| YouTube Channel

चारः (cAraH)

 
Apte
English
चारः [cārḥ], [चर एव अण्]
Going, walking, gait, wandering about
मण्डलचारशीघ्रः
V.*
5.2
क्रीडाशैले यदि विचरेत् पाद- चारेण गौरी
Me.*
6
निवृत्तचारः सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता
Rām.*
2.66.26 walk on foot.
Motion, course, progression
मङ्गलचार, शनिचार, राहु˚
&c.
A spy, scout, secret emissary
Ms.*
7.184
9.261
see चारचक्षुस् below.
Performing, practising.
A prison.
A bond, fetter.
The Pippalī tree or the Priyāla tree.
A platform, Māna. 62.1.3. -रम् An artificial poison.
Comp.
-अन्तरितः a spy. -ईक्षणः, -चक्षुस्m. 'using spies as eyes', a king (or a statesman) who employs spies and sees through their medium
चारचक्षु- र्महीपतिः
Ms.*
9.256
cf.
Kāmandaka: गावः पश्यन्ति गन्धेन वेदैः पश्यन्ति द्विजाः चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः also Rām. : यस्मात्पश्यन्ति दूरस्थाः सर्वानर्थान्नराधिपाः चारेण तस्मादुच्यन्ते राजानश्चारचक्षुषः -चण, -चञ्चु
a.
graceful in gait, of graceful carriage. -ज्या the sine of the ascensional difference. -पथः a place where two roads meet.-भटः a valorous man, warrior. -भटी courage. -वायुः summer-air, zephyr.
Apte 1890
English
चारः [चर एव अण्] 1 Going, walking, gait, wandering about
मंडलचारशीघ्रः V. 5. 2
क्रीडाशैले यदि विचरेत् पादचारेण गौरी Me. 60 walk on foot.
2 Motion, course, progression
मंगलचार
शनिचार, राहु° &c.
3 A spy, scout, secret emissary
Ms. 7. 184
9. 261
see चारचक्षुस् below.
4 Performing, practising.
5 A prison.
6 A bond, fetter.
रं An artificial poison.
Comp.
अंतरितः a spy.
ईक्षणः,
चक्षुस् m. ‘using spies as eyes’, a king (or a statesman) who employs spies and sees through their medium
चारचक्षुर्महीपतिः Ms. 9. 256
cf. Kāmandaka:
गावः पश्यंति गंधेन वेदैः पश्यंति द्विजाः चारैः पश्यंति राजानश्चक्षुर्भ्यामितरे जनाः also Rām.:
यस्मात्पश्यन्ति दूरस्थाः सर्वानर्थान्नराधिपाः चारेण तस्मादच्यंते राजानश्चारचक्षुषः
चण,
चंचु a. graceful in gait, of graceful carriage.
ज्या the sine of the ascensional difference.
पथः a place where two roads meet.
भटः a valorous man, warrior.
भटी courage.
वायुः summer-air, zephyr.
