| YouTube Channel

चात्र (cAtra)

 
Apte
English
चात्रम् [cātram], [चाय् करणे ष्ट्रन्] A cylinder of catechu-wood used in producing the sacred fire.
Apte 1890
English
चात्रं [चाय् करणे ष्ट्रन्] A cylinder of catechu-wood used in producing the sacred fire.
Monier Williams 1872
English
चात्र चात्र, अम्, n. (sometimes read चत्र),
a cylinder of catechu-wood twelve Aṅgulas long,
tipped at both ends with iron and furnished with an
iron bolt, (this and another piece of wood called
Auvīlī are used for producing the sacred fire.)
वाचस्पत्यम्
Sanskrit
चात्र
न०
चाय--करणे ष्ट्रन् अग्निमन्थनयन्त्रावयवभेदे ।अग्न्युद्धारशब्दे ६३ पृष्ठे दृश्यम् तत्र पृष्ठे चत्र-मिति पाठः प्राचीनमुद्रितग्रन्थपाठानुसारेण प्रमादात्मुद्रितः सर्व्वत्र चात्रमित्येव पाठः साधुः का० श्रौ०४ २६ सूत्रभाष्ये तत्स्वरूपादिकम् कर्क आह ।“अग्रे पुरस्तात् प्रत्यङ्मुखे स्थिते मन्थनं कुर्य्यात् तत्रच प्रथममधरारणिमुत्तारग्रां निधाय उत्तरारण्याईशानदिग्भागादष्टाङ्गुलदीर्घं द्व्यङ्गुलविपुलं प्रमन्थंछित्त्वा तस्य मूलं चात्रबुध्ने प्रवेश्य अधरारण्या मूला-दष्टाङ्गुलं त्यक्त्वा अग्राच्च द्वादशाङ्गुलं त्यक्त्वा तदन्तरालेअङ्गुलचतुष्टयपरिमिते पूर्वारण्यन्ते मन्थानं कृत्वाचात्रबुध्नप्रोतस्य प्रमन्थस्याग्रं तत्र निधाय चात्राग्रकीलकाग्रस्योपर्य्युदगग्रामौवीलीं निधाय यन्त्रं चार-यित्वा चात्रं नेत्रेण प्रदक्षिणं त्रिर्वेष्टयित्वा तथामन्थनं कुर्यात् यथा जातोऽग्निः प्राच्यां पतति तत्र यज-मानः प्राङ्मुखो यन्त्रधारणं करोति पत्नी चात्रनेत्रेण त्रिर्वेष्टयित्वा मन्थनं करोति तथा शाखान्तरादध्व-र्युश्च तस्मादध्वर्य्युः प्रत्यङ्मुखोऽभिमन्थतीति” चात्रं चखादिरं द्वादशाङ्गुलदीर्घं वर्तुलम् अग्रेलोहकीलयुक्तम्वुध्ने प्रमन्थाग्रप्रवयनार्थगर्तयुक्तम् मूलेऽखे लोहपट्टिकया संयुक्तं कार्यम्” “औवीली खादिरीद्वादशाङ्गुलदीर्घा चतुरङ्गुलविपुलाधोभागे समा चात्राग्र-स्थितकीलकोपरिस्थापनार्थलोहपट्टिकायुक्ता उपरि-भागे वर्तुला कार्या नेत्रं गोवालशणसूत्रै-स्त्रिवृत् व्याममात्रं कार्यम् केचित् प्रमन्थाग्रेणमन्थन्ति, अपरे तु मूलेन”