| YouTube Channel

चायकः-यिका (cAyakaH-yikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“चय गतौ”@} 2 चायकः-यिका, चायकः-यिका, चिचयिषकः-षिका, चाचयकः-यिका
चयिता-त्री चाययिता-त्री, चिचयिषिता-त्री, चाचयिता-त्री
-- चाययन्-न्ती, चाययिष्यन्-न्ती-ती
-- चयमानः, चाययमानः, चिचयिषमाणः, चाचय्यमानः
चयिष्यमाणः, चाययिष्यमाणः, चिचयिषिष्यमाणः, चाचयिष्यमाणः
3 प्रचत्-प्रचतौ-प्रचतः
-- -- 4 आचयितम्-तः, चायितः, चिचयिषितः, चाचयितः-तवान्
चयः, 5 चयिता, 6 प्रचायी, चायः, चिचयिषुः, चाचयः
चयितव्यम्, चाययितव्यम्, चिचयिषितव्यम्, चाचयितव्यम्
चयनीयम्, चायनीयम्, चिचयिषणीयम्, चाचयनीयम्
चाय्यम्, चाय्यम्, चिचयिष्यम्, चाचय्यम्
ईषच्चयः-दुश्चयः-सुचयः
-- -- चय्यमानः, चाय्यमानः, चिचयिष्यमाणः, चाचय्यमानः
चायः, चायः, चिचयिषः, चाचयः
चयितुम्, चाययितुम्, चिचयिषितुम्, चाचयितुम्
7 चतिः, चायना, चिचयिषा, चाचया
चयनम्, चायनम्, चिचयिषणम्, चाचयनम्
चयित्वा, चाययित्वा, चिचयिषित्वा, चाचयित्वा
प्रचय्य, प्रचाय्य, प्रचिचयिष्य, प्रचाचय्य
चायम् २, चयित्वा २, चायम् २, चाययित्वा २, चिचयिषम् २, चिचयिषित्वा २, चाचयम्
चाचयित्वा २। 8
प्रासङ्गिक्यः
01
=>
(५०२)
02
=>
(१-भ्वादिः-४७८। सक। सेट्। आत्म।)
03
=>
[[१। प्रकर्षेण चयते = गच्छतीति विग्रहे प्रचत्। क्विपि, ‘लोपो व्योर्वलि’ (६-१-६६) इति यकारलोपे, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्।]]
04
=>
[[आ। ‘अन्तस्थया कौतुकमूर्च्छया व्रजं तदायतासौ वयमानवात्सकम्। पयः प्रदोहादिरताः प्रमय्य तं प्रैक्षन्त नूत्नाचयितं कुतूहलात्।।’ धा। का। १-६१।]]
05
=>
[[२। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति विहितस्य युचः, ‘न यः’ (३-२-१५२) इति निषेधात् ताच्छीलिकः ‘तृन्’ (३-२-१३५) इति तृन्नेव।]]
06
=>
[[३। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छीलिको णिनिप्रत्ययः।]]
07
=>
[[४। क्तिनि, ‘तितुत्रतथ--’ (७-२-९) इतीण्णिषेधे, ‘लोपो व्योर्वलि’ (६-१-६६) इति यकारलोपे रूपम्।]]
08
=>
[पृष्ठम्०४८५+ ३०]
1 {@“चायृ पूजानिशामनयोः”@} 2 चायकः-यिका, चायकः-यिका, चिचायिषकः-षिका, 3 चेकीयकः-यिका
चायिता-त्री, चाययिता-त्री, चिचायिषिता-त्री, चेकीयिता-त्री
चायन्-न्ती, चाययन्-न्ती, चिचायिषन्-न्ती
-- चायिष्यन्-न्ती-ती, चाययिष्यन्-न्ती-ती, चिचायिषिष्यन्-न्ती-ती
-- चायमानः, चाययमानः, चिचायिषमाणः, चेकीयमानः
चायिष्यमाणः, चाययिष्यमाणः, चिचायिषिष्यमाणः