Apte Hindi
Hindi
चारः
पुं*
- चर् - घञ्
"जाना, घूमना, चाल, भ्रमण, पैदल चलना"
चारः
पुं*
- चर् - घञ्
"गति, मार्ग, प्रगति- मंगलचार, शनिचार आदि"
चारः
पुं*
- चर् - घञ्
"भेदिया, चर, गुप्तचर, दूत"
चारः
पुं*
- चर् - घञ्
"अनुष्ठान करना, अभ्यास करना"
चारः
पुं*
- चर् - घञ्
बन्दी
चारः
पुं*
- चर् - घञ्
"बन्धन, बेड़ी"
चारः
पुं*
- "चर एव, अण्"
"गति, चाल, भ्रमण"
चारः
पुं*
- "चर एव, अण्"
पैदल सैर करना
चारः
पुं*
- "चर एव, अण्"
कारागार
चारः
पुं*
- "चर एव, अण्"
हथकड़ी बेड़ी
चारः
पुं*
- "चर एव, अण्"
"पिपली का वृक्ष, प्रियाल का पेड़"
Wordnet
Sanskrit
Synonyms:
गुप्तचरः, अपसर्पः, गूढचारः, गूढचारी, चरः, चारः, चारकः, चारणः, चारी, भीमरः, मन्त्रज्ञः, मन्थरः, विचारकः, सूचि, हेरकः, उपचरकः
noun
यः गुप्तरीत्या गुह्यं जानाति।
"गुप्तचरस्य सूचनानुसारम् आरक्षकेण मिथ्यामुद्राप्रकाशकसमूहः गृहीतः।"
Synonyms:
दूतः, सन्देशहरः, सन्देशहारकः, वार्ताबरः, वार्तायनः, वाचिकहरः, आख्यायकः, अध्वगः, प्रयोज्यः, सञ्चारकः, चारः, धावकः, समाचारदायकः, कार्यङ्करः, निसृष्टार्थः
noun
यः सन्देशं हरति।
"अङ्गदः रामस्य दूतः भूत्वा रावणस्य पार्श्वे गतः। "
शब्दकल्पद्रुमः
Sanskrit
चारः,
पुं,
पियालवृक्षः गतिः बन्धः अपसर्पः ।इति मेदिनी रे, ३३
कारागारम् इतिहेमचन्द्रः ३९८
(चर एव इति स्वार्थेअण् ।) गूढपुरुषः चरः तद्बिवरणम् यदुक्तंकालिकापुराणे ८५ अध्याये ।“कृषिदुर्गञ्च बाणिज्यं खल्यानां करसाधनम् ।आदानं स्यैन्यकरयोर्ब्बन्धनं गजवाजिनोः
शून्यवप्रमुखानाञ्च योजनं सततं जनैः ।प्रजानां सारसेतूनां वन्धनं चेति चाष्टमम्
एतदष्टासु वर्गेषु चारान् सम्यक् प्रयोजयेत् ।कार्य्याकार्य्यविभागाय चाष्टवर्णाधिकारिणाम्
अष्टौ चारान् नियुञ्जीयादष्टवर्गेषु पार्थिवः ।दशस्वन्येषु युञ्जीत क्रमतः शृणु तानि मे
स्वामी सचिवराष्ट्राणि मित्रं कोषो बलं तथा ।दुर्मन्तु सप्तमं ज्ञेयं राज्याङ्गं गुरुभाषितम्
दुर्गयुक्तं चाष्टवर्गे चारं नात्मनि योजयेत् ।तस्मादिमानि शेषाणि पञ्च चारपदानि तु
शुद्धान्तेष्वेव पुत्त्रेषु स्रक्पूपादौ महानसे ।शत्रूदासीनयोश्चैव बलाबलविनिश्चये
आदौ दशसु चैतेषु चारान् राजा प्रयोजयेत् ।नयात् प्रकाशं जानीयात् तत्तु चारैर्निरूपयेत्
निरूप्य तत्प्रतीकारमवश्यं छिद्रतश्चरेत् ।यथानियोगमेतेषां यो यो यत्रान्यथा चरेत्
