| YouTube Channel

चाङ्गेरीघृत (cAGgerIghRta)

 
वाचस्पत्यम्
Sanskrit
चाङ्गेरीघृत
न०
चक्रदत्तोक्ते चाङ्गेरीपक्वे घृतभेदे तत्-पाकविधिर्यथा “नागरं पिप्पलीमूलं चित्रकं हस्तिपि-प्पली श्वदंष्ट्रा पिप्पली धान्यं विल्वं पाठा यमानिका ।चाङ्गेरीसरसे सर्पिः कल्कैरेतैर्विपाचितम् चतुर्गु-णेन दध्ना तद्घृतं कफवातनुत् अर्शांसि ग्रह-णीदोषं मूत्रकृच्छ्रं प्रवाहिकाम् गुदभ्रंशार्त्तिमानाहंघृतमेतद् व्यपोहति” चक्रदत्तः