चेकीयिष्यमाणः
4 प्रचाः-प्रचौ-प्रचाः
-- -- -- 5 6 अपचितः- 7।
क्षणेन क्षीणविक्रान्ताः कपिनाऽनेषत क्षयम्।।’ भ।
का।
९-२२।]] अपचायितः-तम्, चायितः, चिचायिषितः, चेकीयितः-तवान्
चायः, चायः, चिचायिषुः, 8 चेक्यः
चायितव्यम्, चाययितव्यम्, चिचायिषितव्यम्, चेकीयितव्यम्
चायनीयम्, चायनीयम्, चिचायिषणीयम्, चेकीयनीयम्
9 चाय्यम्, चाय्यम्, चिचायिष्यम्, चेकीय्यम्
ईषच्चायः-दुश्चायः-सुचायः
-- -- चाय्यमानः, चाय्यमानः, चिचायिष्यमाणः, चेकीय्यमानः
चायः, चायः, चिचायिषः, चेकीयः
चायितुम्, चाययितुम्, चिचायिषितुम्, चेकीयितुम्
10 अपचितिः, चायना, चिचायिषा, चेकीया
चायनम्, चायनम्, चिचायिषणम्, चेकीयनम्
चायित्वा, चाययित्वा, चियायिषित्वा, चेकीयित्वा
निचाय्य, प्रचाय्य, प्रचिचायिष्य, प्रचेकीय्य
चायम् २, चायित्वा २, चायम् २, चाययित्वा २, चिचायिषम् २, चिचायिषित्वा २, चेकीयम्
चेकीयित्वा २। 11 पुटम् पङ्क्तिः अशुद्धम् शुद्धम् २५१ र्कृ{??} कृवि २५२ ११२ २५२ २५४ २७ …मागमः।
…मागमो वा।
२५५ २२ ण्यन्ताम् ण्यन्तात् २५७ २५ रुत्वविसर्गौ।
दीर्घ विसगः २६३ ३कीर्तिः ३कीर्त्तः २७४ १२ क्मर्यमाणः, चि… क्मार्यमाणः, चि… २७५ २० चिक्रथित्वा चिक्रथिषित्वा २८० न्ती-न्ती न्ती-ती २८६ १९ क्रीडम् क्रीडित्वा २९० बान्धव… बान्धवा… २९३ १४ दिवादिः- दिवादिः १२०७। २९९ १३ क्लेशः- क्लेशकः- ३०३ चेक्लेवि…चिक्ले… चिक्लेवि…चेक्ले… ३०४ १३ विक्लशौ विक्लेशौ- ३०४ १५ शेनः क्लेशनः, ३०८ ३२ मर्णुंवानः मर्णवानः ३१३ १३ 12 13 ३१८ १३ १०४७ १४०७ ३२० २८ मविक्षित मविक्षत ३२० ३२ मर्णुवानः मर्णवानः ३२० ३० केऽण्यल्प केऽप्यल्प ३३६ तथा मध्ये-क्षोटनम्, चुक्षोटयिषणम्
३३८ क्ष्मायः, चि- क्ष्मापः, चि… ३४२ १८ भ्वादिः ८८ भ्वादिः १२० ३५२ ११-१२ मध्ये-खादः, खादः चिखादिषः, चाखादः
३५३ १६ चेखिदः
चेखेदः
३५८ प्रखौ-प्रखः
प्रखौ-प्रखाः
३५९ २७ ‘खोडु’ ‘खोडृ’ ३६३ ३१ गल गलत् ३६४ चिगडिष्यम्, जिगडिष्यम्, ३६७ २५ माण शब्दः माणः शब्दः ३७२ २४ सशिध्यम्।।
सशिष्यम्।।’ ३७२ ३१ ये ये ३७३ ३० पत्राणा पात्राणा 14 पुटम् पङ्क्तिः अशुद्धम् शुद्धम् ३७५ गर्ज गर्ब ३७५ २६ अषच् अभच् ३८१ २६ पङ्त्त्यनन्तरम् उत्तरपुटे 15 टिप्पन्याः प्रथमपङ्क्तिरत्र भाव्या।
३८२ २६ सुप्यजादौ सुप्यजातौ ३८३ ३० वनिन्- वनिब्- ३८७ २७ क्त्वायामिड्विक…इड्विकल्प… ३८८ २९ तद्धुवत् तद्ध्रुवत् ३८८ ३० धा।
का।
८-८२ धा।
का।
२-८२। ३९१ २३ किर कः…क्लोब… किरः कः…क्लीब… ३९६ १३ ईषज्जुप्सः ईषज्जुगुप्सः ३९७ सेट् अक।
