| YouTube Channel

चाक्षरम् (cAkSaram)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्षर संचलने”@} 2 ज्वलादिः।
‘सञ्चये’ इति एके।
क्षारकः-रिका, क्षारकः-रिका, चिक्षरिषकः-षिका, 3 चाक्षरकः-रिका
क्षरिता-त्री, क्षारयिता-त्री, चिक्षरिषिता-त्री, चाक्षरिता-त्री
क्षरन्-न्ती, क्षारयन्-न्ती, चिक्षरिषन्-न्ती
-- क्षरिष्यन्-न्ती-ती, क्षारयिष्यन्-न्ती-ती, चिक्षरिषिष्यन्-न्ती-ती
-- --क्षारयमाणः, क्षारयिष्यमाणः, चाक्षर्यमाणः, चाक्षरिष्यमाणः
विक्षः-विक्षरौ-विक्षरः
-- -- क्षरितम्-तः, क्षारितः, चिक्षरिषितः, चाक्षरितः-तवान्
4 5 क्षरः, 6 क्षारः-क्षारी, 7 क्षारः 8 क्षरणः, 9 अक्षरम्, चिक्षरिषुः, चाक्षरः
क्षरितव्यम्, क्षारयितव्यम्, चिक्षरिषितव्यम्, चाक्षरितव्यम्
क्षरणीयम्, क्षारणीयम्, चिक्षरिषणीयम्, चाक्षरणीयम्
क्षार्यम्, क्षार्यम्, चिक्षरिष्यम्, चाक्षर्यम्
ईषत्क्षरः-दुःक्षरः-सुक्षरः
-- -- क्षर्यमाणः, क्षार्यमाणः, चिक्षरिष्यमाणः, चाक्षर्यमाणः
10 क्षारः, क्षारः, चिक्षरिषः, चाक्षरः
क्षरितुम्, क्षारयितुम्, चिक्षरिषितुम्, चाक्षरितुम्
क्षर्तिः, क्षारणा, चिक्षरिषा, चाक्षरा
क्षरणम्, क्षारणम्, चिक्षरिषणम्, चाक्षरणम्
क्षरित्वा, क्षारयित्वा, चिक्षरिषित्वा, चाक्षरित्वा
विक्षर्य, विक्षार्य, सञ्चिक्षरिष्य, सञ्चाक्षर्य
क्षारम् २, क्षरित्वा २, क्षारम् २, क्षारयित्वा २, चिक्षरिषम् २, चिक्षरिषित्वा २, चाक्षरम्
चाक्षरित्वा २।
प्रासङ्गिक्यः
01
=>
(३००)
02
=>
(१-भ्वादिः-८५१। अक। सेट्। पर।)
03
=>
[[२। ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासस्य दीर्घः।]]
04
=>
[पृष्ठम्०३१४+ २७]
05
=>
[[आ। ‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते।।’ इति भगवद्गीता (१५-१६)।]]
06
=>
[[१। ‘ज्वलितिकसन्तेभ्योणः’ (३-१-१४०) इति कर्तरि णो वा। पक्षे पचाद्यच् (३-१-१३४)।]]
07
=>
[[२। ‘णेऽप्यण्कृतानि भवन्ति क्वचित्’ (परिभाषा) इति ङीप्। इति क्षीरतरङ्गिणी।]]
08
=>
[[३। ‘चलनशब्दार्थादकर्मकात्’ (३-२-१४८) इति युच् ताच्छीलिकः।]]
09
=>
[[४। क्षरतीत्यक्षरम्। पचाद्यजन्तोऽयम्।]]
10
=>
[[५। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्।]]