| YouTube Channel

चातुर्म्मास्यं (cAturmmAsyaM)

 
शब्दकल्पद्रुमः
Sanskrit
चातुर्म्मास्यं,
क्ली,
(चतुर्षुमासेषु क्रियते इति ।“चतुर्म्मासाण्ण्यो यज्ञे ।” ९४ इत्यस्यसूत्रस्य वार्त्तिकोक्तेः ण्यः यागविशेषः चातु-र्म्मास्ययागस्य चत्वारि पर्व्वाणि वैश्वदेवो वरुण-प्रधासः शाकमेधः शुनासीरीयश्चेति शब्दार्थ-चिन्तामणिः
) आषाढशुक्लद्बादश्यादिचतुर्म्मास-कर्त्तव्यनियमविशेषः “व्यक्तं वाराहे ।‘आषाढशुक्लद्वादश्यां पौर्णमास्यामथापि वा ।चातुर्म्मास्यव्रतारम्भं कुर्य्यात् कर्कटसंक्रमे
अभावे तु तुलार्केऽपि मन्त्रेण नियमं व्रती ।कार्त्तिके शुक्लद्वादश्यां विधिवत्तत् समापयेत्
चतुर्धापि हि तच्चीर्णं चातुर्म्मास्यं व्रतं नरः ।कार्त्तिक्यां शुक्लपक्षे तु द्बादश्यां तत् समापयेत्
’मात्स्ये ।‘चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि ।मधुस्वरो भवेन्नित्यं नरो गुडविवर्ज्जनात्
तैलस्य वर्ज्जनादेव सुन्दराङ्गः प्रजायते ।कटुतैलपरित्यागात् शत्रुनाशः प्रजायते
लभते सन्ततिं दीर्घां स्थालीपाकमभक्षयन् ।सदा मुनिः सदा योगी मधुमांसस्य वर्ज्जनात्
निराधिर्णीरुगोजस्वी विष्णुभक्तश्च जायते ।एकान्तरोपवासेन विष्णुलोकमवाप्नुयात्
घारणान्नखलोम्नाञ्च गङ्गास्नानं दिने दिने ।ताम्बूलवर्ज्जनाद्भोगी रक्तकण्ठश्च जायते ।घृतत्यागात् सुलावण्यं सर्व्वं स्निग्धं वपुर्भवेत्
फलत्यागात्तु मतिमान् बहुपुत्त्रश्च जायते ।नमो नारायणायेति जप्त्वानशनजं फलम्
पादाभिवन्दनाद्विष्णोर्लभेद्गोदानजं फलम् ।एवमादिव्रतैः पार्थ ! तुष्टिमायाति केशवः
’सनत्कुमारः ।‘इदं व्रतं मया देव ! गृहीतं पुरतस्तव ।निर्व्विध्नां सिद्धिमाप्नोतु प्रसन्ने त्वयि केशव !
गृहीतेऽस्मिन् व्रते देव ! यद्यपूर्णे त्वहं म्रिये ।तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्द्दन !
’समाप्तौ ।‘इदं व्रतं मया देव ! कृतं प्रीत्यै तव प्रभो ! ।न्यूनं संपूर्णतां यातु त्वत्प्रसादाज्जनार्द्दन !
’अत्रैव यतिमधिकृत्य काठकगृह्यम् ।‘एकरात्रं वसेद्ग्रामे नगरे पञ्चरात्रकम् ।षर्षाभ्योऽन्यत्र वर्षासु मासांश्च चतुरो वसेत्
’एतदशक्तविषयम् ‘ऊर्द्धं वार्षिकाभ्यां मासाभ्यांनैकस्थानवासी’ इति शङ्खोक्तेः ।” इति तिथ्यादि-तत्त्वम्
*
अन्यच्च तत्रोपक्रमकालः सनत्-कुमारेणोक्तः ।“एकादश्यान्तु गृह्णीयात् संक्रान्तौ कर्क्कटस्य तु ।आषाढ्यां वा नरो भक्त्या चातुर्म्मास्योदितंव्रतम्
”तत्र मन्त्रः ।“चतुरोवार्षिकान् मासान् देवस्योत्थापनावधि ।इमं करिष्ये नियमं निर्व्विघ्नं कुरु मेऽच्युत !
