुरुषार्थत्वमेव नास्तीति मन्तव्यमअवर्जनीयतया प्राप्तस्य दुःखस्य परिहारेण सुखमात्रस्यैवभोक्तव्यत्वात् । तद्यथा मत्स्यार्थी सशल्कान् सकण्टकान्मत्स्यानुपादत्ते स यावदादेयं तावदादाय निवर्त्तते ।यथा वा धान्यार्थी सपलालानि धान्यान्याहरतियावदादेयं तावदादाय निवर्त्तते । तस्माद्दुःखभयान्नानु-कूलवेदनीयं सुखं त्यक्तुमुचितम् । न हि मृगाःसन्तीति शालयो नोप्यन्ते । न हि भिक्षुकाः सन्तीतिस्थाल्यो नाधिश्नीयन्ते । यदि कश्चिद् भीरुर्दृष्टं सुखंत्यजेत् तर्हि स पशुवन्मूर्खो भवेत् । तदुक्तम् “त्याज्यंसुखं विषयसङ्गमजन्म पुंसां दुःखोपसृष्टमिति मूर्खविचार-णैषा । व्रीहीन् जिहासति सितोत्तमतण्डुलाट्यान् कोनाम भोस्तुषकणोपहितान् हितार्थी” । ननु पारलौकिकसुखाभावे बहुवित्तव्ययशरीरायाससाध्ये अग्निहोत्रादौविद्यावृद्धाः कथं प्रवर्त्तिष्यन्ते इति चेत् तदपि नप्रमाणकोटिं प्रवेष्टुमीष्टे अनृतव्याघातपुनरुक्तदोषैर्दूषित-तया वैदिकम्मन्यैरेव धूर्त्तवकैः परस्परं कर्म्मकाण्डप्रामाण्यवादिभिर्ज्ञानकाण्डस्य, ज्ञानकाण्डप्रामाण्यवादिभिश्चकर्म्मकाण्डस्य प्रतिक्षिप्तत्वेन त्रय्या धूर्त्तप्रलापमात्र-त्वेन अग्निहोत्रादेर्जीविकामात्रप्रयोजनत्वात् तथा चा-भाणकः “अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगण्ठनम् ।बुद्धिपौरुषहीनानां जीविकेति वृहस्पतिः” ॥
अत एवकण्टकादिजन्यं दुःखमेव नरकं लोकसिद्धो राजापरमेश्वरः देहोच्छेदो मोक्षः । देहात्मवादे च कृशोऽहंकृष्णोऽहमित्यादिसासानाधिकरण्योपपत्तिः । मम शरोरमिति व्यवहारो राहोः शिर इत्यादिवदौपचारिकः ।तदेतत् सर्व्वं समग्राहि । “अत्र चत्वारि भूतानि भूमिवार्य्यनलानिलाः । चतुर्भ्यः खलु भूतेभ्यश्चैतन्यमुप-जायते । किण्वादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत् ॥
अहं स्थूलः कृशोऽस्मीति सामानाधिकरण्टतः । देहःस्थौल्यादियोगाच्च स एवात्मा न चापरः ॥
मम देहोऽयमित्युक्तिः सम्भवेदौपचारिकीति” ॥
खादेतत् स्यादेष मनोरथा यद्यनुमानादेः प्रामाण्यं न स्यात् अस्ति च प्रा-माण्यं कथमन्यथा धमोपलम्भानन्तरं धूमध्वजे प्रेक्षावतांप्रवृत्तिरुपपद्येत । नद्यास्तीरे फलानि सन्तीति वचनश्रवणसमनन्तरं फलार्थिनां नदीतीरे प्रवृत्तिरिति । तदे-तन्मनोराज्यविजृम्भणम् । व्याप्तिपक्षधर्म्मताशालि हिलिङ्गं गमकमभ्युपगतमनुमानप्रामाण्यवादिभिः व्याप्तिश्चोभयविधोपाधिविधुरः सम्बन्धः स च सत्तया चक्षुरादिवन्नाङ्गभावं भजते किन्तु ज्ञाततया । कः खलु ज्ञानोपायोभवेत् । न तावत् प्रत्यक्षं तच्च बाह्यमान्तरं वाऽभिमतम् ।