ज्ञात्वा तत्र नृपश्चारैर्दण्डयेद्वा नियोजयेत् ।चारांस्तु मन्त्रिणा सार्द्धं रहस्ये संस्थितो नृपः
प्रदोषसमये पृच्छेत्तदानीमेव साधयेत् ।स्वपुत्त्रे चाथ शुद्धान्ते ये तु चारा महानसे
नियुक्तांस्तान् मध्यरात्रौ पृच्छेत् यश्चापि मन्त्रिणि ।एतान् चारान्स्वयं पश्येत् नृपतिर्मन्त्रिणा विना
अन्यांश्च मन्त्रिणा सार्द्धं निरूप्य प्रदिशेत् फलम् ।नैकवेशधरश्चारो नैको नोत्साहवर्ज्जितः
संस्तुतो हि सर्व्वत्र नातिदीर्घो वामनः ।सततं दिवाचारी रोगी नाप्यबुद्धिमान्
वित्तविभवैर्हीनो भार्य्यापुत्त्रवर्ज्जितः ।कार्य्यश्चारो नृपतिना गुह्यतत्त्वविनिर्णये
अनेकवेशग्रहणक्षमं भार्य्यासुतैर्युतम् ।बहुदेशवचोऽभिज्ञं पराभिप्रायवेदकम्
दृढभक्तं प्रकुर्व्वीत चारं शक्तमसाध्वसम् ।अधितिष्ठेत् स्वयं राजा कृषिमात्मसमैस्तथा
बणिक्पथे दुर्गादौ तेषु शक्तान्नियोजयेत् ।अन्तःपुरे पितुस्तुल्यान् धीरान् वृद्धान् नियो-जयेत्
षण्डान् पण्डान् तथा वृद्धान् स्त्रियो या बुद्धि-तत्पराः ।शुद्धान्त्रद्वारि युञ्जीयात् स्त्रियो वृद्धा मनी-षिणीः
”यथा युक्तिकल्पतरौ ।“नृपो निहन्याच्चारेण परराष्ट्रं विचक्षणः ।”(कापटिकपुरुषादयः यथा, मनुः १८४ ।“उपगृह्यास्पदञ्चैव चारान् सम्यग्विधाय
”“चारांश्च कापटिकादीन् ।” इति कुल्लूकभट्टः
प्रचारः यथा, रामायणे ६६ २६ ।“निवृत्तचारः सहसा गतो रविःप्रवृत्तचारा रजनी ह्युपस्थिता ।”“निवृत्तचारः निवृत्तकिरणप्रचारः प्रवृत्तचाराप्रवृत्ततमःप्रचारा ।” इति तट्टीकायां रामा-नुजः
बाणिज्यादिव्यवहारः यथा, महा-भारते ३८ १२ ।“भृतैर्बाणिज्यचारञ्च पुत्त्रैः सेवेत द्बिजान्
”सञ्चारः प्रवृत्तिः यथा, देवीभागवते ।११ २२ ।“न स्त्री दुष्यति चारेण विप्रो वेदकर्म्मणा ।”“चारेण रजःसञ्चारेण ।” इति टीकाकृन्नील-कण्ठः
)
कृदन्तरूपमाला
Sanskrit
1 {@“चर गत्यर्थः”@} 2 3।
‘यथा तु भक्षणेऽपि प्रयुज्यते चरिः’ इति मैत्रेयरक्षितः, तथा नायं पाठोऽस्ति।
अपि तु अर्थवशेन केनचित् प्रक्षिप्त इति गम्यते।” इति पुरुषकारग्रन्थो ऽत्रानुसन्धेयः।]] अयं धातुर्भक्षणार्थेऽपि प्रयुज्यते।
‘संशये चारयेत्, गत्यां चरति--’ 4 इति देवः।
चारकः-रिका, चारकः-रिका, चिचरिषकः-षिका, 5 चञ्चुरकः-रिका
चरिता-त्री, चारयिता-त्री, चिचरिषिता-त्री, चञ्चुरिता-त्री
चरन्-न्ती, 6 चारयन्-न्ती, चिचरिषन्-न्ती
-- चरिष्यन्-न्ती-ती, चारयिष्यन्-न्ती-ती, चिचरिषिष्यन्-न्ती-ती