”अथ चातुर्म्मास्यनियमावश्यकता भविष्ये ।“यो विना नियमं मर्त्यो व्रतं वा जप्यमेव वा ।चातुर्म्मास्यं नयेम्मूर्खो जीवन्नपि मृतो हि सः
”अथ चातुर्म्मास्यनियमाः स्कान्दे नागरखण्डे ।“श्रावणे वर्ज्जयेच्छाकं दधि भाद्रपदे तथा ।दुग्धमाश्वयुजे मासि कार्त्तिके चामिषं त्यजेत्
”तत्रैव श्रीब्रह्मनारदसंवादे ।“निष्पावान् राजमाषांश्च सुप्ते देवे जनार्द्दने ।यो भक्षयति विप्रेन्द्र ! श्वपचादधिको हि सः
कार्त्तिके तु विशेषेण राजमाषांश्च भक्षयन् ।निष्पावान् मुनिशाद्र्दूल ! यावदाहूतनारकी
कलिङ्गानि पटोलानि वृन्ताकसहितानि ।एतानि भक्षयेद्यस्तु सुप्ते देवे जनार्द्दने
सप्तजन्मार्ज्जितं पुण्यं हरते नात्र संशयः
”किञ्च ।“रुच्यं तत्तत्काललभ्यं फलमूलादि वर्ज्जयेत् ।जपहोमाद्यनुष्ठानं नामसङ्कीर्त्तनन्तथा ।स्वीकृत्य प्रार्थयेदेवं गृहीतनियमो बुधः
इदं व्रतं मया देव ! गृहीतं पुरतस्तव ।निर्व्विघ्नं सिद्धिमायातु प्रसादात्तव केशव !
गृहीतेऽस्मिन् व्रते देव ! पञ्चत्वं यदि मे भवेत् ।तदा भवतु सम्पूर्णं प्रसादात्ते जनार्द्दन !
*
अथ चातुर्म्मास्यव्रतनियममाहात्म्यम् विष्णु-रहस्ये ब्रह्मनारदसंवादे ।“शृणु नारद ! कार्त् स्न्येन चातुर्म्मास्यव्रतक्रियाः ।या निर्व्वर्त्त्य नरो भक्त्या प्रयाति परमां गतिम्
व्रतानि वैष्णवानीह मनस्यपि चिकीर्षतः ।नरस्य क्षयमाप्नोति पापं जन्मशतोद्भवम्
एकभक्तो नरः शान्तो नित्यस्नायी दृढव्रतः ।योऽर्च्चयेच्चतुरो मासान् हरिं स्यात्तस्य लोक-भाक्
यस्तु सुप्ते हृषीकेशे क्षितिशायी भवेन्नरः ।वार्षिकान् चतुरो मासान् लभते वैष्णवीं गतिम्
यस्तु केशवमुद्दिश्य चान्द्रायणपरायणः ।चातुर्म्मास्यं नयेद्भक्त्य्या विष्णुतनुमाविशेत्
”भविष्योत्तरे भगवद्युधिष्ठिरसंवादे ।“चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि ।स्त्री वा नरो वा मद्भक्तो धर्म्मार्थं सुदृढव्रतः
गृह्णीयान्नियमानेतान् दन्तधावनपूर्व्वकम् ।तेषां फलानि वक्ष्यामि तत्कर्त्तॄणां पृथक् पृथक्
मधुरस्वरसम्पन्नो भवेल्लवणवर्ज्जनात् ।लभते सन्ततिं दीर्घां तैलस्य परिवर्ज्जनात्
अभ्यङ्गवर्ज्जनात् पार्थ ! सुन्दराङ्गः प्रजायते ।पक्वतैलपरित्यागाच्छत्रुनाशमवाप्नुयात्
मधूकतैलत्यागेन सौभाग्यमतुलं भवेत् ।पुष्पोपभोगत्यागेन स्वर्गे विद्याधरो भवेत्
योगाम्यासी भवेद्यस्तु ब्रह्मपदमाप्नुयात् ।कट्वम्लतिक्तमधुरक्षारकाषायजान् रसान्
यो वर्ज्जयेत् वैरूप्यं वैगन्ध्यं नाप्नुयात् क्वचित् ।ताम्बूलवर्ज्जनाद्भोगी अपक्वादोऽमलो भवेत्
पादाभ्यङ्गशिरोऽभ्यङ्गपरित्यागाच्च पार्थिव ! ।दीप्तिमान् दीप्तचरणो यक्षो द्रव्यपतिर्भवेत्
दधिदुग्धतक्रनियमात् गोलोकं लभते नरः ।इन्द्रातिथित्वमायाति स्थालीपाकविवर्ज्जनात्