न प्रथमः तस्य सम्प्रयुक्तविषयज्ञानजनकत्वेन भवति(वर्त्तमाने) प्रसरसम्भवेऽपि भूतभविष्यतोस्तदसम्मवेनसर्व्वोपसंहारवत्या व्याप्तेर्दुर्ज्ञानत्वात् । न च व्याप्तिज्ञाःसामान्यगोचरमिति मन्तव्यं व्यक्त्योरविनाभावाभाव-प्रसङ्गात् । नापि चरमः अन्तःकरणस्य बहिरिन्द्रियतन्त्रत्वेन बाह्येऽर्थे स्वातन्त्र्येण प्रवृत्त्यनुपपत्तेः । तदुक्तम्“चक्षराद्युक्तविषयं परतन्त्रं बहिर्मनः इति । नाप्यनुमानंव्याप्तिज्ञानोपायः तत्र तत्राप्येवमिति अनवस्थादौस्थ्यप्रसङ्गात् । नापि शब्दस्तदुपायः काणादमतानुसारेणानुमानएवान्तर्भावात् अनन्तर्भावे वा वृद्धव्यवहाररूपलिङ्गावगतिसापेक्षतया प्रागुक्तदूषणजङ्घालत्वात् घमध-मध्वजयोरविनाभावोऽस्ताति वचनमात्रे मन्वादिवद्विश्वासाभावाच्च । अनुपदिष्टाविनाभावस्य पुरुषस्यार्था-न्तरदर्शनेनार्थान्तरानुमित्यभावे स्वार्थानुमानकथायाःकथाशेषत्वप्रसङ्गाच्च । उपमानादिकन्तु दूरापास्तं तेषांसंज्ञासंज्ञिसम्बन्धादिवोधकत्वेनानौपाधिकसम्बन्धबोधकत्वासम्भवात् । किञ्च उपाध्यभावोऽपि दुरवगमः उपाधीनांप्रत्यक्षत्वनियमासम्भवेन प्रत्यक्षाणामभावस्य प्रत्यक्षत्वेऽपिअप्रत्यक्षाणामभावस्याप्रत्यक्षतया अनुमानाद्यपेक्षायामुक्तदूषणानतिवृत्तेः । अपि च साधनाव्यापकत्वे सति साध्य-समव्याप्तिरिति तल्लक्षणं कक्षीकर्त्तव्यम् । तदुक्तम् “अव्याप्तसाधनो यः साध्यसमव्याप्तिरुच्यते स उपाधिरिति”शब्देऽनित्यत्वे साध्ये सकर्तृकत्वं घटत्वमश्रावणतां चव्यावर्त्तयितुमुपात्तान्यत्र क्रमतो विशेषणानि त्रीणि ।तस्मादिदमनवद्यं समासमेत्यादिनोक्तमाचार्य्यैश्चेति ।तत्र विध्यध्यवसायपूर्व्वकत्वान्निषेधाध्यवसायुस्योपाधिज्ञानेजाते तदभावविशिष्टसम्बन्धरूपं व्याप्तिज्ञानं व्याप्तिज्ञाना-धीनं चोपाधिज्ञानमिति परस्पराश्रयवज्रप्रहारदोषोबज्रलेपायते । तस्मादविनाभावस्य दुर्बोधतया नानुमानाद्यव-काशः । धूमादिज्ञानानन्तरमग्न्यादिज्ञाने प्रवृत्तिःप्रत्यक्षमूलतया भ्रान्त्या वा युज्यते । क्वचित् फलप्रतिलम्भस्तु मनिमन्त्रौषधादिवत् यादृच्छिकः । अतस्तत्साध्य-मदृष्टादिकमपि नास्ति । नन्वदृष्टानिष्टौ जगद्वैचित्र्यमाक-स्मिकं स्यादिति चेत् न तद्भद्रं स्वभावादेव तदुपपत्तेः ।तदुक्तम् “अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः ।केनेदं चित्रितं तस्मात् स्वभावात्तद्व्यवस्थितिरिति” । तदेतत् सर्व्वं वृहस्पतिनाप्युक्तम् । “न स्वर्गो नापवर्गो वानैवात्मा पारलौकिकः । नैव वर्णाश्रमादीनां क्रियाश्चफलदायिकाः । अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्म-गुण्ठनम् । बुद्धिपौरुषहीनानां जीविका धातृनिर्म्मिता ।पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति । स्वपितायजमानेन तत्र कस्मान्न हिंस्यते । मृतानामपि जन्तूनांश्राद्धं चेत्तृप्तिकारणम् । गच्छतामिह जन्तूनां व्यर्थंपाथेयकल्पनम् । स्वर्गस्थिता यदा तृप्तिं गच्छेयुस्तत्रदानतः । प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते? ।यावज्जीवेत् मुखं जीवेदृणं कृत्वा घृतं पिबेत् । भस्मीभूतस्यदेहस्य पुनरागमनं कुतः । यदि गच्छेत् परं लोकं देहा-देष विनिर्गतः । कस्माद्भूयो न चायाति? बन्धुस्नेहस-माकुलः । ततश्च जीवनोपायो ब्राह्मणैर्निहितस्त्विह ।