| YouTube Channel

चामरं (cAmaraM)

 
पुराणम्
English
चामरम् / CĀMARA(M). A rod (handle) with a large tuft of hair, fibre or feathers at the end. A symbol used by kings and brahmins. cāmara of the king should have a golden handle, and it should be made of the wings of the swan, the pea cock, the Balākā bird etc. But, the wings of different birds shall not be intermixed. Circular in shape, the cāmara should have on its handle 3, 4, 5, 6, 7, or 8 sandhis (joints, knots). (agnipurāṇa, Chapter 245).
शब्दकल्पद्रुमः
Sanskrit
चामरं, क्ली
पुं,
(चमरी मृगविशेषस्तस्या इदम् ।चमरी + अण् ।) चमरीपुच्छलोमनिर्म्मित-व्यजनम् चौरी इति भाषा
तत्पर्य्यायः ।प्रकीर्णकम् इत्यमरः ३१
चमरम् चामरा चामरी इति भरतः
वालव्यजनम् रोमगुच्छकम् इति रभसः
(यथा, पञ्चतन्त्रे २६६ ।“गुणेषु रागो व्यसनेष्वनादरोरतिः सुभृत्येषु यस्य भूपतेः ।चिरं भुङ्क्ते चलचामरांशुकांसितातपत्राभरणां नृपश्रियम्
”)अस्य वायुगुणः ओजःकारित्वम् मक्षि-कादिव्यपोहनत्वञ्च इति राजवल्लभः
*
अथ चामरोद्देशः ।“हस्तद्वयोन्नतः शुक्लः सुवर्णबलिभूषितः ।हीरेणालङ्कृतो राज्ञां भव्यमानसुखप्रदः
बलेश्चामरदैर्घाद्वा आयामत्वं प्रकाशितम् ।भव्यो भद्रो जयः शीलः सुखः सिद्धिश्चलः स्थिरः
वितस्त्येकैकसंवृद्ध्या दिनेशादिदिशां भुवाम् ।सौवर्णं राजतं युग्मं त्रैदेशानां महीभुजाम्
योजयेदिति निश्चित्य बलिकल्पनकर्म्मणि ।स्थलजं जाङ्गलो राजा अनूपो जलजं वहेत्
हीरञ्च पद्मरागश्च वैदूर्य्यं नील एव ।मणिर्बलिषु योक्तव्यो ब्रह्मादीनां यथाक्रमम्
*
शुक्लो रक्तोऽथ पीतश्च नानावर्णो यथाक्रमम् ।चामरो राजकेशस्य सामान्यस्य भूपतेः
भव्यमानतो न्यूनं चामरं गुणमावहेत्
”अथ चामरपरीक्षा ।स्थलजं जलजञ्चेति चामरं द्बिविधं विदुः ।मेरौ हिमालये बिन्ध्ये कैलासे मलये तथा
उदयेऽस्तगिरौ चैव गन्धमादनपर्व्वते ।एवमेतेषु शैलेषु याश्चमर्य्यो भवन्ति हि
तासां वालस्य जायेत चामरेत्यभिधा भुवि
आपीताः कनकाद्रिजा हिमगिरेः शुभ्रायताबिन्ध्यजाःकैलासादसिताः सिता मलयजाः शुक्लास्तथापिङ्गलाः ।आरक्ता उदयोद्भवाश्चमरजा आनीलशुक्लत्विषःकृष्णाः केचन गन्धमादनभवाः पाण्डुत्विष-श्चामराः
अन्येषु प्रायशः कृष्णाश्चामराः सम्भवन्ति हि ।ब्रह्मक्षत्त्रियविट्शूद्रजातयस्ताश्चतुर्व्विधाः
चमर्य्यः पर्व्वतोद्भूता यथापूर्व्वं गुणावहाः ।दीर्घवालाः सुलघवः स्निग्धाङ्गाश्चापि कोमलाः ।विरलास्तनुपर्व्वाणश्चमर्य्यो ब्रह्मजातयः ।विना संस्कारमप्यासां चामरं विमलं भवेत्
