| YouTube Channel

चर्षणिः (carSaNiH)

 
Wordnet
Sanskrit
Synonyms:
पुरुषः, नरः, ना, मनुष्यः, मानुषः, मानवः, मनुजः, जनः, पुमान्, मर्त्यः, पूरुषः, मनुः, पञ्च़जनः, मनुभूः, पुंव्यक्तिः, वीरः, मालः, वृधसानः, वृधसानुः, चर्षणिः, भूस्पृक्
noun
पुमान् मानवजातीयः।
"द्विधा कृत्वात्मनो देहम् अर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी तस्यां विराजम् असृजत् प्रभुः।"
शब्दकल्पद्रुमः
Sanskrit
चर्षणिः,
पुं,
(कर्षतीति कृष + “कृषेरादेश्चचः ।” पां-उणां १०३ इति अनिःआदेश्च चः ।) जनः यथा, श्रीभागवते ।“स चर्षणीनामुदगाच्छुचो मृजन्प्रियः प्रियाया इव दीर्घदर्शनः
”मनुष्यजातिः यथा, --“अर्य्यम्नो मातृका पत्नी तयोश्चर्षणयः सुताः ।यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता
”इति श्रीभागवते ३१
“चर्षणयःकृताकृतज्ञानवन्तः पश्यन्तिकर्म्मत्वेन निघण्ट्वा-दावुक्तेः यत्र येषु आत्मानुसन्धानविशेषेणमानुषी जातिश्चोपकल्पिता तथा श्रुतिः ।पुरुषत्वे चाविस्तरामात्मेति ।” इति तट्टीकायांश्रीधरस्वामी
(अत्र उणादिवृत्तिकृतोज्ज्वल-दत्तेन तु “कृषेरादेश्च धः ।” इति पठित्वाधर्षणिर्बन्धकीति व्याख्यातम्
)