सेट् ३९९ ३२ युतात् युतान् ४०१ प्रगोपायित्वा गोपायित्वा ४०३ अत्र^१ गोरकः इत्यत्र विद्यमाना संख्या उत्तरपङ्क्तौ गुरिता इत्यत्र योज्या।
४०३ सङ्ग्रौ सङ्गुरौ ४०७ सञ्जुघुक्षः सञ्जुघुक्षुः ४०८ १६ दुगूरः दुर्गूरः ४१५ १७ सेट्।
अद…सेट्।
आत्म।
अद… ४१६ २६ ष्णुषु च’ ष्णुषु’ ४१९ २४ शविकरण… शः विकरण… ४२० २३ पदे… १-४-२ पपदो… ३-२-१ ४२२ भवत्येव।
वा भवत्येव।
४३३ १४ सङ्ग्रथ्य, सङ्ग्रन्थ्य, ४४१ १३ जुग्रुचिषितष्यम् जुग्रुचिषितव्यम् ४४५ २० जाग्लायक जाग्लायकः ४४९ २७ रूपञ् रूपम्।
४५५ १४ 16 17 ४५५ २७ तथा ३१, प्रघिण्य परिघृण्य प्रघृण्य, प्रघिण्ण्य…परिघृण्ण्य…प्रघृण्ण्य ४६० घूण घूर्ण ४६३ १३ जिघर्णिषिषिव्यन् जिघर्णिषिष्यन् ४६९ २८ …शानजौ …शानचौ ४७६ चनिना चनिता ४८० चपनन् चपनम् ४८२ ३१ झमञ्जमन… झमञ्जेमन… 18
प्रासङ्गिक्यः
01
=>
(५१७)
02
=>
(१-भ्वादिः-८८०। सक। सेट्। उभ।)
03
=>
[[१। ‘चायः की’ (६-१-२१) इति यङि कीभावः। द्वित्वे, अभ्यासस्य चुत्वे, ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणः।]]
04
=>
[[२। क्विपि, ‘लोपो व्योर्वलि’ (६-१-६६) इति वलि लोपे, सुपि रुत्वविसर्गौ। आकारान्तोऽयं शब्दः।]]
05
=>
[पृष्ठम्०४९८+ २१]
06
=>
[[१। ‘अपचितश्च’ (७-२-३०) इति निष्ठायां, प्रकृतेश्चिभावः, प्रत्ययस्य इडभावश्च वा निपात्यते। पक्षे अपचायितः इत्यपि भवति। बालमनोरमायां तु चिञो ण्यन्तस्य ‘अपचितः’ इति निपातनम्--इत्युक्तम्। भाष्ये तु चायतेरेव निपातनं कृतं दृश्यते।]]
07
=>
[[आ। ‘भयसंहृष्टरोमाणस्ततस्तेऽपचितद्विषः [त्विषः]
08
=>
[[२। यङो लुकि, ‘एरनेकाचः--’ (६-४-८२) इति यणि रूपमेवम्।]]
09
=>
[[B। चाय्या व्ययद्दाशविलोकभेषभ्रेषज्झषा यासदघं स्पशन्ती।।’ धा। का। २-२७।]]
10
=>
[[३। ‘क्तिनि नित्यं चिभावो वक्तव्यः’ (वा। ७-२-३०) इति वचनात्, ‘गुरोश्च हलः (३-३-१०३) इत्यस्यापवादः क्तिनि चिभावः।]]
11
=>
[पृष्ठम्०४९९+ ३६]
12
=>
(६-३-९३)
13
=>
(६-४-९३)
14
=>
[पृष्ठम्०५००+ ३५]
15
=>
(३८२)
16
=>
(४६७)
17
=>
(४६६)
18
=>
[पृष्ठम्०५०१+ ३२]
1 {@“चिञ् चयने”@} 2 चायकः-यिका, 3 चापकः-पिका-चायका-यिका, चिकीषक 4 ः-चिचीषकः-षिका, चेचीयक 5 ः-यिका
6 चेता-त्री, 7 प्रणिचेता-त्री, चापयिता-चाययिता-त्री, चिकीषिता-चिचीषिता-त्री, चेचीयिता-त्री
8 चिन्वन्-ती, चापयन्-चाययन्-निश्चापयन्- 9 न्ती, चिकीषन्-चिचीषन्-न्ती
चेष्यन्-न्ती-ती, चापयिष्यन्-चाययिष्यन्-न्ती-ती, चिकीषिष्यन्-चिचीषिष्यन्-न्ती-ती