दीर्घवालाः सुगुरवः कर्करांशा भृशं घनाः ।विज्ञेयाः स्थूलपर्व्वाणश्चमर्य्यो वैश्यजातयः
संस्कारे चाप्यसंस्कारे स्वभावं त्यजेदिदम् ।खर्व्ववालाः सुलघवः कोमलाङ्गा भृशं घनाः
चमर्य्यस्तनुपर्व्वाणो विज्ञेयाः शूद्रजातयः ।संस्कारेणापि मलिनमासां चामरमिष्यते
*
दीर्घता लघुता चैव स्वच्छता घनता तथा ।गुणाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः
खर्व्वता गुरुता चैव वैवर्ण्यं मलिनाङ्गता ।दोषाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः
दीर्घे दीर्घायुराप्नोति लघौ भीतिविनाशनम् ।स्वच्छे स्याद्धनकीर्त्तिश्च घने स्युः स्थिरसम्पदः
खर्व्वे खर्व्वायुरुद्दिष्टं गुरुर्गुरुभयप्रदः ।वैवर्ण्ये रोगशोकौ मलिनं मृत्युमादिशेत्
”इति स्थलजम्
*
अथ जलजम् ।“लवणेक्षुसुरासर्पिर्दधितोयपयोऽब्धिषु ।यथोत्तरं गुणवहाश्चमर्य्यः सप्त सप्तसु
पुच्छानि तासां कृत्तानि जन्तुभिर्म्मकरादिभिः ।कदाचिदुपलभ्येत तत्तीरे पुण्यशालिभिः
लवणाब्धिसमुद्भूतं पीतं गुरु तथा लघु ।वह्नौ क्षिप्तश्च वालश्चेत् किञ्चिच्चटचटायते
इक्षुसिन्धूद्भवं ताम्रं चामरं विमलं लघु ।मक्षिका मशकाश्चैव तस्मिन् व्यजति चामरे
सुराब्धिजातं कलुषं कर्वुरं गुरुकर्क्कशम् ।तद्गन्धेनैव माद्यन्ति अपि वृक्षा मतङ्गजाः
सर्पिःसिन्धुभवं स्निग्धं श्वेतापीतं घनं लघु ।वायुरोगाः प्रशाम्यन्ति तस्य वीजनवायुना
जलसिन्धूद्भवं पाण्डु दीर्घं लघु घनं महत् ।अस्य वातेन नश्येत्तु तृष्णा मूर्च्छा मदो भ्रमः
नारिष्टं नेतयस्तस्य यस्येदं चामरं गृहे ।क्षीरोदसम्भवं श्वेतं दीर्घं लघु घनं महत्
अस्य चामरराजस्य विज्ञेयो गुणविस्तरः ।नाल्पेन तपसा लभ्यो देवानामपि जायते
ह्रियतेऽभ्यन्तरे सिन्धोर्नागैः सम्पत्तिलोलुपैः ।एषां पूर्व्ववदुन्नेयं जातिदोषगुणादिकम्
*
स्थलजे जलजे चैव भाव्यमेतद्विशेषणम् ।स्थलजं सुखदह्यं हि दाहे मिषमिषायते
जलजं वह्निदुर्दह्यं महान्तं धूममुद्गिरेत् ।चामराणां समुद्दिष्टमित्येवं लक्षणद्वयम्
एवं विमृष्य यो धत्ते राजा सुखमश्नुते
*
जलजं चामरं राजा यो धत्ते जाङ्गलेश्वरः ।तस्याचिरात् कुलं वीर्य्यं लक्ष्मीरायुश्च नश्यति
अनूपाधीश्वरो राजा यो वहेत् स्थलजं तथा ।तस्यैतानि विनश्यन्ति लक्ष्मीरायुर्यशो बलम्
नालं वर्णद्वये तेर्षा विधेयं शिल्पिना क्रमात् ।संस्कारो वालुकायन्त्रे मसूरसलिलादिभिः ।तदुष्णसलिलक्वाथात् कृत्रिमत्वं विपद्यते
”इत्युपकरणयुक्तौ चामरोद्देशः इति भोज-राजकृतयुक्तिकल्पतरुः