| YouTube Channel

चहितम्-तः (cahitam-taH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“चह परिकल्कने”@} 2 परिकल्कनम् = शाठ्यम्, दम्भो वा।
‘चहयेच्चहतीत्येते चहेः स्तां परिकल्कने।।’ 3 इति देवः।
चाहकः-हिका, 4 चाहकः-हिका, चिचहिषकः-षिका चाचहकः-हिका
चहिता-त्री, चाहयिता-त्री, चिचहिषिता-त्री, चाचहिता-त्री
चहन्-न्ती, चाहयन्-न्ती, चिचहिषन्-न्ती
-- चहिष्यन्-न्ती-ती, चाहयिष्यन्-न्ती-ती, चिचहिषिष्यन्-न्ती-ती
-- चाहयमानः, चाहयिष्यमाणः, चाचह्यमानः, चाचहिष्यमाणः
5 प्रचट्-प्रचड्-प्रचहौ-प्रचहः
-- -- -- चहितम्-तः, चाहितः, चिचहिषितः, चाचहितः-तवान्
चहः, चाहः, चिचहिषुः, चाचहः
चहितव्यम्, चाहयितव्यम्, चिचहिषितव्यम्, चाचहितव्यम्
चहनीयम्, चाहनीयम्, चिचहिषणीयम्, चाचहनीयम्
चाह्यम्, चाह्यम्, चिचहिष्यम्, चाचह्यम्
ईषच्चहः-दुश्चहः-सुचहः
-- -- चह्यमानः
चाह्यमानः, चिचहिष्यमाणः, चाचह्यमानः
6 चाहः, चाहः, चिचहिषः, चाचहः
चहितुम्, चाहयितुम्, चिचहिषितुम्
चाचहितुम्
7 8 चाढिः, चाहना, चिचहिषा, चाचहा
चहनम्, चाहनम्, चिचहिषणम्, चाचहनम्
चहित्वा, चाहयित्वा, चिचहिषित्वा, चाचहित्वा
प्रचह्य, प्रचाह्य, प्रचिचहिष्य, प्रचाचह्य
चाहम् २, चहित्वा २, चाहम् २, चाहयित्वा २, चिचहिषम् २, चिचहिषित्वा २, चाचहम्
चाचहित्वा।
प्रासङ्गिक्यः
01
=>
(५१४)
02
=>
(१-भ्वादिः-७२९। सक। सेट्। पर।)
03
=>
(श्लो। १९६)
04
=>
[[३। धातुपाठेऽर्थनिर्देशस्योपलक्षणतया, परिकल्कनभिन्नेऽर्थे ण्यन्तात् इमानि रूपाणि लिखितानि। परिकल्कनेऽर्थे चुरादिपठितस्य घटादिषु पाठात्, मित्त्वप्रयुक्तानि कार्याणि उत्तरत्र (५१६ धातौ) प्रदर्श्यन्ते।]]
05
=>
[[४। ‘हो ढः’ (८-२-३१) इति ढत्वे, अवसाने चर्त्वविकल्पः।]]
06
=>
[[आ। ‘चाहेनामहितस्य चास्य निघनोद्योगं रहस्यूचिवान् गन्तव्यं खलु रंहसेति दृढामाज्ञां प्रभोरभ्यधात्।।’ धा। का। १-९१।]]
07
=>
[पृष्ठम्०४९६+ २४]
08
=>
[[१। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधः। अनन्तरम्, ढत्वधत्वष्टुत्वढलोपदीर्घेषु रूपमेवं भवति।]]
1 {@“चह परिकल्कने”@} 2 ज्ञपादिः।
‘चप--’ इति दुर्गसम्मतः पाठः।
‘चहयेच्चहतीत्येते चहेः स्तां परिकल्कने।।’ 3 इति देवः।
4 चहकः 5 हिका, चिचहयिषकः-षिका
चहयिता-त्री, चिचहयिषिता-त्री
चहयन्-न्ती, चिचहयिषन्-न्ती
चहयिष्यन् न्ती-ती, चिचहयिषिष्यन्-न्ती-ती
चहयमानः, चिचहयिषमाणः
चहयिष्यमाणः, चिचहयिषिष्यमाणः
6 प्रचट्-प्रचड्-प्रचहौ-प्रचहः
-- -- चहितम्-तः, चिचहयिषितः-तवान्
चहः, चिचहयिषुः
चहयितव्यम्, चिचहयिषितव्यम्
चहनीयम्, चिचहयिषणीयम्
चह्यम्, चिचहयिष्यम्
ईषच्चहः-दुश्चहः-सुचहः
-- चह्यमानः, चिचहयिष्यमाणः
चहः, चिचहयिषः
चहयितुम्, चिचहयिषितुम्
7 चहना, चिचहयिषा
चहनम्, चिचहयिषणम्
चहयित्वा, चिचहयिषित्वा
8 प्रचहय्य, प्रचिचहयिष्य
-- -- 9 चहम् २, चाहम् २, चहयित्वा २, चिचहयिषम् २, चिचहयिषित्वा २। 10
प्रासङ्गिक्यः
01
=>
(५१५)
02
=>
(१०-चुरादिः-१६२७। सक। सेट्। उभ।)
03
=>
(श्लो। १९६)
04
=>
[[आ। ‘चाणूर एनमथ विज्ञपयन् नृपाज्ञां चण्डातकं सुयमयंश्चहको बभाषे।’ धा। का। ३-२५।]]
05
=>
[[२। ज्ञपादिषु अस्य पाठात् मित्त्वेन, ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाया ह्रस्वः। एवमेव ण्यन्तात् सन्यपि उपधाह्रस्वो बोध्यः।]]
06
=>
[[३। ‘हो ढः’ (८-२-३१) इति ढत्वे, अवसाने चर्त्वविकल्पः।]]
07
=>
[[४। ‘ण्यासश्रन्थो युच्’ (३-३-१०७) इति युच्।]]
08
=>
[[५। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
09
=>
[[६। ‘चिण्णमुलोदीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
10
=>
[पृष्ठम्०४९७+ २१]