-- 10 चिन्वानः, चापयमानः-चाययमानः, चिकीषमाणः-चिचीषमाणः, चेचीयमानः
चेष्यमाणः, चापयिष्यमाणः-चाययिष्यमाणः, चिकीषिष्यमाणः-चिचीषिष्यमाणः, चेचीयिष्यमाणः
चित्-चिद्-चितौ-चितः, 11 अग्निचित् 12, श्येनचित् 13, कङ्कचित्, रथचक्रचित्
चितम्-तः, 14 इष्टकचितम्-पक्वेष्टचितम्, चापितः-चायितः, चिकीषितः-चिचीषितः, चेचीयितः-तवान्
चयः, 15 सुचायी, चापः-चायः, चिकीषुः-चिचीषुः, 16 चेच्यः
17 चेतव्यम्, चापयितव्यम्-चाययितव्यम्, चिकीषितव्यम्-चिचीषितव्यम्, चेचीयितव्यम्
चयनीयम्, चापनीयम्-चायनीयम्, चिकीषणीयम्-चिचीषणीयम्, चेचीयनीयम्
चेयम्, 18 निकाय्यः, 19 20 संचाय्यः, 21 परिचाय्यः, 22 उपचाय्यः, चित्या, 23 24 अग्निचित्या, चाप्यम्-चाय्यम्, चिकीष्यम्-चिचीष्यम्, चेचीय्यम्
ईषच्चयः-दुश्चयः-सुचयः
-- -- चीयमानः, चाप्यमानः-चाय्यमानः, चिकीष्यमाणः-चिचीष्यमाणः, चेचीय्यमानः
25 पुष्पप्रचायः, 26 फलोच्चायः, पुष्पप्रचयः, 27 तण्डुलनिचायः, 28 एकनिश्चायः, 29 प्रचयः, निश्चयः 30 31 शिलोच्चयः, 32 रक्षोनिकायः, 33 काशीनिकायः, आकायः, कायः, गोमयनिकायः, भिक्षुनिकायः, सूकरनिचयः 34, 35 अपचायः, 36 चायः, चापः-चायः, चिकीषः-चिचीषः, चेचीयः
चेतुम्, चापयितुम्-चाययितुम्, चिकीषितुम्-चिचीषितुम्, चेचीयितुम्
चितिः, 37 पुष्पप्रचायिका, चापना-चायना, चिकीषा-चिचीषा, चेचीया
चयनम्, चापनम्-चायनम्, चिकीषणम्-चिचीषणम्, चेचीयनम्
चित्वा, चापयित्वा-चाययित्वा, चिकीषित्वा-चिचीषित्वा, चेचीयित्वा
सञ्चित्य, प्रचाप्य-प्रचाय्य, प्रचिकीष्य-प्रचिचीष्य, प्रचेचीय्य
चायम् चित्वा चापम् २-चायम् २, चापयित्वा २-चाययित्वा २, चिकीषम्२-चिचीषम् २, चिकीषित्वा चिचीषित्वा २, चेचीयम्
चेचीयित्वा
38 इति क्त्रप्रत्ययः।
चिनोति, चीयते वा तदिति चित्रम् = नानाकारलेख्यम्, अद्भुतं च।]] चित्रम्।
39
प्रासङ्गिक्यः
01
=>
(५१९)
02
=>
(५-स्वादिः-१२५१। सक। अनि। उभ।)
03
=>
[[२। ‘चिस्फुरोर्णौ’ (६-१-५४) इत्यात्वं णौ वा भवति। आत्वपक्षे, ‘अर्तिह्री--’ (७-३-३६) इत्यादिना पुगागमे ‘णेरनिटि’ (६-४-५१) इति णिलोपे रूपम्। पुगभावपक्षे, वृद्धौ, आयादेशे चायकः इति रूपम्। एवं ण्यन्ते सर्वत्र रूपद्वयं ज्ञेयम्।]]
04
=>
[[३। ‘विभाषा चेः’ (७-३-५८) इति सनि अभ्यासात् परस्य कुत्वम्। कुत्वस्य वैकल्पिकत्वात् पक्षे चिचीषकः इति रूपम्। एवं सन्नन्ते सर्वत्र रूपद्वयं बोध्यम्।]]
05
=>
[[४। यङि परतः, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[पृष्ठम्०५०२+ २५]
07
=>
