चामुण्डा (cAmuNDA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
Englishचामुण्डा - cAmuNDA - - one of the 7 mothers
चामुण्डा - cAmuNDA - - one of the 8 nAyikAs of durgA
चामुण्डा - cAmuNDA - - form of durgA
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishचामुण्डा [cāmuṇḍā], A terrific form of Durgā
5.25
(the word is thus derived
यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपा- गता । चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥).
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiचामुण्डा
- "चम् - ला - क, पृषो* साधूः"
दुर्गा का रौद्ररूप
Shabdartha Kaustubha
Kannadaचामुण्डा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪಾರ್ವತಿ /ದುರ್ಗಾದೇವಿ
प्रयोगाः - > "यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥"
उल्लेखाः - > देवीमा०
चामुण्डा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪಾರ್ವತಿಯ ಪರಿಚಾರಿಕೆಯಲೋಬ್ಬಳು /ಸಪ್ತ ಮಾತೃಗಳಲ್ಲೊಬ್ಬಳು
विस्तारः - > "कर्णमोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका" - अम० ।
Wordnet
Sanskrit दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
अभिधानचिन्तामणिः
Sanskritचामुण्डा चर्चिका चर्ममुण्डा मार्जारकर्णिका ।
कर्णमोटी महागन्धा भैरवी च कपालिनी ॥ २०६ ॥
चामुण्डा (स्त्री), चर्चिका (स्त्री), चर्ममुण्डा (स्त्री), मार्जारकर्णिका (स्त्री), कर्णमोटी (स्त्री), महागन्धा (स्त्री), भैरवी (स्त्री), कपालिनी (स्त्री)
अभिधानरत्नमाला
Sanskritचामुण्डा
चामुण्डा, कर्णमोटी, चर्चा, भैरवी
चामुण्डा कर्णमोटी च चर्चा स्याद्भैरवी तथा ॥ १७ ॥
verse 1.1.1.17
page 0003
पुराणम्
Englishचामुण्डा / CĀMUṆḌĀ. (See pārvatī).
शब्दकल्पद्रुमः
Sanskritचामुण्डा, (महासंग्रामे चण्डमुण्डाख्यौ द्बौशुम्भनिशुम्भसेनाध्यक्षौ अनया शक्त्या निहतौअतः परितुष्टया भगवत्या कौशिक्या अस्या-श्चामुण्डेति संज्ञा रक्षिता । एतत् सर्व्वन्तु वक्ष्य-माणासु प्रवृत्तिषु दर्शनीयम् ।) दुर्गा । इतिजटाधरः ॥
मातृकाभेदः । इति शब्दरत्ना-वली ॥
तत्पर्य्यायः । चर्व्विका २ चर्म्ममुण्डा ३मार्ज्जारकर्णिका ४ कर्णमोटी ५ महागन्धा ६भैरवी ७ कापालिनी ८ । इति हेमचन्द्रः ॥
अस्या ध्यानं यथा, --“काली करालवदना विनिष्क्रान्तासिपाशिनी ।विचित्रखट्वाङ्गधरा नरमालाविभूषणा ॥
द्वीपिचर्म्मपरीधाना शुष्कमांसातिभैरवा ।अतिविस्तारवदना जिह्वाललनभीषणा ॥
निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥
”अस्याश्चामुण्डेति नामकारणं यथा, --“यस्माच्चण्डञ्च मुण्डञ्च गृहीत्वा त्वमुपागता ।चामुण्डेति ततो लोके ख्याता देवि । भविष्यसि ॥
”इति चण्डी ॥
अस्यास्तन्त्रादिकं यथा, --“देव्या ललाटनिष्क्रान्ताया कालीति च विश्रुता ।तस्यास्तन्त्रं प्रवक्ष्यामि कामदं शृणु भैरव ! ॥
समाप्तिसहितो दन्त्यः प्रान्तस्तस्मात् पुरःसरः ।षष्ठस्वराग्निबिन्द्विन्दुसहितो मादिरेव च ॥
कालीतन्त्रमिति प्रोक्तं धर्म्मकामार्थदायकम् ।एतन्मूर्त्तिं प्रवक्ष्यामि वत्सकाग्रमनाः शृणु ॥
