| YouTube Channel

चलितुत् (calitut)

 
कृदन्तरूपमाला
Sanskrit
1 {@“चल कम्पने”@} 2 घटादिः।
ज्वलादिः।
‘--भृत्यां चालयेत् कंपने चलेत्।’ 3 इति देवः।
चालकः-लिका, चालकः-लिका- 4 चलकः-लिका, चिचलिषकः-षिका, चाचलकः-लिका
5 चलिता-त्री, चालयिता-चलयिता-त्री, चिचलिषिता-त्री, चाचलिता-त्री
चलन्-न्ती, चालयन्-चलयन् 6 -न्ती, चिचलिषन्-न्ती
-- चलिष्यन्-न्ती-ती, चालयिष्यन्-चलयिष्यन्-न्ती-ती, चिचलिषिष्यन्-न्ती-ती
व्यतिचलमानः, व्यतिचलिष्यमाणः, -- चाचल्यमानः, चाचलिष्यमाणः
चल्-चलौ-चलः
-- -- -- चलितम्-तः, चालितम्-चलितम्-तः, चिचलिषितः, चाचलितः-तवान्
7 चलः- 8 चालः, 9 चलनः, 10 चलाचलः, 11 चाचलिः, चालः-चलः, चिचलिषुः, चाचलः
चलितव्यम्, चालयितव्यम्-चलयितव्यम्, चिचलिषितव्यम्, चाचलितव्यम्
चलनीयम्, चालनीयम्-चलनीयम्, चिचलिषणीयम्, चाचलनीयम्
चाल्यम्, चाल्यम्-चल्यम्, चिचलिष्यम्, चाचल्यम्, ईषच्चलः-दुश्चलः-सुचलः
-- -- चल्यमानः, चाल्यमानः-चल्यमानः, चिचलिष्यमाणः, चाचल्यमानः
चालः, चालः-चलः, चिचलिषः, चाचलः
चलितुत्, चालयितुम्-चलयितुम्, चिचलिषितुम्, चाचलितुम्
12 चलितिः, चालना-चलना, चिचलिषा, चाचला
चलनम्, चालनम्-चलनम्, चिचलिषणम्, चाचलनम्
चलित्वा, चालयित्वा-चलयित्वा, चिचलिषित्वा, चाचलित्वा
प्रचल्य, प्रचाल्य- 13 प्रचलय्य, प्रचिचलिष्य, प्रचाचल्य
14 चालम् २, चलित्वा २, चालम् २- 15 चलम् -चालम् २, चालयित्वा-२, चलयित्वा २, चिचलिषम् २, चिचलिषित्वा २, चाचलम्
चाचलित्वा २।
प्रासङ्गिक्यः
01
=>
(५१०)
02
=>
(१-भ्वादिः-८३२। अक। सेट्। पर।)
03
=>
(श्लो। १५८)
04
=>
[[१। ‘कम्पने चलिः’ इति घटादौ पाठात् कम्पनार्थे मित्त्वम्। ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाया ह्रस्वः। कम्पनादन्यार्थे तु मित्त्वं न। शीलं चालयन् = अन्यथा कुर्वन् इत्यर्थः। एवं ण्यन्ते रूपद्वयमर्थभेदेन बोध्यम्।]]
05
=>
[पृष्ठम्०४९२+ २७]
06
=>
[[आ। ‘तां प्राविशत् कपिव्याघ्रस्तरूनचलयन् शनैः।’ भ। का। ८-६०।]]
07
=>
[[B। ‘ज्वालेन तापेन चला जडाङ्गीरटालशोकट्वलितप्रतापाः।।’ धा। का। २-२१।]]
08
=>
[[१। ‘ज्वलितिकसन्तेभ्यो णः’ (३-१-१४०) इति कर्तरि वा णः, पक्षे पचाद्यच्।]]
09
=>
[[२। ‘चलनशब्दार्थादकर्मकाद्युच्’ (३-२-१४८) इति ताच्छीलिको युच्।]]
10
=>
[[३। ‘चरिचलिपतिवदीनां द्वित्वमचि, आक् चाभ्यासस्य’ (वा। ३-१-१३४) इति द्वित्वम्, अभ्यासस्य आगागमः। पक्षे चलः इत्यपि साधुः।]]
11
=>
[[४। ‘सासहिवावहिपापतिचाचलीनामुपसंख्यानम्’ (वा। ३-२-१७१) इति वचनात् किः, किन् वा प्रत्ययः। द्वित्वादिकं बोध्यम्।]]
12
=>
[[५। ‘तितुत्रेष्वग्रहादीनाम्--’ (बा। ७-२-९) इति वचनात् भणितिरित्यत्रेव इड् भवति।]]
13
=>
[[६। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
14
=>
[पृष्ठम्०४९३+ २२]
15
=>
[[१। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ उपधाया दीर्घविकल्पः।]]