-- 7 8 9 उच्चरमाणः, 10 11 12 सञ्चरमाणः, चारयमाणः, 13 14 उच्चिचरिषमाणः, 15 16 सञ्चिचरिषमाणः, 17 चञ्चूर्यमाणः 18
उच्चरिष्यमाणः, सञ्चरिष्यमाणः, चारयिष्यमाणः, उच्चिचरिषिष्यमाणः
19 सञ्चिचरिषिष्यमाणः, चञ्चुरिष्यमाणः
20 ग्रामचः-ग्रामचरौ-ग्रामचरः
-- -- चरितम्-तः, चारितः, चिचरिषितः, चञ्चुरितः-तवान्
21 चरः- 22 सहचरी, 23 चराचरः, 24 शुभाचारः-शुभाचारा 25 व्रताचारा, 26 कुरुचरः- कुरुचरी, 27 क्षणदाचरः, 28 वनेचरः, 29 निशाचरः, 30 भिक्षाचरः- सेनाचरः, 31 दुराचारः, आदायचरः, 32 चरिष्णुः, 33 34 ब्रह्मचारी, 35 36 37 गूढचारी 38 39 रात्रिञ्चरः- 40 रात्रिचरः, 41 अतिचारी-अपचारी, 42 चारः, 43 चरमाणः, 44 45 चरणः, 46 पाटच्चरः-पटच्चरः, 47 वार्चः48, चारः, चिचरिषुः, चञ्चुरः
चरितव्यम्, चारयितव्यम्, चिचरिषितव्यम्, चञ्चुरितव्यम्
चरणीयम्, चारणीयम्, चिचरिषणीयम्, चञ्चुरणीयम्
49 चर्यम्, उपर्चार्यम् 50 आचर्यः 51, आचार्यः 52, 53 आचार्यानी, आचार्या, 54 आश्चर्यम् 55, चार्यम्, चिचरिष्यम्, चञ्चूर्यम्
ईषच्चरः-दुश्चरः-सुचरः
-- -- -- 56 चर्यमाणः, चार्यमाणः, चिचरिष्यमाणः, चञ्चूर्यमाणः
आचारः, 57 सञ्चारः, प्रचारः, 58 गोचरः- 59 सञ्चरः, चिचरिषः, सञ्चुरः
चरितुम्, चारयितुम्, चिचरिषितुम्, चञ्चुरितुम्
60 चूर्तिः, 61 परिचर्या, परिचर्या- 62 चर्या, चारणा, चिचरिषा, चञ्चुरा, चरणम्, 63 चरित्रम्, 64 चारित्रम्, चारणम्, चिचरिषणम्, चञ्चुरणम्
चरित्वा, चारयित्वा, चिचरिषित्वा, चञ्चुरित्वा
आचर्य, प्रचार्य, सञ्चिचरिष्य, विचञ्चूर्य
चारम् २, चरित्वा २, चारम् २, चारयित्वा २, चिचरिषम् २, चिचरिषित्वा २, चञ्चुरम्
चञ्चुरित्वा
65 इत्यादिना ञुण् प्रत्ययः।
चरन्ति नेत्राण्य- त्रेत्यधिकरणे प्रत्ययः।
चारुः = दर्शनीयः।]] चारुः, 66 इत्यादिना उप्रत्ययः।
चरन्ति अस्मात् देवर्षिपित्रादयः इति ‘भीमादयोऽपादाने’ 67 इत्यपादाने कारके प्रत्ययः।
चरुः = देवाद्युद्देशक उपहारः।]] चरुः, 68 इति संज्ञायां वुन्।
चरकः = कश्चन ऋषिः।]] चरकः, 69 इति मनिन्।
चरितं = चर्म त्वक्।
‘भूतेऽपि दृश्यन्ते’ 70 इति भूतेऽयं प्रत्ययः।]] चर्म, 71 इति अमच्प्रत्ययः।
चरमः = अन्त्यः।]] चरमः।
72
प्रासङ्गिक्यः
01
=>
(५०३)
02
=>
(१-भ्वादिः-५५९। सक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(श्लो। १५३)
05
=>