लभेच्च सन्ततिं दीर्घां तापपक्वस्य वर्ज्जनात् ।भूमौ प्रस्तरशायी विष्णोरनुचरो भवेत्
सदा मुनिः सदा योगी मधुमांसस्य वर्ज्जनात् ।निर्व्व्याधिर्नीरुगोजस्वी सुरामद्यविवर्ज्जनात्
एकान्तरोपवासेन ब्रह्मलोके महीयते ।धारणान्नखलोमानां गङ्गास्नानं दिने दिने
मौनव्रती भवेद्यस्तु तस्याज्ञाऽस्खलिता भवेत् ।भूमौ भुङ्क्ते सदा यस्तु पृथिव्याः पतिर्भवेत्
नमो नारायणायेति जप्त्वा दानशतं फलम् ।पादाभिवन्दनाद्विष्णोर्भवेद्गोदानजं फलम्
विष्णुपादाम्बुजस्पर्शात् कृतकृत्यो भवेन्नरः ।विष्णोर्द्देवकुले कुर्य्यादुपलेपनभार्ज्जने
कल्पस्थायी भवेद्राजा नरो नात्र संशयः ।प्रदक्षिणत्रयं यस्तु करोति स्तुतिपाठकः
हंसयुक्तविमानेन विष्णुपदं व्रजेत् ।गीतवाद्यकरो विष्णोर्गान्धर्व्वं लोकमाप्नुयात्
नित्यं शास्त्रविनोदेन लोकान् यस्तु प्रबोधयेत् ।स व्यासरूपी भगवानन्ते विष्णुपुरं व्रजेत्
पुष्पमालाकुलां पूजां कृत्वा विष्णोः पुरं व्रजेत् ।कृत्वा प्रेक्षणिकं दिव्यं स्थानमप्सरसां लभेत्
तीर्थाम्भसि कृतस्नानो निर्म्मलं देहमाप्नुयात् ।पञ्चगव्याशनात् पार्थ ! चान्द्रायणफलं लभेत्
एकभक्ताशनान्नित्यमग्निहोत्रफलं लभेत् ।नक्तभोजी समग्रन्तु तीर्थयात्राफलं लभेत्
अयाचितेन चाप्नोति वापीकूपप्रपाफलम् ।षष्ठकालेऽन्नभोजी यः स्थायी स्वर्गे नरो भवेत्
नित्यस्नायी नरो यस्तु नरकं पश्यति ।भाजनं वर्ज्जयेद्यस्तु स्नानं पौष्करं लभेत्
पत्रेषु यो नरो भुङ्क्ते कुरुक्षेत्रफलं लभेत् ।शिलायां भोजनं नित्यं भवेत् स्नानं प्रयागजम्
यामद्वयजलत्यागान्न रोगैः परिभूयते ।एवमादिव्रतैः पार्थ ! तुष्टिमायाति तोषितः
”किञ्च ।“योगनिद्रां समालम्ब्य शेषाहिशयने स्वपन् ।क्षीरोदतोयवीच्यग्रैर्धौतपादः समाहितः
लक्ष्मीकराम्बुजैः श्लक्ष्णैर्म्मृज्यमानपदद्बयः ।तस्मिन् काले मद्भक्तोयो मासांश्चतुरः क्षिपेत्
व्रतैरनेकैर्नियमैः पाण्डवश्रेष्ठ ! मानवः ।कल्पस्थायी विष्णुलोके भवेन्नास्त्यत्र संशयः
सत्यां व्रतसमाप्तौ श्रीकृष्णस्य प्रसादतः ।यद्यद्दानादिकृत्यञ्च लेख्यं तत्तच्च कार्त्तिके
स्तुत्वाथ कृष्णमभ्यर्च्च्य प्रसाद्य पुनः पुनः ।शेषं शङ्खोदतीर्थे स्वीकुर्य्याद्वैष्णवैः सह
गीतनृत्यादिना देवं परितोष्याथ वैष्णवान् ।संपूज्य नरयानेन देवं स्वालयमानयेत्
प्रभोर्नीराजनं कृत्वा विसर्ज्ज्य वत वैष्णवान् ।निवेश्य स्वासने देवं शयीत भुवि तं स्मरन्
एवञ्च कुर्व्वतो मासाश्चत्वारो यान्ति ते सुखम् ।अन्यथा प्रभवेद्दःखमनावृष्टिश्च जायते
तथा भविष्ये ।मिथुनस्थे सहस्रांशौ स्वापयति यो हरिम् ।वैष्णवैः सह सम्भूय ह्यनावृष्टिस्तदा भवेत्
किञ्च भविष्योत्तरे ।यो देवशयनं पार्थ ! अनुमोद्य समाचरेत् ।उत्थानं वापि कृष्णस्य हरेर्लोकमाप्नुयात्
”इति श्रीहरिभक्तिविलासे १५ विलासः