[[१। ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोति देग्धिषु च’ (८-४-१७) इति नित्यं नेर्णत्वम् भवति।]]
08
=>
[[२। ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुः विकरणप्रत्ययः। ‘इको यणचि’ (६-१-७७) इति यण्। एवं ‘चिन्वानः’ इत्यत्रापि ज्ञेयम्।]]
09
=>
[[आ। ‘विस्मापयित्री जनमुग्रसेनजं द्राग् भापयित्री भृशमस्य पञ्चताम्। निश्चापयन्ती निकटे तदा वियत्युच्चैरुदस्थादशरी रिणीति गीः।।’ वा। वि। १-३८।]]
10
=>
[[B। ‘गता स्यादवचिन्वाना कुसुमान्याश्रमद्रुमान्।’ भ। का। ६-१०।]]
11
=>
[[३। ‘अग्नौ चेः’ (३-२-९१) इति भूते कर्मणि क्विप्। अग्निं चितवान् इत्यर्थः।]]
12
=>
[[C। ‘अग्निचित् सोमसुत् राजा रथचक्रचिदादिषु। अनलेष्विषृवान् कस्मान्न त्वयाऽपेक्षिअः पिता।।’ भ। का। ६-१२८।]]
13
=>
[[४। ‘कर्मण्यग्न्याख्यायाम्’ (३-२-९२) इति भूते कर्मणि क्विप्। धातूपपदप्रत्ययसमुदायेन अग्न्याधारस्थलविशेषश्चेद् गम्यते। यथा--श्येन इव चीयते श्येनचित्, कङ्क इव चीयते कङ्कचित्।]]
14
=>
[[५। ‘इष्टकेषीकामालानां चिततूलभारिषु’ (६-३-६५) इति पूर्वपदस्य ह्रस्वः। पदाङ्गाधिकारे तस्य तदन्तस्य च’ (परिभाषा-३०) इति न्यायात् पक्वेष्टक- चितम् इत्यपि भवति।]]
15
=>
[[६। ताच्छील्ये णिनिः। ‘उपसर्गादृति--’ (६-१-९१) इति सूत्रे भाष्ये प्रयोगात्।]]
16
=>
[[७। यङो लुकि, ‘न धातुलोप--’ (१-१-४) इति निषेधाद् गुणाभावे ‘एरनेकाचः--’ (६-४-८२) इति यणि रूपम्।]]
17
=>
[पृष्ठम्०५०३+ २५]
18
=>
[[आ। ‘न प्राणाय्यो जनः कश्चित् निकाय्यं तेऽधितिष्ठति, भ। का। ६-६७।]]
19
=>
[[१। निचीयतेऽस्मिन् धान्यादिकम् इति निकाय्यः = निवासः। अधिकरणे यत्। ‘पाय्यसान्नाय्यनिकाय्यधाय्यामानहविर्निवाससामिधेनीषु’ (३-१-१२९) इत्यनेन ण्यति, आयादेशे धात्वादेः ककारश्च निपात्यते।]]
20
=>
[[२। संचीयतेऽसौ संचाय्यः = क्रतुविशेषः। कर्मणि ण्यत्। ‘क्रतौ कुण्डपाय्य- सञ्चाय्यौ’ (३-१-१३०) इत्यनेन ण्यदायादेशौ निपात्येते।]]
21
=>
[[‘३। अग्नौ परिचाय्योपचाय्यसमूह्याः’ (३-१-१३१) इति ण्यदायादेशौ निपात्येते अग्न्याधारस्थलविशेषस्य एवं नाम।]]
22
=>
[[B। ‘कथाभी रमसे नित्यमुपचाय्यवतां शुमे।।’ भ। का। ६। ६८।]]
23
=>
[[४। चीयतेऽसौ चित्यः = अग्निः। कर्मणि यत्प्रत्यये निपातनात् तुक्। अग्नेः चयनमग्निचित्या। भावे यत्प्रत्ययः, निपातनात् तुक् च। ‘चित्याग्नि- चित्ये च’ (३-१-१३२) इति निपातितौ। अग्निचित्या इत्यत्र स्त्रीत्वं स्वभावात्।]]
24
=>