नीलोत्पलदलश्यामा चतुर्ब्बाहुसमन्विता ।खट्वाङ्गं चन्द्रहासञ्च बिभ्रती दक्षिणे करे ॥
वामे चर्म्म कपालञ्च ऊर्द्धाधोभावतः पुनः ।दधती मुण्डमालाञ्च व्याघ्रचर्म्मधराम्बरा ॥
कृशाङ्गी दीर्घदंष्ट्रा च अतिदीर्घातिभीषणा ।लोलजिह्वा निम्नरक्तनयना नादभैरवा ॥
कबन्धवाहना पीनविस्तारश्रवणानना ।एषा ताराह्वया देवी चामुण्डेति च कथ्यते ॥
एतस्या योगिनी चाष्टौ पूजयेच्चिन्तयेदपि ।त्रिपुरा भीषणा चण्डी कर्त्री हन्त्री विधातृका ॥
कराला शूलिनी चेति अष्टौ ताः परिकीर्त्तिताः ।एषातिकामदा देवी जाड्यहानिकरी सदा ॥
एतस्याःसदृशी काचित् कामदा न हि विद्यते ॥
”इति कालिकापुराणे ६० अध्यायः ॥
वाचस्पत्यम्
Sanskritचामुण्डा स्त्री “यस्माच्चण्डं च मुण्डञ्च गृहीत्वा त्वमुपागता ।चामुण्डेति ततोलोके ख्याता देवी भविष्यसि” देवोमा०निरुक्तनामके देवीभेदे । २ परव्रह्मणः समष्टिरूपशक्ति-भेदे ३ ब्रह्मविद्यायाञ्च गुप्तवती । तत्र (ऐँ ह्रीँ क्लीँचानुण्डायै विच्चे) इति चण्डिकानर्वार्ण्णार्थनिर्ण्णयेउक्तं यथा ।“निर्धूतनिखिलध्वान्ते! नित्यमुक्ते । परात्परे! । अखण्डब्रह्मविद्यायै चित्सदानन्दरूपिणि! । अनुसन्दध्महे नित्यंवयं त्वां हृदयाम्बुजे । इत्थं विज्ञापयत्येषा या कल्याणीनवाक्षरी । अस्या महिमलेशोऽपि गदितुं केन शक्यते ।बहूनां जन्मनामन्ते प्राप्यते भाग्यगौरवात् । एनमर्थंगुरोर्लब्ध्वा तस्मै दत्त्वा च दक्षिणाम् । आशिषञ्च परांलब्ध्वा मन्त्रसिद्धिमवाप्नुयादित्यादि” । अत्र प्रथमश्लोकेसंबुद्धित्रयं ततश्चतुर्थ्यन्तन्ततः पुनः संबुद्धित्रयमिति सप्तभिःपदैः क्रमेण मन्त्रे सप्तधा परिच्छेदः । पदानां तत्तद्विभक्त्यन्तता तत्तदर्थाश्चेति कथितं तदुत्तरपद्यार्द्धेनाकाङ्क्षितपदानामध्याहार उक्तः । इतरत्स्पष्टम् । सच्चिदानन्दात्मकपरब्रह्मधर्म्मत्वाद्देवशक्तेरपि त्रिरूपत्वम् । तत्रचिद्रूपा महासरस्वती वाग्वीजे न (ऐँ) सम्बोध्यते । ज्ञाने-नैवाज्ञाननाशात् निर्धूतनिखिलध्यान्तपदेन तद्विवरणम्युक्तमेव । नित्यत्वं त्रिकालाबाध्यत्वम् । अतएवमुक्तत्वं कल्पितवियदादिप्रपञ्चनिरासाधिष्ठानत्वम् । एतेवसद्रूपात्मकलक्ष्मीरूपस्य हृल्लेखया (ह्रीँ) सम्बोधनमितिव्याख्यातम् । पर उत्कृष्टः सर्वानुभवसंवेद्य आनन्द एवतस्यैव पुरुषार्थत्वात् । “आत्मनः कामाय सर्वं प्रियेभवतीति” श्रुत्या तदितरेषामपि तदर्थत्वेनानन्दस्यैव सर्वशेषितया परत्वात् । स च मानुषानन्दमारभ्योत्तरोत्तरंशतगुणाधिक्येन श्रुतौ बहुशोवर्णितः “तेषु परमातिशायी स एको ब्रह्मण आनन्द” इति परमावधित्वेनाम्नातएव परात्परः “स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः”इति पुराणं च तेन आनन्दप्रधानभहाकालीस्वरूपस्यकामवीजेन (क्लीँ) सम्बोधनमुक्तम् । चामुण्डाशब्दो हिमोक्षकारणीभूतनिर्विकल्पकवृत्तिविशेषपरः तादर्थ्येचतुर्थी चमूं सेनां वियदादिसमूहरूपाण्डाति लडयोरैक्याल्लाति आदत्ते स्वात्मसाक्षात्कारेण नाशयतीतिव्यु-त्पत्तेः । पृषोदरादित्वात्सर्वंसाधु” इत्याहुः । “मयातवात्रोपहृतौ चण्डमुण्डौ महासुरौ” इति पद्येद्विवचनयोः स्वारस्येन तूलमूलभेदेनाज्ञानद्वयपरत्वम्“यस्माच्चण्डं च मुण्डञ्च गृहीत्वा त्वमुपागता ।