मृतानां प्रेतकार्य्याणि न त्वन्यद्विद्यते क्वचित् । त्रयोवेदस्य कर्त्तारो भण्डधूर्त्तनिशाचराः । जर्फरीतुर्फरीत्यादिपण्डिनानां वचः स्मृतम् । अश्वस्यात्र हि शिश्नन्तुपत्नीग्राह्यं प्रकीर्त्तितम् । भण्डैस्तद्वत् परञ्चैव ग्राह्यजातं प्रकीर्त्तितम् । मांसानां खादनं तद्वन्निशाचरसमीरितमिति” । तस्माद्बहूनां प्राणिनामनुग्रहार्थं चार्व्वाकमतमाश्रयणीयमिति रमणीयम्” । नैषधे च तन्मतंमङ्घ्या वर्ण्णितं यथा“ग्रावोम्मज्जनवद्यज्ञफलेऽपि श्रुतिसत्यता । कां श्रद्धातत्र घीवृद्धाः! कामाध्वा यत् खिलीकृतः । केनापि बो-धिसत्वेन जातं सत्त्वेन हेतुना । यद्वेदमर्मभेदाय जगदेजगदस्थिरम् । अग्निहोत्रं त्रयीतन्त्रं त्रिदण्डं भस्म-गुण्ठनम् । प्रज्ञापौरुषनिःखानां जीवो जल्पतिजीविकाः । शुद्धिर्वंशद्वयीशुद्धौ पित्रोः पित्रोर्यदेकशः ।तदनन्तकुलाद्दोषाददोषा जातिरस्ति का । कामिनीवर्ग-संसर्गेर्न कः सङ्क्रान्तपातकः । नाश्नाति स्नाति हामोहात् कामक्षाममिदं जगत् । ईर्ष्यया रक्षतो नारी-र्धिक् कुलस्थितिदाम्भिकान् । स्मरान्धत्वाविशेषेऽपि तथानरमरक्षतः । परदारनिवृत्तिर्या सोऽयं स्वयमनादृतः ।अहल्याकेलिलोलेन दम्भो दम्भोलिपाणिना । गुरुतल्प-मतौ पापकल्पनां त्यजत द्विजाः! । येषां वः पत्युरत्यु-च्चैर्गुरुदारग्रहे ग्रहः । पापात्तापा, मुदः पुण्यात्, परासोः स्युरिति श्रुतिः । वैपरीत्यं ध्रुवं साक्षात्तदा-ख्यात बलाबले । सन्देहेऽप्यन्यदेहाप्तेर्विवर्ज्यं वृजिनंयदि । त्यजत श्रोत्रियाः! सत्रं हिंसादूषणसंशयात् ।यस्त्रिवेदिविदां वन्द्यः स व्यासोऽपि जजल्प वः ।रामाया जातकामायाः प्रशस्ता हस्तधारणा । सुकृतेवः कथं श्रद्धा सुरते च कथं न सा? । तत्कर्म पुरुषःकुर्य्याद्येनान्ते सुखमेधते । बलात् कुरुत पापानि सन्तुतान्यकृतानि वः । सर्व्वान् बलकृतानर्थानकृतान् मनुर-ब्रवीत् । स्वागमार्थेऽपि माऽस्मिंस्थस्तीर्थिका! विचिकि-त्सितवः । तं तमाचरतानन्दं स्वच्छन्दं यं यमिच्छथ ।श्रुतिस्मृत्यर्थबोधेषु क्वैकमत्यं महाधियाम् । व्याख्याबुद्धिबलापेक्षा सा नोपेक्ष्या सुखोन्मुखी । यस्मिन्नस्तीतिधीर्देहे तद्दाहे वः किमेनसा । क्वापि किन्तत् फलं नस्यादात्मेति परसाक्षिके । मृतः स्मरति कर्म्माणि मृतेकर्मफलोर्मयः । अन्यभुक्तैर्मृते तृप्तिरित्यलं धूर्त्तवार्त्तया!एकं सन्दिग्धयोस्तावत् भावि तत्रेष्टजन्मनि । हेतुमाहुःस्वमन्त्रादीनसाङ्गानन्यथा विटाः । जनेन जानतास्मीतिकायं नायं त्वमित्यसौ । त्याज्यते ग्राह्यते चान्यदहोश्रुत्याऽतिधूर्त्तया । एकस्य विश्वपापेन तापेऽनन्ते निम-ज्जतः । कः श्रौतस्यात्मनो भीरो! भरः स्याद् दुरितेनते । किन्ते वृन्ताहृतात् पुष्पात् तन्मात्रे हि फलत्यदः ।