[[C। ‘कुण्डपाय्यवतां कच्चिदग्निचित्यावतां तथा।’ भ। का। ६-६८।]]
25
=>
[[५। ‘हस्तादाने चेरस्तेये’ (३-३-४०) इति घञ्, अजपवादः। ‘अस्तेये’ इत्युक्तत्वात् चौर्येण आदाने ‘एरच्’ (३-३-५६) इत्यजेव। पुष्पप्रचयः इति यथा।]]
26
=>
[[ड्। ‘निशोपशायः कर्तव्यः फलोच्चायश्च संहतैः।।’ भ। का। ७-४१।]]
27
=>
[[६। ‘परिमाणाख्यायां सर्वेभ्यः’ (३-३-२०) इति घञ्। अजपवादः। एवं एक- निश्चायः इत्यत्रापि परिमाणार्थकत्वात् घञेव।]]
28
=>
[[E। ‘ततः कपिसमाहारमेकनिश्चायमागतम्।’ भ। का। ७-३४।]]
29
=>
[पृष्ठम्०५०४+ २९]
30
=>
[[१। ‘ग्रहवृदृनिश्चिगमश्च’ (३-३-५८) इति अप्। अचोऽपवादः। स्वरे भेदः।]]
31
=>
[[आ। ‘भ्रेमुः शिलोच्चयांस्तुङ्गाम् उत्तेरुरतरान् नदान्। आशंसवो लवं शत्रोः सीतायाश्च विनिश्चयम्।।’ भ। का। ७-५५।]]
32
=>
[[B। ‘सीता रक्षोनिकायेषु स्तोककायैश्छलेन च। मृग्या शत्रुनिकायानां व्यावहासीमनाश्रितैः।।’ भ। का। ७-४२।]]
33
=>
[[२। ‘निवासचितिशरीरोपसमाधानेष्वादेश्च कः’ (३-३-४१) इति घञ्। धात्वादेः ककारश्च। निवासे--काशीनिकायः। चितिः = चयनम्-आकायः। आची- यतेऽस्मिन् इष्टका इत्याकायः। ‘आकायमग्निं चिन्वीत’ इति विधिः। शरीरे-कायः। चीयतेऽस्मिन् अस्थ्यादिकम् इति कायः = शरीरम्। यद्वा, चीयते = आर्ज्यते सुखदुःखादिकं कर्मानेनेति कायः। करणे घञ्। उपसमा- धानम् = राशीकरणम्। तत्र यथा--गोमयनिकायः-गोमयसमूह इति यावत्।]]
34
=>
[[३। ‘सङ्घे चानौत्तराधर्ये’ (३-३-४२) इति घञ्। ‘अनौत्तराधर्ये’ इत्युक्तत्वात् सूकरनिचयः इत्यत्र अजेव।]]
35
=>
[[C। ‘करतलैरपचायमथेक्षणैरपचयं वनेषु जनेषु च।’ चम्पूरामायणे ४-३।]]
36
=>
[[ड्। ‘व्रीहेस्त्रयोऽत्र चायाः तिलस्य खारीमितः प्रचायोऽयम्। इति संख्यामानाभ्यां प्रमितत्वे ऽन्यत्र पश्य धान्यचयम्।।’ इति प्रक्रिया- सर्वस्वे।]]
37
=>
[[४। ‘संज्ञायाम्’ (३-३-१०९) इति स्त्रियां भावे ण्वुल्।]]
38
=>
[[५। ‘अमिचिमि--’ [द।-उ। ८-८६]
39
=>
[पृष्ठम्०५०५+ २४]
1 {@“चिञ् चयने”@} 2 ज्ञापादिः मित्संज्ञकश्च।
3 अस्य धातोः ञित्करणसामर्थ्याण्णिचो वैकल्पिकत्वं बोध्यते।
णिजभावपक्षेऽपि शतृ-शानचौ भवतः ञित्करणात्।
णिजभावपक्षे धातोः हलादित्वात् एकाच्त्वाच्च यङि--चेचीयकः इत्यादीनि सर्वाण्यपि रूपाणि स्वादिगणपठितचिनोतेरिव 4 बोध्यानि।
तथा सन्नन्तेऽपि चिचीषकः-षिका, चिकीषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि ज्ञेयानि।]] 5 चपकः-पिका, चयकः-यिका, चिचपयिषकः-चिचययिषकः-षिका, 6 चायकः-यिका
