| YouTube Channel

चाखादा (cAkhAdA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“खादृ भक्षणे”@} 2 खादकः-दिका, खादकः-दिका, चिखादिषकः-षिका, चाखादकः-दिका
खादिता-त्री, खादयिता-त्री, चिखादिषिता-त्री, चाखादिता-त्री
खादन्-न्ती, 3 खादयन् 4-न्ती, चिखादिषन्-न्ती
-- 5 खादिष्यन्-न्ती-ती, खादयिष्यन्-न्ती-ती, चिखादिषिष्यन्-न्ती-ती
-- -- -- चाखाद्यमानः, चाखादिष्यमाणः
सुखात्-सुखाद्-सुखादौ-सुखादः
-- -- 6 खादितः- 7 तम्, 8 खादितः, चिखादिषितः, चाखादितः-तवान्
खादः, 9 खादकः, 10 सर्पखादी, खादः, चिखादिषुः, चाखादः
खादितव्यम्, खादयितव्यम्, चिखादिषितव्यम्, चाखादितव्यम्
खादनीयम्, खादनीयम्, चिखादिषणीयम्, चाखादनीयम्
11 खाद्यम्, खाद्यम्, चिखादिष्यम्, चाखाद्यम्
ईषत्खादः-दुष्खादः-सुखादः
-- -- खाद्यमानः, खाद्यमानः, चिखादिष्यमाणः, चाखाद्यमानः
खादितुम्, खादयितुम्, चिखादिषितुम्, चाखादितुम्
12 खादा, खादना, चिखादिषा, चाखादा
खादनम्, खादनम्, चिखादिषणम्, चाखादनम्
खादित्वा, खादयित्वा, चिखादिषित्वा, चाखादित्वा
सङ्खाद्य, प्रखाद्य, सञ्चिखादिष्य, सञ्चाखाद्य
खादम् २, खादित्वा २, खादम् २, खादयित्वा २, चिखादिषम् २, चिखादिषित्वा २, चाखादम्
चाखादित्वा २। 13
प्रासङ्गिक्यः
01
=>
(३४७)
02
=>
(१-भ्वादिः-४९। सक। सेट्। पर।)
03
=>
[[३। ‘निगरणचलनार्थेभ्यश्च’ (१-३-८७) इति ण्यन्तात् शतैव। ‘आदिखाद्योर्न’ इति अणौ कर्तुः णौ कर्मसंज्ञा भवति।]]
04
=>
[अन्न्नं वटुना]
05
=>
[पृष्ठम्०३५२+ २३]
06
=>
[[१। ‘क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ (३-४-७६) इति अधिकरणेऽपि क्तः। इदमेषां खादितम्। प्रत्यवसानम् = भक्षणम्। एवं कर्तर्यपि।]]
07
=>
[[आ। ‘आशङ्कमानो वैदेहिं खादितां निहतां मृताम्। शत्रुघ्नस्य सोदर्यं दूरादायान्तमैक्षत।।’ भ। का। ६-६।]]
08
=>
[[२। ‘निष्ठायां सेटि’ (६-४-५२) इति णिलोपः।]]
09
=>
[[३। ‘निन्दहिंसक्लिशखाद--’ (३-२-१४६) इत्यादिना तच्छीलादिषु कर्तृषु वुञ्।]]
10
=>
[[४। णिनिस्ताच्छील्ये।]]
11
=>
[[B। ‘पलान्यखाद्यानि खदन् बदद्वपुः गदन् अवाच्यानि रदन् सतां मनः। नदन् मदाद् अर्दितसंक्षयोऽधुना क्षणं खलो नर्दतु गर्दभस्वरैः।।’ धा। का। १-८।]]
12
=>
[[५। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियाम् अकारप्रत्ययः।]]
13
=>
[पृष्ठम्०३५३+ २५]