[[१। गर्हितं चरतीत्यर्थे, ‘लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्’ (३-१-२४) इति भावगर्हायां यङि, द्वित्वे, ‘चरफलोश्च’ (७-४-८७) इत्यभ्यासस्य नुगागमे, ‘उत् परस्यातः’ (७-४-८८) इत्युत्तरखण्डस्योत्वे, ‘हलि च’ (८-२-७७) इति दीर्घस्य त्रैपादिकत्वेनासिद्धत्वात् अल्लोपयलोपयोः एवं रूपम्। हलादिप्रत्ययभिन्ने यङन्ते सर्वत्र एवमेव बोध्यम्।]]
06
=>
[[२। भक्षणार्थत्वे, ‘निगरणचलनार्थेभ्यः--’ (१-३-८७) इति ण्यन्तात् परस्मैपदमेव। गत्यर्थकत्वे तु ण्यन्तात् शानजपि भवतीति विशेषः।]]
07
=>
[[३। ‘उदः चरः सकर्मकात्’ (१-३-५३) इति शानच्। गुरुवचनमतिलङ्घते इत्यर्थः। अतः सकर्मकत्वम्।]]
08
=>
[गुरुवचनं]
09
=>
[[आ। ‘इदं वचोऽनुच्चरमाण ईते तस्मिन् स्वमादाय शिशुं निकाय्यम्। आनाय्यपूज्यो, मधुरां प्रणाय्यस्तां नारदः स्मायति लोकपान्थः।।’ वा। वि। २-२०।]]
10
=>
[[४। ‘समस्तृतीयायुक्तात्’ (१-३-५४) इति शानच्।]]
11
=>
[रथेन]
12
=>
[[B। ‘अभ्रेण खे सञ्चरमाण आराद् बिलेशयद्वेषिसमानजूतिः। प्राह्णेतनादित्यकरोपतप्तः पुरीं ददृश्वान् गजतावृतां सः।।’ वा। वि। २-२३।]]
13
=>
[[५। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्तात् शानच्।]]
14
=>
[गुरुवचनं]
15
=>
[[५। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्तात् शानच्।]]
16
=>
[हयेन]
17
=>
[[६। ‘हलि च’ (८-२-७७) इति दीर्घः। एवं यङन्ताद् यति, ल्यपि दीर्घो ज्ञेयः।]]
18
=>
[[C। ‘ध्वजपल्लविता सेना शस्त्रपुष्पा परागिणी। वभौ चञ्चूर्यमाणेव मृत्योरुपवनस्थली।।’ यादवाभ्युदये। २२-७४।]]
19
=>
[पृष्ठम्०४८६+ ३१]
20
=>
[[१। ‘क्विप् च’ (३-२-७६) इति क्विपि, सर्वलोपे, रेफस्य पदान्तत्वनिमित्तकः ‘खरवसानयोः--’ (८-३-१५) इति विसर्गः।]]
21
=>
[[२। पचादिषु (३-१-१३४) ‘चरट्’ इति पाठात् अच्। टित्त्वात् स्त्रियां ङीप्।]]
22
=>
[[आ। ‘सौमित्रे मामुपायंस्था कम्रामिच्छुर्वशंवदाम्। त्वद्भोगीनां सहचरीमशङ्कः पुरुषायुषम्।।’ भ। का। ४-२०।]]
23
=>
[[३। ‘चरिचलिपतिवदीनां वा द्वित्वम् अचि, आक् चाभ्यासस्य--’ (वा। ३-१-१३४) इति अच्प्रत्यये, द्वित्वे, अभ्यासस्यागागमे रूपम्।]]
24
=>
[[४। ‘शीलिकामिभक्ष्याचरिभ्यो णः’ (वा। ३-२-२१) इति कर्मण्युपपदेऽणपवादो ण- प्रत्ययः। अदन्तत्वेन स्त्रियां टाप्।]]
25
=>
[[B। ‘स्तुतिशीला हरिकामा फलभक्षा कानने व्रताचारा। तदनुग्रहप्रतीक्षा वसति द्वन्द्वक्षमा मुनिश्रेणी।।’ प्रक्रियासर्वस्वम्।]]
26