वामुण्डेति ततो लोके ख्याता देवी भविष्यतीति”पद्येऽपि तूलमूलाविद्यापरताऽवसेया इति रह-स्यम् । विच्चे इति । वित् च, इ, इति पदत्रयात्मकंवीजक्रमेणोक्तानाञ्चित्सदानन्दानां वाचकं सम्बुध्यन्तंअस्य स्त्री ई इत्यस्य ह्रस्वे इ इति हे आनन्दमय-ब्रह्ममहिषि इत्यर्थः । चित्पदं ज्ञानपरम्प्रसिद्धमेवचकारोऽपि नपुंसकः सन सत्यपर इति योज्यम् अनुस-न्दध्महैत्यादिः शेषः । इत्थञ्च महासरखत्यादिरूपेणचिदादिरूपे! चण्डिके त्वाम्ब्रह्मविद्याप्राप्त्यर्थं वयंसर्व्वदा ध्यायेम इतिमन्त्रार्थः फलितः । तस्याय सङ्ग्रहः“महासरस्वति चिते! महालक्ष्मि! सदात्मिके! ।महाकाल्यानन्दरूपे! तत्त्वज्ञानप्रसिद्धये । अनुसन्दध्महेचण्डि । वयन्त्वां हृदयाम्बुजे” इति । यद्यपि श्री-त्येव वीजम्महालक्ष्म्याःप्रसिद्धम् । न हृल्लेखा (ह्रीँ) ।तथापि हकारशकारयोरूष्मवर्णत्वेन साजात्यान्ना-तीव भेदः । अतएव “श्रीश्च ते लक्ष्मीश्च ते पत्न्याविति”श्रुतौ शाखान्तरे श्रीपदस्थाने ह्रीपदपाठः । एवं काम-वीज एव लकारस्य स्थाने रेफयोजनेन कालीबी-जता रलयोश्चान्त्यस्थत्वेनैक्यान्नात्यन्तंभदः । तन्त्रान्तरेषुतु कालीसरस्वत्योर्वास्तविकभेदमभिप्रेत्य बीजयोर्वैपरी-त्यव्यवहारोऽपि दृश्यत इति द्रष्टव्यम् । अयं चार्थःप्राचीतैर्वर्णितप्राय एव सम्यक्परिष्कृष्योक्तः । वस्तु-तस्तु लक्षणविरोधस्य छान्दसत्वेन पृषोदरादिपाठकल्प-नया च समाधानस्याविवादादन्योऽपि प्रकारः सुवचः ।चसु अदने इति धातोः उण् चामुरदनीयः पदार्थःस च ब्रह्मातिरिक्तः सर्वोऽपि “अत्ता चराचरग्रहणात्”इत्यधिकरणे तथा निर्णयात् तण्डापयति उड्डापयतिन विषयीकुरुते ब्रह्ममात्रविषयिणीति यावत् । अथवावकार एकाक्षरनिथण्टुरीत्या चन्द्रवाचक आह्लादप्रकाशगुणयोगादिह ज्ञानपर आनन्दपरो वा सन्ब्रह्मैव वक्ति । तत् आसमन्तान्मुण्डयतीति चामुण्डामुण्डनं नामाधारापेक्षथा न्यूनसत्ताकवस्तुनिरासः शिर-श्चर्म्मापेक्षया न्यूनसत्तावतासेव केशानां वपने प्रयोगात् ।गौडपादीयभाष्ये तु शरीरराहित्यलक्षणम् मुण्डनंमुण्डकोपनिषदि प्रोक्तं अथवा । चानाम्बुद्धानां सुखानांवा मुण्डमिव शीर्षमिव स्थिता सर्वोत्तमा चरमवृत्तिरूपाब्रह्मविद्येति यावत् । अथ चण्डिकारूपदेवतापरएव चामुण्डाशब्दः । अत एव मन्त्रान्ते बह्निजाया योज-नेन होमे चामुण्डाया इदमित्येव त्यागो विधि-शब्दस्य मन्त्रत्वे इत्यधिकरणन्यायसिद्धो युज्यते । चतुर्थीवलाच्च नमःशब्दस्यैवाष्याहारः । वीजत्रयमप्यव्ययरूपं चतुर्थ्यन्तमेव व्यष्टिदेवतात्रयवाचकमभेदद्योतकंतद्विशेषणम् विच्चे इत्यप्यखण्डमव्ययं स्वरादेरा-कृतिगणत्वात् । मन्त्रस्य पदखण्डशो न्यासप्रकरणेऽस्ययुगलस्य विभजनं विनैव न्यासविधानात् । भगभालिनीनित्यामन्त्रादिषु बहुषु तस्य प्रयोगसत्त्वेन तत्रोक्तार्थरीत्या निर्वाहाभावाच्च ततश्च हे अम्ब बन्धनकरणीभूता-मिमां रज्जुं ग्रन्थिविसर्जनादिना मोचयेति । स्त्रीसम्बोध्यकमोक्षप्रार्थनारूपो विशिष्टस्तदर्थः । यदापिदक्षिणामूर्त्तिसंहितायां भगमालिनीमन्त्रस्थ देवतागण-नावसरे “अमोघां चैव विच्चाञ्च तथेशीं क्लिन्नदेवतामिति”पाठाद्विच्चानामिका काचिद्देवतैवेत्यालोच्यते तदापि परिकरालङ्कारेण साभिप्रायं चामुण्डाविशेषणम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