न्यास्यं तन्मूर्द्धन्यन्यस्य न्यास्यमेवाश्मनो यदि । तृणानीवघृणावादान् विधूनय बधूरनु । तवापि तादृशस्यैव काचिरं जनवञ्चना । कुरुध्वं कामदेवाज्ञां ब्रह्माद्यैरप्य-लङ्घिताम् । वेदोऽपि देवकीयाज्ञा तत्राज्ञा काधिका-र्हणा । प्रलापमपि वेदस्य भागं मन्यध्वमेव चेत् ।केनाभाम्येन दुःखान्न विधीनपि तथेच्छथ । श्रुतिंश्रद्धत्थ विक्षिप्ताः । प्रक्षिप्तां ब्रूथ च स्वयम् । मीमांसामांसलप्रज्ञा! स्तां यूपद्विपदायिनीम् । को हि वेद-ह्यमुष्मिन् वा लोक इत्याह या श्रुतिः । सम्प्रामाण्यादमुंलोकं लोकः प्रत्येतु वा कथम् । धर्म्माधर्म्मौ मनुर्ज्जल्प-न्नशक्यार्जनवर्जनौ । व्याजान्मण्डलदण्डार्थी श्रदधायिमुधा बुधैः । व्यासस्यैव निरा तस्मिन् श्रद्धावद्धा स्थतान्त्रिकाः । मत्स्यस्याप्युपदेश्यान् वः कोमत्स्यानपिभाषताम् । पण्डितः पाण्डवानां स व्यासश्चाटुपटुः कविः ।निनिन्द तेषु निन्दत्सु स्तुवत्सु स्तुतवान्न किम्? ।न भ्रातुः किल देव्यां स व्यासः कामात् समासजत् ।दासीरतस्तदासीद्यन्मात्रा तत्राप्यदेशि किम्? । देवैर्द्विजैःकृता ग्रन्थाः पन्था येषां तदादृतौ । गां नतैः किं नतैर्व्यक्तं ततोऽप्यात्माऽधरीकृतः । साधु कासुकता मुक्ताशान्तस्वान्तैर्मखोन्मुखैः । सारङ्गलोचनासारां दिवं प्रेत्यापिलिप्सुभिः । उभयी प्रकृतिः कामे सज्जेदिति मुनेर्मतम् ।अपवर्गे तृतीयेति भणतः पाणिनेरपि । बिभ्रत्युपरियानाय जना जनितमज्जनाः । विग्रहायाग्रतः पश्चाद्-गत्वरोरभ्रविभ्रमम् । कः शमः क्रियतां प्राज्ञाः! प्रीयाप्रीतौपरिश्रमः । भस्मीभूतस्य भूतस्य पुनरागमनं भ्रमः । एन-सानेन तिर्य्यक् स्यादित्यादिः का विभीषिका । राजिलो-ऽपि हि राजेव स्वैः सुखी सुखहेतुभिः । हताश्चेद्दिविदोव्यन्ति दैत्या दैत्यारिणा रणे । तत्रापि तेन युद्ध्यन्तांहता अपि तथैव ते । स्वञ्च ब्रह्म च संसारे मुक्तौ तु ब्रह्मकेवलम् । इति स्वोच्छित्तिमुक्त्युक्तिर्वैदग्धी वेदवादिनाम् ।मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् । गोतमंतमवेतैब यथा वित्थ तथैव सः । दारा हरिहरादीनांतन्मग्नमनसो भृशम् । किं न मुक्ताः पुनः सन्ति कारा-गार मनोभुवः । देवश्चेदस्ति सर्वज्ञः करुणाभागबन्ध्य-वाक् । तत्किं वाग्व्ययमात्रान्नः कृतार्थयति नार्थिनःभविनां भावयन् दुःखं स्वकर्मजमपीश्वरः । स्यादकारणवैरी नः कारणादपरे परे । तर्काप्रतिष्ठया साम्यादन्यो-न्यस्य व्यतिघ्नताम् । नाप्रामाण्यं मतानां स्यात् केषांसत्तिपक्षवत् । अक्रोधं शिक्षयन्त्यन्यान् क्रोधना येतपोधनाः! निर्द्धनास्ते धनायैव धातुवादोपदेशिनः ।किं वित्तं दत्थ तुष्टेयमदातरि हरिप्रिया । दत्त्वा सर्वंधनं मुग्धो बन्धनं लब्धवान् बलिः । दोग्धा द्रोग्धाच सर्वोऽयं घनिनश्चेतसा जनः । विसूज्य लोभसंक्षो-भमेकद्वा यद्युदासते । दैन्यस्थायुष्यमस्तैन्यमभक्ष्यं कुक्षि-वञ्चना । स्वाच्छन्द्यमृच्छतानन्दकन्दलीकन्दमेककम्”२ दुर्योधनसखे राक्षसभेदे चार्वाकबषपर्वशब्दे विवृतिः
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