चपयिता-चययिता-त्री, चिचपयिषिता-चिचययिषिता-त्री, चेता-त्रीः
7 प्रणिचपयन्-प्रनिचययन्-न्ती, चिचपयिषन्-चिचययिषन्-न्ती, चयन्-न्ती
चपयिष्यन्-चययिष्यन्-न्ती-ती, चिचपयिषिष्यन्-चिचययिषिष्यन्-न्ती-ती, चेष्यन्-न्ती-ती
चपयमानः-चययमानः, चिचपयिषमाणः-चिचययिषमाणः, चयमानः
चपयिष्यमाणः-चययिष्यमाणः, चिचपयिषिष्यमाणः-चिचययिषिष्यमाणः, चेष्यमाणः
8 विचत्-विचतौ-विचतः, चप्-चपौ-चपः
चपितः-चयितः, चिचपयिषितः-चिचययिषितः, चितम्-तः-तवान्
चपः-चयः, चिचपयिषुः-चिचययिषुः, चयः
चपयितव्यम्-चययितव्यम्, चिचपयिषितव्यम्-चिचययिषितव्यम्, चेतव्यम्
चपनीयम्-चयनीयम्, चिचपयिषणीयम्-चिचययिषणीयम्, चयनीयम्
9 चप्यम्-चय्यम्, चिचपयिष्यम्-चिचययिष्यम्, चेयम्
ईषच्चयः-दुश्चयः-सुचयः, ईषच्चपः-दुश्चपः-सुचपः
चप्यमानः-चय्यमानः, चिचपयिष्यमाणः-चिचययिष्यमाणः चीयमानः
चपः-चयः, चिचपयिषः-चिचययिषः, चयः
चपयितुम्-चययितुम्, चिचपयिषितुम्-चिचययिषितुम्, चेतुम्
चपना-चयना, चिचपयिषा-चिचययिषा, चितिः
चपनम्-चयनम्, चिचपयिषणम्-चिचययिषणम्, चयनम्
चपयित्वा-चययित्वा, चिचपयिषित्वा-चिचययिषित्वा, चित्वा
10 संचपय्य-संचयय्य, प्रचिचपयिष्य-प्रचिचययिष्य, प्रचित्य
11 चापम् -चपम् २, चपयित्वा २, चिचपयिषम् -चिचययिषम् २, चिचपयिषित्वा -चिचययिषित्वा २, चायम्
चित्वा २। चायम् -चयम् -चययित्वा २, चिचपयिषम् -चिचययिषम् २, चिचपयिषित्वा -चिचययिषित्वा २, चित्वा २।
प्रासङ्गिक्यः
01
=>
(५२०)
02
=>
(१०-चुरादिः-१६३०। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(५१९)
05
=>
[[१। ‘चिस्फुरोर्णौ’ (६-१-५४) इत्यात्वविकल्पः। आत्वपक्षे, आदन्तलक्षणे पुगागमे, ज्ञपादिपञ्चकपाठेन मित्त्वात्, णौ उपधायाः ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः। आत्वाभावपक्षे, वृद्धौ, आयादेशे ह्रस्वे रूपम्। एवं ण्यन्ते सर्वत्र रूपद्वयस्यो- पपत्तिर्ज्ञेया।]]
06
=>
[[२। ञित्करणसामर्थ्याण्णिचो वैकल्पिकत्वेन णिजभावपक्षे शुद्धाद्धातोः चायकः-यिका इत्यादीनि रूपाणि प्रदर्शितानि।]]
07
=>
[[३। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति नेः णत्वविकल्पः।]]
08
=>
[[४। अत्र यकारस्य वलि लोपे, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुगागमः। स्थानिवद्भावः शङ्क्यः
\n\n यलोपे तन्निषेधात्।]]
09
=>
[पृष्ठम्०५०६+ २३]
10
=>
[[१। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
11
=>
[[२। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]