=>
[[५। ‘चरेष्टः’ (३-२-१६) इति अधिकरणे टः। एवं क्षणदाचरः वनेचरः निशाचर इत्यादिष्वपि बोध्यम्।]]
27
=>
[[C। ‘तेऽभाषिषत राजा त्वां दिदृक्षुः क्षणदाचर।’ भ। का। १५-६।]]
28
=>
[[ड्। ‘द्विषन् वनेचराग्र्याणां त्वमादायचरो वने।’ भ। का। ५-९७।]]
29
=>
[[E। ‘बाहूपपीडमाश्लिष्य जगाहे द्यां निशाचरः।।’ भ। का। ५-९४।]]
30
=>
[[६। ‘भिक्षासेनादायेषु च’ (३-२-१७) इति टः। अनधिकरणे उपपदेऽयं टः। आदाय- चरः इत्यत्र ‘आदाय’ इति ल्यबन्तम्। ‘अस्य कर्मसापेक्षत्वेऽपि वचनसामर्थ्यात् प्रत्ययः।’ इति प्रक्रियाकौमुदीव्याख्यायाम्।]]
31
=>
[[F। ‘मामपापं दुराचार किं निहत्याभिधास्यसि।।’ भ। का। ६-१२७।]]
32
=>
[[७। ‘अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्’ (३-२-३६) इत्यनेन तच्छीलादिषु कर्तृषु इष्णुच् प्रत्ययः।]]
33
=>
[[ङ्। ‘अलङ्करिष्णवो भान्तस्तडित्वन्तश्चरिष्णवः।।’ भ। का। ७-३।]]
34
=>
[[८। ‘व्रते’ (३-२-८०) इति णिनिः। ब्रह्म = वेदः। तदध्ययनार्थ व्रतमपि ब्रह्म
\n\n तच्चरतीत्यर्थे णिनिः।]]
35
=>
[[ः। ‘आजन्मब्रह्मचारी विपुलभुजशिलास्तम्भविभ्राजमान- ज्याघातश्रेणिसंज्ञान्तरितवसुमतीचक्रजैत्रप्रशस्तिः।’ अनर्घराघवे--४-१८।]]
36
=>
[पृष्ठम्०४८७+ ३०]
37
=>
[[१। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छीलिको णिनिः। गूढचारी = चारः।]]
38
=>
[[आ। ‘सङ्गमाय निशि गूढचारिणं चारदूतिकथितं पुरोगता।’ रघुवंशे--१९-३३।]]
39
=>
[[२। रात्रौ चरतीति, अधिकरणे टः। ‘रात्रेः कृति विभाषा’ (६-३-७२) इति वा मुम्।]]
40
=>
[[B। ‘तं रत्नदायं जितमृत्युलोका रात्रिञ्चराः कान्तिभृतोऽन्वसर्पन्।’ भ। का। १२-११।]]
41
=>
[[३। ‘सम्पृचानुरुधाङ्यमाङयसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदह- परिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च’ (३-२-१४२) इति घिनुण्।]]
42
=>
[[४। पचाद्यचि (३-१-१३४) प्रज्ञादित्वात् (५-४-३८) स्वार्थेऽण्। चारः गूढपुरुषः।]]
43
=>
[[५। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति सूत्रेण ताच्छील्ये चानश्।]]
44
=>
[[C। ‘सहैव चरमणौ द्वौ वहमानौ मितं धनुः। जयमानौ रक्षांसि राघवौ मुनिमन्वितौ।।’ प्रक्रियासर्वस्वे।]]
45
=>
[[६। ‘चलनशब्दार्थादकर्मकात्-- (३-२-१४८) इति ताच्छीलिकः युच्।]]
46
=>
[[७। पाटयन् = छिन्दन्-चरतीति पाटच्चरः = तस्करः। पृषोदरादित्वात् (६-३-१०९) साधुः। एवं पटच्चरः इत्यपि।]]
