| YouTube Channel

चाक्षुषं (cAkSuSaM)

 
शब्दकल्पद्रुमः
Sanskrit
चाक्षुषं,
क्ली,
(चक्षुषा निर्वृत्तम् चक्षुष् + “तेननिर्वृत्तम् ।” ७९ इत्यण् ।) प्रत्यक्ष-विशेषः तत्तु चक्षुरिन्द्रियजन्यज्ञानम् द्रव्य-चाक्षुषं प्रति चक्षुःसंयोगः कारणम् द्रव्य-समवेतचाक्षुषं प्रति चक्षुःसंयुक्तसमवायः द्रव्य-समवेतसमवेतचाक्षुषं प्रति चक्षुःसंयुक्तसमवेत-समवायः इति सिद्धान्तमुक्तावली
तथा ।“द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः ।द्रव्येषु समवेतानां तथा तत्समवायतः
तत्रापि समवेतानां शब्दस्य समवायतः ।तद्वृत्तीनां समवेतसमवायेन तु ग्रहः
”इति भाषापरिच्छेदे
५९ -- ६०
(चक्षुषा गृह्यते इति चक्षुष + अण् चक्षु-र्ग्राह्यरूपादि चक्षुर्व्याप्ते, त्रि
)