47
=>
[[८। वारि चरतीति वार्चः = हंसः। ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इति डप्रत्यये साधुः--इति प्रक्रियासर्वस्वे।]]
48
=>
[हंसः]
49
=>
[[९। ‘गदमदचरयमश्चानुपसर्गे’ (३-१-१००) इति यति रूपम्। ‘अनुपसर्गे’ इत्यु- क्तत्वात् सोपसर्गात् ‘उपचार्यम्’ इत्येव।]]
50
=>
[[१०। ‘चरेराङि चागुरौ’ (वा। ३-१-१००) इति यत्। गुरौ तु ‘आचार्यः’ इति ण्यत्।]]
51
=>
[देशः]
52
=>
[गुरुः]
53
=>
[[११। आचार्यस्य स्त्री आचार्यानी। ‘इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातु- लाचार्याणामानुक्’ (४-१-४९) इति ङीष् आनुगागमश्च। ‘आचार्यादणत्वं च’ (वा। ४-१-४९) इति णत्वनिषेधः। यथा तु स्वयं व्याख्यात्री, तत्र आचार्या इत्येव भवति।]]
54
=>
[[१२। ‘आश्चर्यमनित्ये’ (६-१-१७४) इति आङ्पूर्वकात् चरेर्यति प्रत्यये, अद्भुत- त्वेनार्थे विवक्षिते सुडागमो निपात्यते। अन्यत्र आचर्यः।]]
55
=>
[अनित्यम्]
56
=>
[पृष्ठम्०४८८+ ३०]
57
=>
[[आ। ‘सञ्चारनिष्ठ्यूतनखेन्दुचन्द्रिकं लोके जयन्तं सकलैकजीवनम्।’ धा। का। १-७२।]]
58
=>
[[१। ‘गोचरसंचर--’ (३-३-११९) इत्यादिनाऽधिकरणे घप्रत्ययो निपातनात्। गावः = इन्द्रियाणि चरन्त्यस्मिन् इति गोचरः = विषयः। सञ्चरन्ते अनेन इति करणे घः, सञ्चरः = अध्वा।]]
59
=>
[[B। ‘पापगाचरमात्मानमशोचन् वानरा मुहुः।।’ भ। का। ७-८०।]]
60
=>
[[२। ‘ति च’ (७-४-८९) इत्युत्वे, ‘हलि च’ (८-२-७७) इति दीर्घः।]]
61
=>
[[३। ‘परिचर्यापरिसर्या--’ (वा। ३-३-१०१) इति स्त्रियां भावादौ शे यकि टाप्। ‘परि’ इत्युपसर्गस्याविवक्षितत्वात् ‘चर्या’ इत्यपि साधुः।]]
62
=>
[[C। ‘पापचर्यो मुनेः शापात् जात इत्यवदत् तम्।।’ भ। का। ६-४८।]]
63
=>
[[४। ‘अर्तिलूधूसूखनसहचर इत्रः’ (३-२-१८४) इति करणे इत्रः। चरित्रमेव चारित्रम्। स्वार्थिकः प्रज्ञादित्वात् (५-४-३८) अण्।]]
64
=>
[[ड्। ‘चित्रं चरित्रं जगतीतलेऽस्य श्लाघयामास नरेषु को वा। यत् स्वयं पाण्डुरपि स्वकेन गुणेन रक्तानकरोत् समस्तान्।।’ चम्पूभारते १-१३।]]
65
=>
[[५। ‘दॄसनिजनिचरि--’ [द। उ। १-८८]
66
=>
[[६। ‘भॄमृशीतॄचरि--’ [द। उ। १-९२]
67
=>
(३-४-७४)
68
=>
[[७। ‘कृञादिभ्यः संज्ञायां वुन्’ [द। उ। ३-४८।]
69
=>
[[८। ‘मनिन्’ [द। उ। ६-७३]
70
=>
(३-२-३)
71
=>
[[९। ‘चरेश्च’ [द। उ। ७-४७]
72
=>
[पृष्ठम्०४८९+ २७]